________________ नयप्र० का 0 34 ] संग्रहनयस्य लक्षणम् 613 विवृतिः-यथैकं क्षणिकं ज्ञानं सद्भिरसद्भिर्वा प्रतिभासभेदैः स्वयमभेदकैरिष्टं तथा एकं द्रव्यं सहक्रममाविभिः स्वयमभेदकैः भेदैः दृश्यैरदृश्यैश्चानादिनिधनमवगन्तव्यम् / बहिरिव ज्ञानपरमाणुसञ्चये पुनः अन्योन्यानात्मकत्वे सर्वथाऽसक्रमव्यवस्थायाम् एकस्थूलनिर्भासविरोधात् / ___ सन्तश्च असन्तश्च ते च ते स्वस्य अर्थनिर्भासाश्च नीलस्थूलादिप्रति- 5 ___ भासास्तैः, कथम्भूतैः ? खयम् आत्मना अभेदकैः, यथा एकं ज्ञानं कारिकाव्याख्यानम् विशेषेण देशकालनरान्तराबाधितरूपेण भाति भासते / कदा ? सह एकस्मिन् काले तथा क्रमविवर्तिभिः तैः एकं विभाति / कथम्भूतैः इत्याह-दृश्यादृश्यैः। वर्तमानकालापेक्षया दृश्यैः अतीतकालापेक्षया चाऽदृश्यैः / यदि वा सद्भिः स्वनिर्भासैः सदादिभिः असद्भिः अर्थनिर्भासैः एकं यथा, तथा क्रमवि- 10 वार्तिभिः सुखादिभिः एकं विभातीति ग्राह्यम् / ____ कारिकां व्याख्यातुमाह-'यथैकम्' इत्यादि / यथा येन प्रकारेण एकं क्षणिकं _ ज्ञानम्, उपलक्षणमेतत् तेन पुरुषस्यापि ग्रहणम् / सद्भिः विद्यमानैः विवृतिव्याख्यानम्-१ - असद्भिर्वाऽविद्यमानैर्वा / कै: ? प्रतिभासभेदैः। कथम्भूतैः ? स्वयमभेदकैः इष्टम् अङ्गीकृतम्, तथा एकं द्रव्यमभ्युपगन्तव्यम् / कैः ? भेदैः 15 विशेषैः / कथम्भूतैः ? सहक्रमभाविभिः सहभाविभिः गुणैः क्रमभाविभिः पर्यायैः / पुनरपि किंविशिष्टैः ? दृश्यैरदृश्यैश्च / अनेन एकत्वे प्रमाणान्तरवृत्ति दर्शयति / कथम्भूतं तव्यमित्याह-अनादिनिधनम् / प्रसाधितश्च अनादिनिधनत्वं प्रागेवास्य इत्यलं पुनस्तत्प्रसाधनप्रयासेन / ननु ज्ञानमपि तैरेकं नेष्यते "किं स्यात्सा चित्रतैकस्यां न स्यातत्तस्यां मतावैपि' [प्रमाणवा० 2 / 210] इत्यभिधानात् / अत्राह-'बहिरिव' 20 इत्यादि / यथा बहिः परस्परासंसृष्टनिरंशक्षणिकपरमाणुसञ्चयः तथा ताहिणामन्येषां वा ज्ञानपरमाणूनां सञ्चये अङ्गीक्रियमाणे, 'पुनः' इति पक्षान्तरसूचकः / (1) योगाचारैः। (2) द्रष्टव्यम्-न्यायकुमु० पृ० 130 टि० 6 / शास्त्रवा० यशो० पृ० 49 / व्याख्या-“ननु यदि सा चित्रता बुद्धौ एकस्यां स्यात्, तया च चित्रमेकं द्रव्यं व्यवस्थाप्येत तदा किं दूषणं स्यात् ? आह-न स्यात्तस्यां मतावपि / न केवलं द्रव्यं तस्यां मतावपि एकस्यां न स्याच्चित्रता आकारनानात्वलक्षणत्वाद् भेदस्य, नानात्वेऽपि चित्रता कथमने कपुरुषप्रतीतिवत् / कथन्तर्हि प्रतीतिरित्याह-यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् / यदीदम् अताद्रूप्येऽपि ताप्यप्रथनम् अर्थानां भासमानानां नीलादीनां स्वयम् अपरप्रेरणया रोचते, तत्र तथाप्रतिभासे के वयमसहमाना अपि निषेधुम्, अवस्तु च प्रतिभासते चेति व्यक्तमालीक्यम् ।"-प्रमाणवा. मनोरथ० 2 / 210 / (3) सौगतः। “तस्मानार्थेषु न ज्ञाने स्थूलाभासस्तदात्मनः। एकत्र प्रतिषिद्धत्वात् बहुष्वपि न सम्भवः / / तस्मान्नार्थेषु वाह्येषु न ज्ञाने तद्ग्राहके स्थलाभासः स्थूल आकारः सङ्गच्छने / तदात्मनः स्थूलस्वरूपस्यैकत्रावयवे परमाणौ वा प्रतिषिद्धत्वात् / बहुष्वपि तेषु संभवो नास्ति मिलिता अपि हि त एव / ते च प्रत्येक स्थौल्यविकला 1 भाति प्रतिभासते ब०, श्र०। 2 वाद-ब०। 3-सैः एक-श्र० / 4 क्षणिक क्षणिक ज्ञानम् आ०। एकत्वप्रमा-श्र०। 6 पुनस्तत्प्रतिपादन-श्र०।