________________ 612 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० 'भेदात्' इत्यादि / भेदात् विशेषात् सामान्यलक्षणं स्वरूपं यस्य, सामान्येन वा लक्ष्यते यः स तथोक्तः तस्मात् तमाश्रित्य इत्यर्थः / यथा च क्षणिकनिरंशपरमाण्वादिरूपं पुरुषाद्वैतरूपं वा तत्त्वं न व्यवतिष्ठते तथा प्रागेव प्रेपश्चत: प्रतिपादितम् / 'भेदान् सामान्यलक्षणान्' इति वा पाठः। तत्र तान् प्रत्यक्षं शंसेत् इत्यर्थः / कारिकां विवृण्वन्नाह-'स्वार्थ' इत्यादि / भ्रान्तं विप्लुतं ज्ञानं सर्व निरवशेष विवृतिविवरणम् लौकिकं शास्त्रीयञ्च, यदि वा सौगतकल्पितं पुरुषायद्वैतवादिकल्पि ' तश्च / कथम्भूतं प्रत्यक्षं विशदमभ्रान्तम् / केन रूपेणेत्याहसद्रूपेण सदादिस्वभावेन / कस्मिन् सत्यपीत्याह-'स्वार्थ' इत्यादि / स्वश्च अर्थश्च तयोर्भेदो विवेकः अर्थस्य परमाणुलक्षणस्य परस्परम्, स्वानस्य विप्लवाकारा [द्] 10 भेदो नावबुध्यते सर्व हि ज्ञानं नात्मानं विमुतं जानाति स्वस्य विप्लुताकारात् तस्य अनवबोधेऽपि / तत्कि कुर्यादित्याह-द्रव्यं स्खलक्षणं विद्यात् / ननु स्यादेतत् यदि तद्भेदानवबोधः स्यात् यावता स्वार्थयोः सद्रूपेणेव भेदरूपेणाप्यवबोधोऽस्तीत्याशङ्-. क्याह-'अन्यथा' इत्यादि। उक्तप्रकाराद् अन्येन प्रकारेण अन्यथा भ्रान्तेरभावप्रसङ्गात् 'तत् तत्कुर्यात्' इति सम्बन्धः। तथाहि-यथा तत् प्रत्यक्षं सद्रूपेण तथा यदि स्वार्थभेद15 रूपेणापि; तर्हि स्थूलाकारों भ्रान्तिः कुतः ? ग्राह्यादिचेतनेतरादिभ्रान्तिा ? नहि यथा वद्रूपेण वस्तुनः प्रतिभासे सी युक्ता ; कदाचिदपि तदनुपरतिप्रसङ्गात् / तथा तद्भेदानवबोधवत् सद्रूपेणापि यदि तैदप्रत्यक्षम्; तदा कस्यचिदपि प्रतिभासाभावात् कुतो भ्रान्ति: ? ननु प्रतिक्षणविलक्षणज्ञानादिक्षणव्यतिरिक्तस्य जीवादिद्रव्यस्यासंभवात् कथं 'द्रव्यं शंसेत्' इत्युक्तं शोभेत इत्याशङ्कयाह सँदसत्स्वार्थनिर्भासः सहक्रमविवर्तिभिः। ___ दृश्यादृश्यैर्विभात्येकं भेदैः स्वयमभेदकैः // 34 // (1) पृ० 375, 150 / (2) बहिरन्तः। (3) भेदान्। (4) 'स्वज्ञानस्य' इत्यादि $ एतच्चिह्नान्तर्गतः पाठः ब०, श्र० प्रत्योः त्रुटितायां पू० प्रतौ च नास्ति / अर्थानुरोधात्तु 'स्वस्य ताकारात' इत्यंशस्य टिप्पण्यात्मक एव भाति / (5) स्वार्थभेदानवबोधः। (6) प्रत्यक्षम् / (7) स्वलक्षणं द्रव्यं शंसेत् / (8) द्रव्यम् / (9) स्थूलाकारा 'प्रतीतिः कथं भ्रान्तिरूपा स्यात् ? (10) भ्रान्तिः। (11) यथावद्वस्तुप्रतिभास एव हि भ्रान्तिनिवृत्तिकारणम् / यदि च यथावद्वस्तुग्रहणेऽपि भ्रान्तिः न निवर्तेत तदा न कदापि तस्याः निवृत्तिः संभाव्येति भावः। (12) स्वार्थभेदाज्ञानवत् / (१३)द्र व्यम् / (१४)कस्यचिदपि पुरुषस्य सामान्यतो विशेषतो वा प्रतिभासाभावात् न भ्रान्तिः स्यात्, भ्रान्तेः सामान्यप्रतिभासनिबन्धनत्वादिति भावः। (15) सौगतः / (16) "अयमर्थः-यथा सद्भिः ज्ञानगताकारैः असद्भिराकारः नीलादिभिः सहकं ज्ञानं विभाति तव न विरुध्यते, तथा अर्थव्यञ्जनपर्यायैः सहक्रमविवर्तिभिः व्यज्जनपर्यायैः सहकं द्रव्यमपि विभाति न विरुध्यते इति / दृश्याः स्थूला व्यज्जनपर्यायाः अदृश्या सूक्ष्माः केवलागमगम्या अर्थपर्यायाः।"-लघी० ता० पृ०५५। 1 परमार्थोहि रूपं ब०। 2 भेदात् ब०। 3 च श्र०। 4 विप्लवं ज्ञा-आ० / 5-ल्पितं कथं-श्र० / एतदन्तर्गतः पाठो नास्ति ब०. श्र० / 6 द्रव्यस्वल-आ० / 7 विद्यादेतद्यदि आ०, श्र०। 8 तत्कु-ब०। 9 यथा आ० / 10-क्षणाना आ० / 11-दिलक्षण-श्र०। 20