________________ नयप्र० का० 33] संग्रहनयस्य लक्षणम् नाप्यसत् सत्तासम्बन्धात्सत्' [ ] इति; सद्रूपरहितस्य हि द्रव्यादेः तत्स्वभावशून्यस्य च सद्रूपस्य ग्रहणे सति एतत् स्यात्, न च तद्ग्रहणमस्ति, सर्वदा उभयोः उभयात्मनो वेदनादिति भावः। पूर्वेण परपक्षे विरोधोद्भावनम् , अनेन तु प्रतीतितो भेदस्य सदात्मकत्वसाधनमिति विभागः / अत्राह सौगतः- यदुक्तम्-यथैव ज्ञानस्य आत्मनिर्भासभेदाः नैकत्वं बाधन्ते' 5 इति; तदप्युक्तम् ; निरंशैकज्ञानोपगमात् , सर्वोऽव्ययं विरुद्धधर्माध्यासी स्तम्भादिप्रतिभासो विभ्रमो मरीचिकाचक्रे जलवदिति कथं तन्निदर्शनेन अभिमततत्त्वसिद्धिः स्यात् ? पुरुषाद्वैतवाद्यपि आह-निस्तरङ्गं पुरुषमात्रं तत्त्वम् , जीवाजीवप्रभेदः पुनः उपप्लवः, ततो 'जीवस्य अजीवस्य वा' इत्याद्यप्ययुक्तम् ; इत्याशङ्क्याहप्रत्यक्षं बहिरन्तश्च भेदाज्ञानं सदात्मना / 10 द्रव्यं स्वलक्षणं शंसद्धेदात् सामान्यलक्षणात् // 33 // विवृतिः-स्वार्थभेदानवबोधेऽपि भ्रान्तं ज्ञानं सर्व सद्रूपेण प्रत्यक्षं द्रव्यं स्वलक्षणं विद्यात्, अन्यथा भ्रान्तेरभावप्रसङ्गात् / प्रत्यक्षमुक्तलक्षणम् , कथम्भूतं तदित्याह-भेदाज्ञानम् , भेदस्य निरंशक्षणिक विभ्रमविविक्तविशेषस्य अज्ञानम् अग्रहणम् येन यस्मिन् वा तत्त- 16 काारकाव्याख्यानम् - थोक्तम् / क्वेत्याह-'बहिरन्तश्च' इति, बहिर्घटादौ अन्तः ज्ञानपुरुषस्वरूपे / नहि तत्तत्रं निरंशक्षणिकादिरूपं परपरिकल्पितं विशेषं जातु प्रतिपद्यते . . विभ्रमाभावानुषङ्गात् / यदि तत्तत्र भेदाज्ञानम् , केन तर्हि प्रकारेण प्रत्यक्षमित्याह 'सदात्मना' इति / सगृहणमुपलक्षणं तेन 'सच्चेतननीलाद्यात्मना' इति गृह्यते / तत्किं कुर्यादित्याह-'द्रव्यम्' इत्यादि / द्रव्यमनन्तरोक्तं स्वलक्षणं वस्तु शंसेत् 20 स्तुयात् न परपरिकल्पितं परमाण्वादि / एवमपि पुरुषादिद्रव्यं स्वलक्षणं शंसेदित्याह (1) द्रव्यादिस्वभावरहितस्य / (2) सत्त्व-द्रव्ययोः। (3) सत्त्वस्य द्रव्यादिविशेषसापेक्षतया, द्रव्यस्य च सत्त्वविशेषणापेक्षतया। (4) 'नहि असदात्मा' इत्यादि विवृतिवाक्येन / (5) 'नहि किञ्चिज्ज्ञानम्' इत्याद्यंशेन / (6) चित्रज्ञानदृष्टान्तेन / (7) "शंसेत् स्तुयात् कथयेदित्यर्थः / किम् ? प्रत्यक्षं विशदमिन्द्रियानिन्द्रियज्ञानम् / किविशिष्टम् ? भेदाज्ञानम्, भेदान् परपरिकल्पितान निरंशक्षणान्न जानाति न गृह्णातीति भेदाज्ञानम् / किं शंसेत् ? द्रव्यं शुद्धमशुद्धं वा स्वलक्षणं वस्तुभुतं न कल्पितमित्यर्थः / क्व ? बहिरचेतने घटादौ, अन्तश्चेतने / केन ? सदात्मना सद्रूपेण, न खलु सद्रूपेण भेदः पदार्थेषु प्रत्यक्षतो ज्ञायते येन प्रत्यक्षं द्रव्यं न शंसेत् / कस्मात् ? भेदात् भेदमाश्रित्य / कि विशिष्टात् ? सामान्यलक्षणात्, सामान्यमन्वयो लक्षणं लिंगं यस्यासौ सामान्यलक्षणस्तस्मात् / न हि भेदनिरपेक्षमभेदं प्रत्यक्षमन्यद्वा प्रमाणं साधयति तस्यानुपलब्धेः। ततः प्रत्यक्षमपि द्रव्यसिद्धिनिबन्धनमेवेति कुतः संग्रहनयो मिथ्या स्यात् ?"-लघी० ता० पृ० 53 / (8) प्रत्यक्षम् (9) बहिरन्तः / (10) प्रत्यक्षम् / (11) बहिरन्तश्च / 1-जीवभेदप्रभेदः श्र० / 2-विभ्रमविशे-श्र० / 3 ज्ञाने पुरु-ब० / 4-त् ॥छ / यदि श्र०। 5-ह द्रव्यमन-आ०, श्र० / 6-ह भेदात् विशे-आ० /