________________ 15 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० विवृतिः-सर्वमेकं सदविशेषात् इति संग्रहः / सताश्च स्वभावानां भावकत्वाऽबाधनात् / नहि कश्चिद् असदात्मा भेदोऽस्ति विप्रतिषेधात् / नहि किश्चिज्ज्ञानं सद्रूपं द्रव्यमनवबुद्ध्य भेदं गृह्णाति नाम / शुद्धं द्रव्यं सत्तालक्षणम् अभिप्रैति विषयीकरोति न सतोऽपि आत्मादि * विशेषान् / कोऽसौ इत्याह-संग्रहः संग्रहनयः। कुत एतदित्याहकारिकाव्याख्यानम् व तदभेदतः तस्य सत्त्वस्य सर्वविशेषेषु अविशेषतः। एतदपि कुतः इत्याह-'भेदानाम्' इत्यादि। भेदानां जीवादिविशेषाणां मध्ये असदात्मा असत्स्वभावः एकोऽपि न केवलम् अनेको नास्ति भेदो विशेषः, किन्तु सदात्मैव. 'अस्ति' इति सम्बन्धः। कुतो नास्तीत्याह-विरोधतः। तथाहि-'यदि असन् 10 कैथमस्ति, अस्ति चेत् कथमसन्' इति / एतेन अभावचतुष्टयं चर्चितम् ; तथाहि यदि तत् अस्तीतिप्रत्ययवेद्यम् कथसदात्मकम् ? स्वरूपेण तैस्यापि सदात्मकत्वात् / अथाऽसदात्मकम् ; न तर्हि तत्प्रत्ययवेद्यमिति कथं तदस्तित्वसिद्धिः ? . .. ____ कारिकां विवृण्वन्नाह-'सर्वम्' इत्यादि। सर्व चेतनाचेतनस्वभावं वस्तु एकम् ___अभिन्नं सदविशेषात् सत्ताऽविशेषमाश्रित्य इति एवं संग्रहः / सदविविवृतिविवरणम् शेषेऽपि सत्त्वात् तद्वतां भेदप्रसिद्धेः सर्वमेकम् इत्याद्ययुक्तमित्याशङ्क्याह-'सताश्च' इत्यादि / सताश्च विद्यमानानां पुनः स्वभावानां भावधर्माणाम् भावकत्वाबाधनात् सत्त्वैकत्वानिराकरणात् / एतदेव समर्थयमानः प्राह-'नहि' इत्यादि / हिर्यस्मात् न असदात्मा असत्तास्वभावः कश्चित् द्रव्यादीनामन्यतमो भेदः विशेषः अस्ति / कुत इत्याह-विप्रतिषेधात् , विरोधात् / इतश्च असदात्मा भेदो 20 नास्तीति दशयन्नाह-'नहि' इत्यादि / किञ्चित् प्रत्यक्षमनुमानं वा ज्ञानं सद्रूपं सत्त्व स्वरूपम् अनवबुद्धय अगृहीत्वा भेदं विशेषं द्रव्यं द्रव्यरूपम् , द्रव्यग्रहणमुपलक्षणं गुणादेः, तत्किमित्याह-'नहि गृह्णाति नाम' इति / ततो निराकृतमेतत् “न द्रव्यादि स्वतः सत् धि० भा० 1135 / तत्त्वार्थहरि०, तत्त्वार्थसिद्ध० 1135 / "स्वजात्यविरोधेनकध्यमुपनीय पर्यायानाक्रान्तभेदानविशेषेण समस्तग्रहणात् संग्रहः।"-सर्वार्थसि० 1233 / राजवा० 1 // 33 / “विधिव्यतिरिक्तप्रतिषेधानुपलम्भाद्विधिमात्रमेव तत्त्वमित्यध्यवसायः समस्तस्य ग्रहणात् संग्रहः / द्रव्यव्यतिरिक्तपर्यायानुपलम्भात् द्रव्यमेव तत्त्वमित्यध्यवसायो वा संग्रहः ।"-धवलाटी० 1084 / “शुद्ध द्रव्यमभिप्रति सन्मानं संग्रहः परः। स चाशेषविशेषेषु सदौदासीन्यभागिह।।"-तत्त्वार्थश्लो०पू०७०। नयविव०श्लो०६७। प्रमेयक० पृ० 677 / “शुद्धं द्रव्यं समाश्रित्य संग्रहस्तदशुद्धितः"-सन्मति० टी० पृ० 272, 311 / नयचक्र गा० 34 / तत्त्वार्थसार पृ० 107 / प्रमाणनय० 7.13 / स्या० मं० पृ० 311 / जैनतर्कभा० पृ० 22 / (1) तुलना-"यथा सर्वमेकं सदविशेषात् ।”-तरवार्यभा० 135 / “अहव महासामन्नं संगहियं पिडियत्थमियरं ति / सव्वविसेसानन्नं सामन्नं सव्वहा भणियं ।"-विशेषा० गा० 2701 / “विश्वमेकं सदविशेषात् इति यथा।"-प्रमाणनय०७।१६। (2) अभावचतुष्टयस्यापि / (3) अस्तीतिप्रत्ययग्राह्यम् / (4) अभावचतुष्टयसद्भावसिद्धिः / 1 तस्य सर्व-आ० / कथमसास्ति चेत् आ०, श्र० 13 द्रव्यस्वरूपम् ब०, श्र०।