________________ नयप्र० का 0 32] संग्रहनयस्य लक्षणम् 606 10 विवृतिः-यथैव ज्ञानस्य आत्मनिर्भासभेदा नैकत्वं बाधन्ते जीवस्याजीवस्य वा कस्यचित् स्वगुणपर्यायाः तथैव सच्चस्य भेदाः जीवाजीवादयः / तदेवम्जीवश्च अजीवश्च तयोः प्रभेदा अवान्तरविशेषा यदन्तीना यस्य अन्तः प्रविष्टाः तदस्ति विद्यते / किं तदित्याह-'सत्' इति / सत्तासामाकारिकाव्याख्यानम् न्यम् / केन प्रकारेण 'एकम्' इत्यादि / स्वे आत्मीया न ज्ञानान्त- 5 रगता निर्भासा नीलाद्याकाराः ते यस्य सन्ति तद् स्वनि सिज्ञानम् एकं चित्रकज्ञानम्' इत्यर्थः / यथा येन प्रतिभासादिप्रकारेण अस्ति तथा प्रकृतमपि, सौगतापेक्षया इदमुक्तम् / इतरापेक्षयौ तु 'जीवः स्वपर्ययः' इत्याह / जीवग्रहणमुपलक्षणम् सकलाजीवतत्त्वस्य, तेनं जीवादिः स्वपर्ययैर्युक्तो यथा एकोऽस्ति तथा सदेकमिति सिद्धम् / ___ कारिकां विवृण्वन्नाह-'यथैव' इत्यादि / यथैव येनैव अशक्यविवेचनाऽभिन्न ___ योगक्षेमप्रकारेण ज्ञानस्य आत्मनः स्वरूपस्य ये निर्भासभेदा विवृति विवरणम् - ग्राह्यादिनीलाद्याकाराः ते नैकत्वं बाधन्ते, जीवस्य आत्मनः अजीवस्य वा घटादेः कस्यचित सकलजनप्रसिद्धस्य न नैयायिकादिकल्पितस्य तस्य पूर्वं निरस्तत्वात् / स्वगुणपर्याया 'यथैव नैकत्वं बाधन्ते' इति सम्बन्धः / तथैव 15 तेनैव प्रकारेण सत्त्वस्य सत्तासामान्यस्य भेदाः / के इत्याह-जीवाजीवादयः, नैकत्वं बाधन्ते / तस्मिन् सति किंजातमित्याह-'तदेवम्' इति / तस्मिन् सत्त्वे एवम् उक्तप्रकारेण जीवाजीवात्मके स्थिते सति शुद्धं द्रव्यमभिप्रेति संग्रहः तदभेदतः / भेदानां नासदात्मैकोप्यस्ति भेदो विरोधतः // 32 // 20 (1) अशक्यविवेचनं हि एकचित्रज्ञानस्य नीलाद्याकाराणां ज्ञानान्तरे नेतुमशक्यत्वम् / (2) "अलब्धधर्मानुवृत्तिोगः / लब्धधर्मानुवृत्तिः क्षेमः ।"-प्रमाणवा० स्ववृ० टी० 1 / 24 / “योग अप्राप्तविषयस्य परिच्छेदलक्षणा प्राप्तिः, क्षेमः तदर्थक्रियानष्ठानलक्षणं परिपालनम्।" हेतूबि०टी०प०५५ / (3) “अभिप्रेति विषयीकरोति / कः? संग्रहः संग्रहनयः / किम् ? शुद्ध द्रव्यं सत्सामान्यं तस्यान्योपाधिरहितत्वेन शुद्धिसंभवात्, तद्विषयो हि नयः संग्रहः / सजात्यविरोधेन पर्यायानाक्रान्तभेदानकध्यमुपनीय समस्तग्रहणं संग्रह इति निर्वचनात् / कुतः ? तदभेदतः, तस्य सत्सामान्यलक्षणस्य शुद्धद्रव्यस्य अभेदात सर्वेषु जीवाजीवेषु अव्यतिरेकात् / ननु प्रागभावादेः सत्त्वव्यतिरेकात् कथं तदभेद इत्याशङ क्याहभेदानां जीवादीनां सद्विशेषाणां मध्ये एकोऽपि भेदो जीवस्तत्पर्यायोऽन्यो वाऽसदात्मा असत्स्वरूपो नास्ति न विद्यते / विरोधतः यद्यसदात्मा, कथमस्ति ? यद्यस्ति, कथमसदात्मेति ? स्ववचनविरोधादस्य असिद्धेः। ततः प्रागभावादिरन्यो वा कथञ्चित्सदात्मक एवाभ्युपगन्तव्यः प्रतीतिबलात् ।"-लघी० ता०प०५२। (4) तुलना-'संगहिय पिंडिअत्थं संगहवयणं समासओ बिति ।"-अनयोगद्वार० 4 द्वा० / आ० नि० गा० 756 / विशेषा० गा० 2699 / “अर्थानां सर्वैकदेशसंग्रहणं संग्रहः / आह च यत्संगहीतवचनं सामान्ये देशताऽथ च विशेषे / तत्संग्रहनयनियतं ज्ञानं विद्यान्नयविधिज्ञः ॥"-तत्त्वार्था 1 जीवादयः ज० वि०12-ज्ञानमित्यर्थः श्र०13 आस्ते ब०,श्र014-या जीवः आ० / अनेन श्र०। 27