________________ 608 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [5. नयपरि० ____ कारिकां विवृण्वन्नाह-'द्रव्य' इत्यादि / अत्र वस्तुतत्त्वं धर्मि द्रव्यत्वादिविशेष _ विशिष्टमिति साध्यम् / तत्त्वग्रहणं किमर्थमिति चेत् ? आश्रयासिद्धिविवृतिविवरणम्- निषेधार्थम ; तथाहि-न जीवादि भ्रान्तं नापि शून्यं कल्पितं वा किन्तु तत्त्वं परमार्थसत् / प्रसाधितञ्च जीवादिवस्तुनः परमार्थसत्त्वं प्रागेव इत्यलमतिप्रस5 ङ्गेन / अस्त्वेवम् ; तथापि एकान्तरूपं तद् भविष्यतीत्याह-'द्रव्य' इत्यादि / वक्ष्यमाण लक्षणा द्रव्यपर्याया आत्मानो यस्य तत्तथोक्तम् / कुत एतदित्याह-उत्पादव्ययधौव्ययुक्तम् / उत्पादाद्यात्मकं यतः ततस्तथाविधं तत् / एवंविधमपि कुत इत्याह'सत्' इति / सद् अर्थक्रियाकारि यतः / तत्कारित्वं कथं तस्येत्याह-'प्रमेयम्' इति / प्रमेयं यतो जीवादिवस्तु ततोऽर्थक्रियाकारि / नहि सांख्यपरिकल्पितस्य आत्मनः काश्चि10 दर्थक्रियामकुर्वतः प्रमेयत्वं घटते इत्युक्तं प्रागेवै / नन्वेकस्मिन् वस्तुतत्त्वे प्रतीयमाने प्रतिभासभेदासंभवात् कथं प्रतिपत्रभिप्रायाणां नयरूपतोपपद्यते इत्याशङ्क्याह-'तत्रैव' इत्यादि / तत्रैव अनन्तरोक्तस्वरूपे चन्द्रादिवस्तुनि कथञ्चित् सत्त्वधावल्यादिप्रकारेण यत् प्रमाणं यश्च कथञ्चिद् द्वित्वादिप्रकारेण तदाभासः तयोर्भेदात् भेदप्रतीतेः / एतच्च प्रागेव समर्थितत्वात् दृष्टान्ततयोपात्तम् / तस्मादेकस्मिन्नपि वस्तुनि प्रतिपत्ति15 भेदसंभवात् युक्तो विकलादेशविशेषमाश्रित्य ज्ञातुरभिप्रायो नयः। तस्य भेदमाह 'स' इत्यादिना / स नयो द्रव्यार्थिकः, पर्यायार्थिकश्च / तत्र प्रथमं व्याचष्टे'द्रव्य' इति / 'द्रवति द्रोष्यति अदुद्रवत्' इति वा द्रव्यम्, तदेवार्थः सोऽस्ति यस्य स द्रव्यार्थिकः / कुतः स इत्थम्भूत इत्याह-सोऽभेदाश्रयो यतः / ननु सकलभावानां देशकालाकारैरत्यन्तभेदान्न अभेदो नाम, अंतः कथसौ अभेदाश्रयः स्यात् ? इत्यारेकापनोदार्थमाह जीवाजीवप्रभेदा यदन्तीनाः तदस्ति सत् / एकं यथा स्वनिर्भासिज्ञानम् जीवः स्वपर्ययैः // 31 // (1) विषयपरिच्छदे। (2) परमार्थसत् / (3) पृ० 191 / (4) "अस्ति विद्यते प्रतीयते / तत्किम् ? सत् सत्तासामान्यम् / किविशिष्टम् ? यदित्यादि, यस्मिन्नन्तीना अन्तर्भूताः / के ? जीवाजीवप्रभेदाः, जीवश्चेतनालक्षण: अजीवः पुनस्तद्विपर्ययः पुद्गलादिः प्रभेदाश्च त्रसस्थावराद्यवान्तरविशेषाः, जीवाजीवौ च प्रभेदाश्च ते तथोक्ताः। न खलु द्रव्यं पर्यायो वा सत्त्वव्यतिरिक्तमस्तीति किञ्चिद्व्यवहत्तुं शक्यं स्ववचनविरोधादतिप्रसङ्गाच्च / नन्वेकस्य कथमनेकजीवादिभेदव्यापकत्वमिति चेदत्राह एकमित्यादि / यथा एकं ज्ञानं चित्रपटादिविषयं स्वनि सि स्वे आत्मीया ज्ञानात्मानो निर्भासा नीलाद्याकारा विद्यन्ते अस्येति स्वनिर्भासि / यथा चैको जीव आत्मा स्वपर्ययैः, स्वे चिद्रूपाः पर्ययाः रागादयः परिणामाः तैराक्रान्तः प्रतीतिपदारूढो न विरुध्यते तथा सत्त्वमपि जीवाद्यने कभेदाक्रान्तं न विरुध्यते इत्यर्थः।"-लघी० ता० 10 52 / 1 आत्मा यस्य आ०. ब०। 2 तत्र श्र०। 3-ष्टे द्रवति आ०. ब०। 4-भेदाश्रितो यतः आ० /