________________ नयप्र० का 0 30 ] नयस्य लक्षणम् 607 र्थिकश्च, द्रवति द्रोष्यति अदुद्रवदिति वा द्रव्यम्, तदेव अर्थोऽस्ति यस्य सः ट्रॅव्यार्थिकः सोऽभेदाश्रयः। भेदो विशेषः, अभेदः सामान्यम् , तौ आत्मानौ यस्य तस्मिन् तदात्मके ___ कथञ्चित्तत्स्वभावे वस्तुनि, न नैयायिकादिपरिकल्पिते, तस्य प्रागेवाकारिकाव्याख्यानम् - पास्तत्वात् / कथम्भूते तस्मिन्नित्याह-ज्ञेये प्रमाणपरिच्छेद्ये / एतच्च / विशेषणमपि साधनं प्रत्येयम् / ततः 'सर्वं वस्तु भेदाभेदात्मकं ज्ञेयत्वात्' इति गम्यते, यथा 'सदनित्यम्' इत्युक्ते सत्त्वादिति / नचायमनैकान्तिको हेतुविरुद्धो वा; सर्वथा भेदे अभेदे वा प्रमाणपरिच्छेद्यत्वस्य विषयपरिच्छेदे प्रतिक्षिप्तत्वात् / तत्र भेदाभेदाभिसन्धयः सामान्यविशेषविषयाः पुरुषाभिप्रायाः ये ते लक्ष्यन्ते निश्चीयन्ते नयाः दुर्नेयाश्च / काभ्यामित्याह-अपेक्षाऽनपेक्षाभ्याम् , अपेक्षया नयाः 10 इतरया दुर्नया इति। स्तिकं मातकापदास्तिक कापदास्तिकं च द्रव्यनयः। उत्पन्नास्तिकं पर्यायास्तिकं च पर्यायनयः ।"-तत्वार्थहरि० 5 / 31 / तत्त्वार्थसिद्ध० 5 / 31 / “दव्वठूिओ य पज्जवणओ य सेसा वियप्पासिं ।"-सन्मति 23 / "नयो द्विविधः द्रव्यार्थिकः पर्यायार्थिकश्च ।"-सर्वार्थसि० 116 / 'द्वौ मूलभेदौ द्रव्यास्तिक: पर्यायास्तिक इति। अथवा द्रव्याथिकः पर्यायाथिकः।"-राजवा० 133 / "तत्र मूलनयौ द्रव्यपर्यायार्थगौचरौ। मिथ्यात्वं निरपेक्षत्वे सम्यक्त्वं तद्विपर्यये ॥"-सिद्धिवि० टी० पृ०५२१ A. | "दव्व४ियस्स दब्वं वत्थु पज्जवनयस्स पज्जाओ।"-विशेषा० गा० 4331 / 'तेषां वा शेषशासनाराणां-द्रव्यार्थपर्यायार्थनयो द्वौ समासतो मूलभेदौ तत्प्रभेदा संग्रहादयः।"-नयचक्रव० पृ०५२६ A. / धवला टी० 1083 / प्रमाणनय० 7 / 5 / (1) "पर्यायोऽर्थः प्रयोजनमस्येति पर्यायार्थिकः ।"-सर्वार्थसि० 106 / “परि भेदमेति गच्छतीति पर्यायः। पर्याय एवार्थः प्रयोजनमस्येति पर्यायाथिकः।"-धवलाटी० पृ०८४। (2) तुलना-“अथवा यस्य गुणान्तरेप्वपि प्रादुर्भवत्सु तत्त्वं न विहन्यते तद् द्रव्यम् / किं पुनस्तत्त्वम् ? तद्भावस्तत्त्वम् तद्यथा आमलकादीनां फलानां रक्तादय: पीतादयश्च गुणा: प्रादुर्भवन्ति आमलकं बदरमित्येव भवति / अन्वर्थ खल्वपि निर्वचनं गणसन्द्रावो द्रव्यमिति ।"-पात० महाभा० 5 / 1 / 119 / "दवियदि गच्छदि ताईताईसब्भावपज्जयाई जं / दवियं तं भण्णंते अणण्णभदं तु सत्तादो॥"-पञ्चास्तिक गा०९। "यथास्वं पर्यायैश्यन्ते द्रवन्ति वा तानि द्रव्याणि।"-सर्वार्थसि० 5 / 2 / 'अद्रवद् द्रवति द्रोष्यत्येकानेक स्वपर्ययम् ।"-न्यायवि०का० 114 / “दविए यए दोरवयवो विगारो गुणाण संदावो। दव्वं भव्वं भावस्स भूअभावं च जं जोग्गं ॥"-विशेषा० गा०२८ / “द्रवति द्रोष्यति दुद्रवैति (अदुद्रवत् ) द्रुः द्रोविकारोऽवयवो वा द्रव्यम ।"-जयचक्रवृ० पृ० 99 B. | "द्रोविकारों द्रव्यम्, द्रोरवयवो वा द्रव्यम् द्रव्यं च भव्यं भवतीति भव्यम् द्रव्यम्, द्रवतीति द्रव्यम द्रयते वा. द्रवणात गणानां गणसन्द्रावो द्रव्यम् / " -नयचक्रवृ० पृ०४४१ B. / "द्रोष्यत्यदुद्र वत्तास्तांन पर्यायमिति द्रव्यम् ।"-धवलाटी० पृ०८३। "द्रवति गच्छति तांस्तान् पर्यायान् द्रूयते गम्यते वा तैः पर्यायरिति वा द्रव्यम् ।"-जयध० अ०१०२६ / आलापप० / (3) "द्रव्यमर्थः प्रयोजनमस्येत्यसौ द्रव्याथिकः ।"-सर्वार्थसि०१६। "पज्जवणिस्सामण्णं वयणं दव्वठ्ठियस्स अत्थित्ति / अवसेसो वयणविही पज्जवभयणा सपडिवक्खो।"-सन्मति० गा० 17 / धवलाटी०५०८३ / "द्रव्येणार्थः द्रव्यार्थः, द्रव्यमर्थो यस्येति वा, अथवा द्रव्याथिकः द्रव्यमेवार्थो यस्य सोऽयं द्रव्यार्थः।"-नयचक्रवृ० पृ० 4 B. / (4) द्वितीये विषयपरिच्छेदे / 1 अद्रवत् ज० वि०। 2-धो सर्व-श्र० / 3 ते निश्ची-ब०। 4-श्च आभ्यामि-ब० /