________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. श्रागमपरि० णात् / तथा च शिंशपायाः स्वयम् आत्मना अवृक्षत्वेऽप्यविरोधात कथमाश्वासः ? काष्ठजन्मनः पावकस्य मण्यादिसामग्रीप्रभवस्य तथाऽशनिजन्मनः तस्मादशनिभावात् काष्ठाद्यर्थः तदन्तरं तजन्मनश्च साकल्येन अनवयवेन अग्निस्वभावाविरोधे पुनः अङ्गीक्रियमाणे 'अग्निजन्मैव धूमो नार्थान्तरजन्मा' इति कुतोऽयं नियमः यतो 5 नियमात् कार्यहेतोरव्यभिचारात् 'धूमादग्निरत्र' इत्यादौ आश्वासः स्यात् / अथ "सुविवेचितं कार्य कारण न्न व्यभिचरति" [ ] इत्युच्यते / अत्राह-'कस्यचिद्' इत्यादि / कस्यचित् स्वभावकार्यविशेषस्य या अन्यथा साध्याभावप्रकारेण अनुपपत्तिः तया परोक्षार्थप्रतिपत्तौ अङ्गीक्रियमाणायां श्रुतस्य स्वयम् आत्मना अदृष्टता दात्म्यतदुत्पतेः “भाँदी वोक्तपुस्कं पुंवत्' [ जैनेन्द्रव्या० 5 / 1 / 53 ] इत्यतो नपुंसकत्वा10 भावः। कचिद् द्वीपादौ यः तस्य॑ अविसंवादः तस्य अन्यथानुपपत्तेः सिद्धं प्रामाण्यमिति // छ / प्रमाणं साभासं विषयफलसंख्यादित इहे, __ प्रसन्नैर्गम्भीरैः कतिपयपदैर्येर्ने गदितम् / स जीयाद् दुस्तर्कः प्रतिमिररविः न्यायजलधिः, 15 जगज्जन्तुस्वान्तप्रवरकुमुदेन्दुर्जिनपतिः // छ / / इत्थं समस्तमतवादिकरीन्द्रदर्पमुन्मूलयन्नमलमानदृढप्रहारैः / स्याद्वादकेसरसटाशततीव्रमूर्तिः पञ्चाननो भुवि जयत्यकलङ्कदेवः // छ / इति प्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे लघीयस्त्रयालङ्कारे चतुर्थः परिच्छेदः समाप्तः / एवमन्तर्भूतप्रत्यक्षादिपरिच्छेदचतुष्टयः प्रमाणप्रवेशः परिच्छेदः समाप्तः / / छ / ग्रन्थप्रमाणं 1130 // छ / -- (1) आदिपदेन तृण-अरणिनिर्मथनादयो ग्राह्याः / (2) तुलना-"यत्नतः परीक्षितं कार्य कारणं नातिवर्तते इति चेत् स्तुतम् प्रस्तुतम्"-अष्टश०, अष्टसह पृ० 72 / प्रमेयरत्नमा० 3 / 101 / लघी० ता० पृ० 49 / “अथ सुविवेचितं कार्य कारणं न व्यभिचरतीति न्यायाद् ।"-सन्मति० टी० पृ० 266 / (3) अदृष्टे तादात्म्यतदुत्पत्ती यस्य तत् अदृष्टतादात्म्यतदुत्पत्ति तस्य अगहीतस्वभावकार्यादिरूपस्य श्रुतज्ञानस्य इत्यर्थः। अत्र अदृष्टतादात्म्यतदुत्पत्तिशब्द: श्रुतस्य विशेषणत्वात् नपुंसकलिङ्गोऽपि भादौ इत्यादि सुत्रानुसारेण भादौ अजादौ सुपि उक्तपुंस्कमिगन्तं नप (नपुंसक) वा पुंवद् भवति इति पुल्लिङ्गे प्रयुक्तः, नपुंसकलिङ्गे तु नुमागमे सति 'अदृष्टतादात्म्यतदुत्पत्तिनः' इति प्रयोगः स्यात् इति भावः / (4) श्रुतस्य। (5) अस्मिन् ग्रन्थे / (6) प्रभाचन्द्रेण ग्रन्थकृता / (7) न्यायकुमुदचन्द्रः तत्कर्ता प्रभाचन्द्रश्च अनेन विशेषणेन सूचितः। (8) जिनः पतिर्यस्य / ___ 1 अध्यक्षत्वे-आ०। 2 भाको वोक्त-ब०, भादौ चोक्त-श्र० / 8 चतुर्थपरि-आ० / 4-यप्रमा -श्र०। 5-शः प्रथमः परिच्छेदः ब०।