________________ प्रमाण का० 28 ] श्रुतस्य प्रमाणत्वसमर्थनम् क्वचिदविसंवादस्य अन्यथानुपपत्तेः सिद्धं प्रामाण्यमिति / पुंसो यः चित्रोऽभिसन्धिः “सरागा अपि वीतरागवचेष्टन्ते"[ ] इत्यभिधानात्, तस्मात् वाक् चेद् यदि अर्थव्यभिचारिणी कारिकाव्याख्यानम् कार्य दृष्टं विजातीयाद अभिमतकारणजातिपरिहारेण जात्यन्तरादपि / ततः किं जातमित्यत्राह-'शक्यम्' इत्यादि / शक्यं शक्तं कारण- 5 भेदि कारणविशेषं गमयितुं किम् ? नैव शक्तमित्यर्थः / कार्यग्रहणमुपलक्षणं स्वभावस्य, अतोऽनुमानस्याप्यभावः इत्यभिप्रायः / / कारिकां विवृण्वन्नाह-'श्रुतेः' इत्यादि / श्रुतेः शब्दस्य बहुलं प्राचुर्येण बहिरावि _____ संवादेऽपि न केवलं तदभावे, तदर्थेनं बहिरर्थेन प्रतिबन्धस्य तादात्म्यविवृतिविवरणम् - तदुत्पत्तिलक्षणस्य असिद्धेः कारणात्'। कथंभूतायाः श्रुतेः इत्याह- 10 वक्त्रभिप्रायानुविधायिन्याः। कै किमित्याह-सर्वत्र तदर्थानाश्वासः बहिरर्थानाश्वास इति एवं चेत् अत्राह-'उक्तम्' इत्यादि / अत्र पूर्वपक्षे उक्तमुत्तरम् / किं तदित्याह-तादात्म्यतदुत्पत्तिभ्यां विनापि परोक्षार्थप्रतिपत्तेः कारणात् अविसंवादः श्रुतेः इति एतत् / 'अपि च' इत्यादिना परपक्षेपि तहृषणं योजयति / अपि च किञ्च 'अयं दृश्यमानो भावः वृक्षः शिंशपात्वात', 'अत्र पर्वते अग्निः धूमात्' इति वा 15 यदनुमानं तत्र कथं नैव आश्वासः ? कुत एतदित्याह-'कचिद्' इत्यादि / कचिद् देशविशेषे लताचूतादेः, आदिशब्देन लताबदर्यादिपरिग्रहः तस्या उपलब्धेः कार (1) तुलना-“चैतसेभ्यः सम्यक्मिथ्याप्रवृत्तयस्ते चातीन्द्रियस्वप्रभवकायवाग्व्यवहारानुमेयाः स्युः व्यवहाराश्च प्रायशो बुद्धिपूर्वमन्यथापि कर्तुं शक्यते पुरुषेच्छावृत्तित्वात्तेषां च चित्राभिसन्धित्वात् / तदयं लिङ्गसंकरात् कथमनिश्चिन्वन् प्रतिपद्येत ? दुर्बोधत्वात् दुःप्राप्यत्वादन्यगुणदोषनिश्चायकानां प्रमाणानाम् चैतसेभ्य इत्यादिना व्याचष्टे / चेतसि भवा: चैतसा गुणदोषाः। चैतसेभ्यः गुणेभ्यः कृपावैराग्यबोधादिहेतभ्यः सम्यकप्रवृत्तयः यथार्थप्रवृत्तयः, चैतसेभ्यो दोषेभ्यः रागादिभ्यो मिथ्याप्रवृत्तयो विपरीतप्रवृत्तयो भवन्ति / ते चेति परेषां चैतसा गुणदोषाः चेतोधर्मत्वेनातीन्द्रियाः ततो न प्रत्यक्षगम्याः / किन्तु स्वस्माद् गुणदोषरूपात् प्रभव उत्पादो यस्य कायवाक्कर्मणः तेन कार्यलिङ्गेनानुमेयाः। तच्च नास्ति / यस्माद् व्यवहाराश्च कायवाक्कर्मलक्षणाः प्रायशो बाहुल्येन बुद्धिपूर्वमिति कृत्वा प्रतिसंख्याने अन्यथापि कर्तुं शक्यन्ते / तथाहि सरागा अपि वीतरागवत् आत्मानं दर्शयन्ति वीतरागाश्च सरागवत् / किं कारणम् ? पुरुषेच्छावृत्तित्वात् व्यवहाराणां तेषां चेति पुंसां चित्राभिसन्धित्वात् चित्राभिप्रायत्वात ततो यथेष्टं व्यवहाराः प्रवतन्ते इति नास्ति गुणदोषप्रभवाणां व्यवहाराणां विवेकनिश्चयः / तदिति तस्मादयमनुमाता पुमान् लिङ्गसंकरात् लिङ्गव्यभिचारादनिश्चिन्वन् क्षीणदोषं कथमागमस्य कर्तार प्रतिपद्येत नैवेति निगमनीयम् ।"-प्रमाणवा० स्ववृ०, टी० 11222 / “यथा रक्तो वीति तथा विरक्तोऽपि / एवं न वचनमात्रात्, नापि विशेषात् प्रतिपत्तिः अभिप्रायस्य दुर्बोधत्वात् व्यवहारसंकरेण सर्वेषां व्यभिचारात् / विरक्तो हि रक्तवच्चेष्टते रक्तोऽपि विरक्तवदित्यभिप्रायो दुर्बोधः."-प्रमाणवा० स्वव०. टी०१।१४ / "क्षीणावरणः समधिगतलक्षणोऽपि सन विचित्राभिसन्धिरन्यथा देशयेदिति विप्रलम्भशंकी"-प्रमाणसं०पू०११६ / अष्टसह० पृ०७१। तत्त्वार्थश्लो० 109 / सूत्रकृ. तांगटी०पू०३८४ / लघी० ता० पृ०४९। (2) पृ०४३५ / 1-भावे तेन बहि-आ०,ब०। 2-न प्रति-श्र० / 3 क्वचित्किमि-श्र०।