________________ 602 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [ 4. भागमपरि० कुतश्चिद् अनुपदेशाऽलिङ्गाविसंवादिचतुरार्यसत्योपदेशात् कपिलादेस्तु अनाप्तत्वव्यवस्था विसंवादिप्रधानादितत्त्वोपदेशात् स्वयम् आत्मना उपजीवन् , साधनासाधनाङ्गव्यवस्थां वा, त्रिरूपहेतुवचनस्य हि स्वसाध्यसिद्ध्यङ्गव्यवस्था पक्षादिवचनस्य तु तदसिद्ध्यङ्गव्यवस्था तां वा उपजीवन् “वक्तुरभिप्रेतं तु वाचः सूचयन्ति अविशेषण नार्थतत्त्वमपि"[ ] इति एवं ब्रुवामो धर्मकीर्त्यादिः कथमविक्लवः स्वस्थः ? अत्राह सौगतः-वक्त्रभिप्रायेऽपि यदि वचनस्य प्रामाण्यन्नास्ति, मा भूत् ; किन्नष्टं प्रमाणद्वयवादिनः ? व्यवहारिजनानुरोधादेव तंत्र तस्य प्रामाण्याभ्युपगमादित्याशङ्क्याह "पुंसश्चित्राभिसन्धेश्चेद् वागर्थव्यभिचारिणी।। कार्य दृष्टं विजातीयाच्छक्यं कारणभेदि किम् ? // 29 // विवृतिः-श्रुतेर्बहुलं बहिराविसंवादेऽपि तदर्थप्रतिबन्धासिद्धेः वक्त्रभिप्रायानुविधायिन्याः सर्वत्र तदर्थानाश्वासः इति चेदुक्तमत्र-'तादात्म्यतदुत्पत्तिभ्यां विनापि परोक्षार्थप्रतिपत्तेरविसंवादः' इति / अपि च वृक्षोऽयं शिंशपात्वात् अग्निरत्र धूमादिति वा कथमाश्वासः? क्वचिल्लताचूतादेरुपलब्धेः शिंशपायाः स्वयमवृक्षत्वेऽ प्यविरोधात् , काष्ठजन्मनो मण्यादिसामग्रीप्रभवस्य अशनिजन्मनः तदर्थान्तर15 जन्मनश्च साकल्येन अग्निस्वभावाविरोधे पुनः अग्निजन्मैव धूमः नार्थान्तरजन्मा इति कुतोऽयं नियमः ? यतः कार्यहेतोरव्यभिचारात् 'धूमादग्निरत्र' इत्याश्वासः / कस्यचिदन्यथानुपपत्त्या परोक्षार्थप्रतिपत्तौ श्रुतज्ञानस्य स्वयमदृष्टतादात्म्यतदुत्पत्तेः (1) "चत्वार्यायसत्यानि, तद्यथा दुःखं समुदयो निरोधो मार्गश्चेति ।"-धर्मसं० पृ० 5 / "सत्यान्युक्तानि चत्वारि दुःखं समुदयस्तथा / निरोधो मार्ग एतेषां यथाभिसमय क्रमः ॥"-अभिधमको०६२। (2) "अथवा साध्यते येन परेषामप्रतीतोऽर्थ इति साधनं त्रिरूपहेतुवचनसमुदायः, तस्याङ्गं पक्षधर्मादिवचनं. 'अथवा तस्यैव साधनस्य यन्नाङ्गं प्रतिज्ञोपनयनिगमनादि . ."-वादन्याय० पृ०६१। (3) वक्त्रभिप्राये। (4) शब्दस्य / (5) तुलना-"विचित्राभिसन्धितया व्यापारव्याहारादिसांकर्येण क्वचिदप्यतिशयानिर्णये कैमर्थक्याद्विशेषेष्टि: ज्ञानवतोऽपि विसंवादात् क्व पुनराश्वासं लभेमहि ।"-अष्टश०, अष्टसह० पृ० 71 / "चेद्यदि, वागाप्तवचनम्, अर्थव्यभिचारिणी बाह्यार्थाविसंवादिनी स्यात् / कस्मात् ? चित्राभिसन्धेः चित्रः सत्यासत्यादिरूपो नानाभिसन्धिरभिप्रायो विवक्षा तस्मात् / कस्य ? पुंसो वक्तुः 'सरागा अपि वीतरागवच्चेष्टन्ते' इति वचनात् / तर्हि विजातीयादपि कारणात् कार्यं दृष्टमविरुद्धं स्यात् / ततस्तत् कारणभेदि कारणं प्रतिनियतं स्वात्मलाभनिबन्धनं भिनत्ति विजातीयाद्विशिनष्टीत्येवं शीलं किं शक्यं स्यात् ? न स्यादेवेत्यर्थः / तस्य यतः कुतश्चिदुत्पत्तेरविरोधात् / न खल्वनियतकारणजन्यं कार्य कारणभेदं गमयत्यशक्तेः ।"-लघी० ता०पू०४९ / (6) तुलना-"न चैवं वादिनः किञ्चिदनुमानं नाम, निरभिसन्धीनामपि बहुलं कार्यस्वभावानियमोपलम्भात् / सति काष्ठादिसामग्रीविशेषे क्वचिदुपलब्धस्य तदभावे प्रायशोऽनुपलब्धस्य मण्यादिकारणकलापेऽपि संभवात् / यज्जातीयो यतः संप्रेक्षितस्तज्जातीयात्तादृगिति दुर्लभनियमतायां धूमधूमकेत्वादीनामपि व्याप्यव्यापकभावः कथमिव निर्णीयेत वृक्षः शिशपात्वादिति लताचूतादेरपि क्वचिदेव दर्शनात प्रेक्षावतां किमिव निःशंक चेतः स्यात्""-अष्टश०, अष्टसह० पृ०७२। सन्मति० टी० पृ० 266 / 1 अनुपदेशात् लिंगावि-ब० / 2 च ब० / 3-वस्थां वा श्र० / 4 कार्यदृष्टं ई० वि० /