________________ प्रमाणप्र० का 0 28 ] श्रुतस्य प्रमाणत्वसमर्थनम् 601 यो यस्याऽवञ्चकः स तस्य आप्तः तदुक्तेः तद्वचनात् हेतुवादाच लिङ्गादिकारिकाव्याख्यानम् __वचनाच्च बहिराविनिश्चये अङ्गीक्रियमाणे सत्यं सुगतवचनम् * इतरदसत्यं कपिलादिवचनम् तयोः व्यवस्था का ? न काचित् , सर्वमसत्यमेव स्यात् / अतः सुगतवचनादपि न कचित्प्रवृत्तिः स्यात् / तथा साधनेतरता कुतः ? पक्षादिवचनानि साधनम् , इतरत् तद्रूषणवचनं तयोर्भावस्तत्ता सापि कुतः ? 5 नैव स्यात् / तथा च यत् सत्तत् सर्वं क्षणिकम्' इत्यादेरसाधनाङ्गतया निग्रहस्थानता स्यादित्यभिप्रायः। व्यतिरेकद्वारेण कारिकार्थमाह-'नहि' इत्यादिना / न खलु पुरुषाभिसन्धयः __ पुरुषाभिप्रायाः सर्वे अर्थान् व्यभिचरन्ति / कुत एतदित्याह-'अन्यथा' विवृतिव्याख्यानम् - इत्यादि / अन्यथा तेषां तद्वयभिचारप्रकारेण वागर्थव्यभिचारैका- 10 न्तसम्भवात् , वाचामर्थस्य बाह्यस्य अन्यस्य वा यो व्यभिचारैकान्तः तस्य संभवात् / वाचोऽभिप्रायविसंवादे सति कुतः न कुतश्चित् तस्य अभिप्रायस्य अनुमानम् / अथेदानी परस्योन्मत्तचेष्टितं 'सुगत' इत्यादिना दर्शयन्नाह-सुगतस्य हि आतत्वव्यवस्था निबन्धनम् // 24 // यद्यथा वाचकत्वेन वक्तृभिविनियम्यते / अनपेक्षितबाह्यार्थ तत्तथा वाचकं मतम ॥१६७॥"-प्रमाणवा० / “साक्षाच्छब्दान बाह्यार्थप्रतिबन्धविवेकतः / गमयन्तीति च प्रोक्तं विवक्षासूच. कास्त्वमी॥"-तत्त्वसं० पृ०७०२। “यथोक्तम्-वक्तुरभिप्रायं सूचयेयुः शब्दाः।"-तर्कभा० मो० 104 / (1) "आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा। साक्षात्करणमर्थस्य आप्तिः तया प्रवर्तते इत्याप्तः।"-न्यायभा० ११७"आप्तिः साक्षादर्थप्राप्तिः यथार्थोपलम्भः तया वर्तत इत्याप्तः साक्षात्कृतधर्मा यथार्थप्राप्त्या श्रुतार्थग्राही / आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः / क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद्धत्वसंभवात् / स्वकर्मण्यभियुक्तो यो रागद्वेषविजितः / पूजितस्तद्विधैनित्यमाप्तो ज्ञेयः स तादृशः।"-सांख्यका० माठर० पृ० 13 / 'यो यत्राविसंवादकः स तत्राप्तः परोऽनाप्तः तत्त्वप्रतिपादनमविसंवादः तदर्थज्ञानात्।"-अष्टश०, अष्टसह पृ० 236 / (2) "तत्र पक्षादिवचनानि साधनम्"-न्यायप्र० पृ० 1 / (3) “साधनदोषोद्भावनानि दूषणानि"-न्यायप्र० पू० 8 / (4) "तद्वत् प्रमाणं भगवान् यथाभिहितस्य सत्यचतुष्टयस्याविसंवादनात्तस्यैव परैरज्ञातस्य प्रकाशनाच्च।"-प्रमाणवा०, मनोरथ 129 / “तायित्वाच्च भगवतः सुगतस्य प्रामाण्यं तथाहि-"तायः स्वदृष्टमार्गोंक्तिः वैफल्याक्ति नानतम् / दयालुत्वात् परार्थञ्च सर्वारम्भाभियोगतः / तस्मात्प्रमाणं तायो वा चतुःसत्यप्रकाशनम् ।।-दुःखहेतुनिवर्तकत्वेन स्वयं दृष्टस्य मार्गस्योक्तिर्देशना तायः करणे कार्योपचारात् / तया हि सत्त्वान् तायते तद्योगात्तायित्वम् / स च वैफल्याक्ति नानृतम् / आत्मसुखाद्यभिलाषादिना कश्चिदसत्यं वदति अज्ञानाद्वा / प्रहीणात्मदर्शनस्य साक्षात्कृततत्त्वस्य तदुभयं नास्ति / विशेषतः सत्याभिधानहेतुरेव कृपास्तीत्याह-दयालुत्वाच्च परार्थञ्च सर्वस्य मार्गाभ्यासादेरारम्भेऽभियोगतः परार्थमेवोद्दिश्य भगवानभिसम्बुद्धः कथन्तस्य मिथ्याभिधानेन सत्त्ववञ्चनाशङ्काऽपि / तस्मात्तायित्वात् प्रमाणं भगवान् / यथादृष्टार्थप्रवक्तृत्वं हि संवादित्वमेवेति प्रथमप्रमाणलक्षणयोगात् प्रामाण्यमनेनोक्तम् / द्वितीयलक्षणयोगमप्याह-तायो वा चतुःसत्यप्रकाशनम् / परैरज्ञातस्य सत्यचतुष्टयस्य प्रकाशनं वा तायः तद्योगात् तायी प्रमाणं भगवानुक्तः ।"-प्रमाणवा०, मनोरथ०१२१४७-४८ / “तत: सुगतमेवाहुः सर्वज्ञं मतिशालिनः। प्रधानपुरुषार्थशं तं चैवाहुभिषग्वरम् ॥"-तत्त्वसं० पृ० 878 / 26