________________ 600 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. श्रागमपरि० भिधानज्ञाने तत्तथोक्तम् , तदित्थम्भूतं ज्ञानमविसंवादकम् / कुत एतदित्याह-'नहि' इत्यादि / हिर्यस्मात् न दृष्टे ग्रहोपरागादौ श्रुताविसंवादकत्वे अनुपपनं नाम / इन्द्रियज्ञानाविसंवादकत्वेऽपि अनुपपन्नत्वप्रसङ्गात् / बहिरर्थे अस्य प्रायो व्यभिचारदर्शनात् सर्वत्रानाश्वासे च वक्त्रभिप्रायेऽपि प्रामाण्यन्न स्यादिति दर्शयन्नाह-'क्वचिद्' इत्यादि / क्वचित् नियते विषये व्यभिचारात् साकल्येनाऽनाश्वासे श्रुतेरङ्गीक्रियमाणे वक्त्रभिप्रायेऽपि न केवलं बहिरर्थे वाचः कथमनाश्वासः साकल्येन न स्यात् ? अपि तुस्यादेव। कुत एतदित्याह-'तत्रापि' इत्यादि / तत्रापि वक्त्रभिप्रायेऽपि व्यभिचारसंभवात् / एतदेव दर्शयन्नौह-'तथा' इत्यादि / येन हि ‘या भवतः प्रिया' इत्यादि प्रकारेण 'परं प्रहृत्य विश्रान्तः पुरुषो वीर्यवान्' इत्यादिप्रकारेण च श्रुतिदुष्टं कल्पनादुष्ट10 श्वोक्तं तथा तेन प्रकारेण अनिच्छतः तथाभिप्रायरहितस्यापि श्रृंतिकल्पनादुष्टादेः आदिशब्देन गोत्रस्खलनादिपरिग्रहः उच्चारणात् भाषणात् / किञ्च आप्तोक्तहेतुवादाच बहिराविनिश्चये।। सेत्येतरव्यवस्था का साधनेतरता कुतः // 28 // विवृतिः-नहि पुरुषार्थाभिसन्धयः सर्वेऽर्थान् व्यभिचरन्ति, अन्यथा वागर्थव्य15 भिचारैकान्तसंभवात् / वाचोऽभिप्रायविसंवादे कुतस्तदनुमानम् ? सुगतेतरयोः आप्ते तरव्यवस्था कुतश्चित् साधनासाधनाङ्गव्यवस्था वा स्वयमुपजीवन् “वक्तुरभिप्रेतं तु वाचः सूचयन्ति अविशेषेण नार्थतत्त्वमपि" [ ] इति कथमविक्लवः ? (1) श्रुतस्य / तुलना-"अपि चान्यविवक्षायामन्यशब्ददर्शनात् विवक्षायामपि क्वचिद्वयभिचारात सर्वत्रानाश्वासात् कथं विवक्षाविशेषसूचका अपि ते स्युः।"-सन्मति० टी० पृ० 266 / (2) अन्यविवक्षायामन्यशब्दोच्चारणमपि प्रतीयते यथा देवदत्तविवक्षायां यज्ञदत्तोच्चारणं गोत्रस्खलनेऽनुभूयते। (3) श्रुतिदुष्टं श्रुतिकटु / 'श्रुतिकटु परुषवर्णरूपम् दुष्टम् ।"-काव्यप्र० पू०२६७ / 'या भवतः प्रिया' इत्यत्र शृङ्गाररसवर्णनावसरे निषिद्धस्य रेफस्य प्रयोगादेव श्रुतिकटुत्वं ज्ञेयम् / 'प्रिया' इत्यत्र 'रेफसंयोगः स्पष्ट एव। (4) कल्पनादुष्टञ्च विरुद्धकल्पनायुक्तत्वात् अनुचितकल्पनाशालित्वाद्वा बोध्यम् / 'परं प्रहृत्य' इत्यत्र हि यदा वीर्यवान् पुरुषः परं प्रहृत्य प्रहारानन्तरं विश्रान्तः विशेषण श्रान्तः क्लान्तः तदा तस्य वीर्यवत्त्वेन वर्णनमनुचितमेव / यदि हि प्रहारानन्तरं क्लान्तः कथं वीर्यवान् ? क्लान्तत्ववीर्यवत्त्वयोविरोधात् / (5) "अयमर्थ:-आप्तोक्तेर्बहिराविनिश्चये सुगतेतरवचनयोः सत्येतरव्यवस्था का अर्थाविषयत्वाविशेषात् / हेतुवादाच्च बहिराविनिश्चये साधनेतरता कुतः बहिरर्थशून्यत्वाविशेषादिति ।"-लघी० ता० पृ०४८। सत्येतरव्यवस्था हि बाह्यार्थप्राप्त्यप्राप्तिनिबन्धनैव, तथा चोक्तम्-आप्तमीमांसायाम् (का० 87) "बुद्धिशब्दप्रमाणत्वं बाह्यार्थे सति नासति / सत्यानतव्यवस्थैवं युज्यतेऽर्थाप्त्यनाप्तिषु / " तुलना-"वाक्यानामविशेषेण वववभिप्रेतवाचिनाम् / सत्यानतव्यवस्था न तत्त्वमिथ्यात्वदर्शनात् // मिथ्यादर्शनज्ञानात् मिथ्यार्थत्वं गिरां मतम् ।"-सिद्धिवि० 10 502 / (6) तुलना-"नान्तरीयकताभावाच्छब्दानां वस्तुभिः सह नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचकाः / / 3212 // वक्तव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते / प्रामाण्यं तत्र शब्दस्य नार्थतत्त्व 1-तं तज्ज्ञान-ब०, श्र०। 2-प्राये प्रामा-आ०, श्र०।-नाह येन हि आ० / 4 स्वभावतः ब०। 6-ण श्रु-ब०। 6 श्रुतविकल्पना-आ०, श्र०। 7-दिग्रहपरिग्रहः श्र०। 8 सर्वर्थान् ज० वि० /