________________ प्रमाणप्र० का 0 27 ] श्रुतस्य प्रमाणत्वसमर्थनम् 566 यानम स्वभावप्रतिबन्धमन्तरेण तथैव अदृष्टप्रतिबन्धार्थाभिधानं ज्ञानमविसंवादकम् / ने हि दृष्टेऽनुपपन्नं नाम / क्वचिद्व्यभिचारात् साकल्येनानाश्वासे वैकभिप्रायेऽपि वाचः कथमनाश्वासो न स्यात् तत्रापि व्यभिचारसंभवात् / तथानिच्छतः श्रुतिकल्पनादुष्टादेः उच्चारणात् / प्रायो बाहुल्येन श्रुतेः शब्दस्य तज्ज्ञानस्य वा विसंवादात् सर्वत्र सत्य- 5 ____ श्रुतावपि चेद् यदि अनाश्वासः / केषाम् ? अपश्यतां कारिकाव्याख - सौगतानाम् / किम् ? इत्याह-प्रतिबन्धम् , सम्बन्धं सन्तमपि योग्यतारूपमविनाभावम् , [सः] सर्वत्रानाश्वासः अक्षलिङ्गधियां समः तासामपि प्रायो विसंवाददर्शनादित्यभिप्रायः / व्यतिरेकमुखेन कारिका व्याचष्टे 'नहि' इत्यादिना / नहि नैव इन्द्रियज्ञानं 10 प्रमाणम् / केन विनेत्याह-अभ्रान्तमव्यभिचारीति वा विशेषणविवृतिव्याख्यानम् - मन्तरेण, तद्विशेषणे सत्येव तत्प्रमाणमिति / कुत एतदित्याह-अतिप्रसङ्गात, द्विचन्द्रादिज्ञानस्यापि प्रामाण्यप्रसङ्गात् / नहि निर्विशेषणस्य ज्ञानमात्रस्य प्रामाण्याभ्युपमे द्विचन्द्रादिज्ञानस्य प्रामाण्यव्यवच्छेदः कर्तुं शक्यः / अथ तैद्विशेषणे सत्येव तत्प्रमाणं तेनायमदोषः; अत्राह-'तथा' इत्यादि / तथा अभ्रान्ताऽव्यभिचारि- 15 प्रकारेण विशेषणे ईन्द्रियज्ञानस्य अङ्गीक्रियमाणे श्रुतज्ञाने कोऽपरितोषः 1 तस्यापि तद्विशेषणविशिष्टस्यैव प्रामाण्यमस्तु / ननु इन्द्रियज्ञानस्य अर्थकार्यत्वात् युक्तम् अभ्रान्तत्वमव्यभिचारित्वं वा न पुनः श्रुतज्ञानस्य विपर्ययात्; इत्यत्राह-'यथा' इत्यादि / यथा येन योग्यताप्रकारेण कृत्तिकादेः सकाशात् यत् शकटादिज्ञानं तत् स्वभावप्रतिबन्धमन्तरेण, स्वभावप्रतिबन्धशब्देन तादात्म्यप्रतिबन्धस्तदुत्पत्तिसम्ब- 20 न्धश्च गृह्यते 'स्वो भावः कारणम्' इति व्युत्पत्तेः, तमन्तरेण अविसंवादकं तथैव तेनैव प्रकारेण अदृष्टप्रतिबन्धार्थाभिधानज्ञानम् अदृष्टः तादात्म्यादिप्रतिबन्धो यस्मिन् अर्था (1) तुलना-"स्वभावेऽध्यक्षतः सिद्धे परैः पर्यनुयुज्यते / तत्रोत्तरमिदं वाच्यं न दृष्टेऽनुपपन्नता।" -प्रमाणवातिकालं० 50 68 / “न हि दृष्टेऽनुपपन्नता।"-धवला० टी० पृ० 320 / (2) तुलना"विवक्षाप्रभवं वाक्यं स्वार्थे न प्रतिबध्यते / यतः कथं तत्सूचितेन लिङ्गेन तत्त्वव्यवस्थितिः। वक्त्रभिप्रायमात्रं वाक्यं सूचयन्तीत्यविशेषेणाक्षिपन् न पारम्पर्येणापि तत्त्वं प्रतिपद्येत / न च वक्त्रभिप्रायमेकान्तेन सूचयन्ति श्रुतिदुष्टादेरन्यत एव प्रसिद्धः ।"-सिद्धिवि० पृ० 264 / (3) अभ्रान्तादिविशेषणसहितत्वे / (4) इन्द्रियज्ञानादिकम् / (5) अभ्रान्तादिविशेषणयुक्तस्यैव / (6) अर्थमन्तरेणापि अतीतानागतादौ शब्दप्रयोगदर्शनात् / (7) तुलना-"स्वभावप्रतिबन्धे हि सत्यर्थोऽर्थं गमयेत् / तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात्।"-न्यायबि०१०४०। 1-र्थभि-ज० वि०। 2-धानमवि-ई० वि०। श्रुतकल्प-ई०वि०।-स्य ज्ञानस्य श्र० / 5 प्रतिसंबंधं आ० / 6-श्वासः तासामपि श्र०। 7-रीतिविशे-आ० / 8 इन्द्रियस्य श्र० / -शात् शक-आ० / 10-तिप्रतिबन्ध-ब०।11-वादकत्वं त-श्र।