________________ नम 568 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. अागमपरि० ___ इच्छाप्रयत्नप्रभृतयोऽपि विधिप्रकाराः प्रागुक्तप्रकारेणैव प्रत्याख्येयाः; विषयफैलादिनिरपेक्षाणां तेषामपि पुरुषप्रवृत्तिहेतुत्वाभावतो विधिरूपतानुपपत्तेः। तत्सापेक्षाणां तु प्रवृत्तिहेतुत्वे कथं तेषामेव विधित्वं स्यात् विषयादीनामपि तत्प्रसङ्गात् ? ततः पर परिकल्पितस्वरूपस्य विधेर्विचार्यमाणस्यानुपपत्तेः न तस्यापि शब्दार्थता घटते / अतः 5 तेद्वानेव शब्दार्थोऽभ्युपगन्तव्यः / इति सूक्तम्-'प्रमाणं श्रुतमर्थेषु' इत्यादि / 'श्रुतज्ञानम्' इत्यादिना कारिकां व्याचष्टे-श्रुतज्ञानं शब्दज्ञानं वक्त्रभिप्रायादलिन थान्तरेऽपि बहिरर्थेऽपि न केवलं तदभिप्राय एव प्रमाणम् / तद ___ नभ्युपगमे दूषणमाह-'कथम्' इत्यादि। कथम् ? न कथञ्चिद् अन्यथा बहिरर्थे तत्प्रामाण्याभावप्रकारेण प्रतिपत्तुमर्हति सौगतोऽन्यो वा / किमित्याह10 द्वीपदेशनदीपर्वतादिकम् / कथम्भूतम् ? अदृष्टस्वभावकार्यम् , अप्रत्यक्षाऽननुमेयस्वरूप मित्यर्थः / पुनरपि कथम्भूतम् ? देशान्तरस्थम् / केन प्रकारेण ? दिग्विभागेन / यथा दक्षिणदिग्विभागे सिंहलद्वीप उत्तरदिग्विभागे हिमवानिति / तमित्थम्भूतमर्थ दिग्विभागेन कथन्न प्रतिपत्तुमर्हति ? इत्याह-निरारेकमविसंवादश्च यथा भवति तथेति / ननु चार्थाभावेऽपि श्रुतेः प्रायः प्रवृत्तिदर्शनान्न कचिदप्यसौ प्रमाणमित्याशङ्कयाह15 प्रायः श्रुतेर्विसंवादात् प्रतिबन्धमपश्यताम् / सर्वत्र चेदनाश्वासः सोऽक्षलिङ्गधियां समः // 27 // विवृतिः-नहीन्द्रियज्ञानम् अंभ्रान्तमव्यभिचारीति वा विशेषणमन्तरेण प्रमाणमतिप्रसङ्गात् / तथाविशेषणे श्रुतज्ञाने कोऽपरितोषः 1 यथा कृत्तिकादेः शकटादिज्ञानं (1) “अतः सिद्धं न तार्किकरीत्या इष्टसाधनत्वे लिङाद्यर्थत्वमपि तु पूर्वोक्तरीत्या प्रवर्तकेच्छाया एव ।"-भाट्टरह० पृ०८। (2) तुलना-"अपरे पुनर्लिङादिशब्दश्रवणे सति समुपजायमानमात्मस्पन्दविशेषमुद्योगं नाम वाक्यार्थमाचक्षते; तत्स्वरूपं तु न वयं जानीम; कोऽयमात्मस्पन्दो नाम बुद्धि स्यात् प्रयत्नो वा इच्छाद्वेषयोरन्यतरो वा।"-न्यायमं० 10365 / (3) विषयः अग्निष्टोमादियागः / (4) फलं स्वर्गादि। (5) इच्छाप्रयत्नादीनामपि। (6) विषयफलादिसापेक्षाणाम् / (7) इच्छाप्रयत्नादीनामेव / (8) विधित्वप्रसङ्गात्, तच्च पूर्वं निराकृतमिति / (9) सामान्यविशेषात्माऽर्थ एव / (10) श्रुति: आगमज्ञानम्। (11) "चेद् यदि भवेत् / कः ? अनाश्वासः अविश्वासः / क्व ? सर्वत्र अविसंवादिश्रुतिप्रामाण्ये। केषाम् ? प्रतिबन्धमपश्यतां शब्दार्थयोः सहजयोग्यतालक्षणं सम्बन्धमनीक्षमाणानां सौगतानाम् / कस्मात् ? विसंवादात् / कस्याः ? श्रुतेः आगमस्य / कथम् ? प्रायः क्वचित्कदाचिदित्यर्थः / तदा सोऽनाश्वासः समः समानः / कासाम् ? अक्षलिङ्गधियाम्, अक्षमिन्द्रियं लिङ्गं हेतुः ताभ्यां जनिता धियो ज्ञानानि तासामपि प्रसक्तमित्यर्थः क्वचित्कदाचिद्विसंवाददर्शनात् / " -लघी० ता० पृ० 47 / (12) इन्द्रियज्ञानस्य लक्षणे 'अभ्रान्तम्' इति विशेषणं सौगतैः प्रयुज्यते"कल्पनापोढमभ्रान्तं प्रत्यक्षम्।" [न्यायबि०१४] इत्यभिधानात् / (13) प्रत्यक्षलक्षणे 'अव्यभिचारि' इति विशेषणं नैयायिकापेक्षया ज्ञेयम् / "इन्द्रियार्थसन्निकर्षोत्पन्नमव्यपदेश्यमव्यभिचारि व्यवसायात्मक ज्ञानं प्रत्यक्षम् / " [न्यायसू० 13114] इत्युक्तत्वात् / (14) अभ्रान्तादिविशेषणविशिष्टे / 1-तयो विधिप्रभृतयो वि-आ० / 2 तुतत्प्र-ब०, श्र०। 8-ज्ञानं वक्त्र-श्र०। 4 दिग्भा-श्र०।