________________ प्रमाणप्र० का० 26 ] विधिवादः 567 षस्य स्वप्नेऽप्यस्फुरणात् / प्राक्तनविकल्पत्रये तु प्रतिभात्वं विरुद्ध्येत, अन्यथा संस्कारादिभ्यः समुत्पन्नानां स्मैत्यादीनामपि प्रतिभात्वानुषङ्गात् तैदेवैकं प्रमाणं स्यात् ॥छ।। "केचिर्दै भक्तिरेव प्रवर्तकत्वाद् विधिः इत्याचक्षते / म खलु श्रद्धापरपर्यायां भक्तिं विना परमात्मश्रवणानुमननध्यानादौ यागादौ वा प्रवृत्तिः संभवति / तदुक्तम् "अनवच्छिन्नपूर्णत्वस्पर्शी नो भक्तितो विना / '' [ ] ___ भक्त्यंशानुप्रेवेशेनैव च शास्त्रस्यापि राजशासनाद्भेदः / तद्धि अन्तर्भक्तिशून्यं राजभयादीनामेव अन्तःपरिस्फुरणात् / उक्तञ्च "तया शून्यं भवेत् पुंसां शास्त्रं शासनमात्रकृत् / भक्तयंशेन च तद्भिन्नं लोके राजानुशासनात् // ' [ ] इति / तदप्यसम्यक् ; यस्मादुत्पन्ना सती भक्तिः प्रवृत्तिनिमित्तं स्यात् , उत्पत्तिश्चास्याः 10 शब्दात् , निग्रहानुग्रहसमर्थपुरुषविशेषाद्वा ? न तावच्छब्दादेव; “द्रष्टव्योरेयमात्मा" [वृहदा० 4 / 5 / 6 ] इत्यादिशब्दश्राविणोऽशेषस्यापि प्रतिपत्तुः आत्मादौ भक्तयुत्पत्तिप्रसङ्गात् तदर्शनादौ प्रवृत्तिः स्यात् / तच्छब्दश्रवणाविशेषेऽपि अशेषस्य तदनुत्पत्तौ नौसौ तन्मात्रहेतुका / यद विशेषेऽपि यन्नोत्पद्यते न तत् तन्मात्रहेतुकम् यथा अविशिष्टेऽपि बीजे अनुत्पद्यमानोऽङ्करः, नोत्पद्यते च अविशिष्टेऽपि शब्दे तच्छब्दश्राविणोऽशेषस्य आत्मादौ 15 भक्तिरिति / अथ निग्रहानुग्रहसमर्थात् पुरुषाविशेषादभिमतं फलं वाञ्छतां सोत्पद्यते; युक्तमेतत् ; तस्या एव भक्तिशब्दवाच्यत्वप्रसिद्धः / अपौरुषेयत्वं तु वेदस्याऽयुक्तम् , तस्येत्थं : पौरुषेयत्वप्रसिद्धेः / ॐनवच्छिन्नपूर्णत्वधर्मोपेतस्य चात्मनः ब्रह्माद्वैतप्रघट्टके प्रत्याख्यातत्वात्कथं कस्यचित्तत्र तथाविधपुरुषादन्यतो वा खरविषाणांदिव भक्तिः स्यात् // छ / (1) आदिपदेन प्रत्यक्षव्यापार-शब्दौ ग्राह्यौ। (2) यथा [ क्रमं ] स्मृत्यनुमानशब्दानाम् -आ० टि०। (3) प्रतिभाख्यम् / (4) “एवं च सति लिङादेः कोऽयमर्थः परिगृहीत इति चेत् ; यज् देवपूजायामिति देवताराधनभूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां लिङादयोऽभिदधतीति न किञ्चिदनुपपन्नम्।"-वेदार्थ०१० 225 / (5) "भक्तिस्तु निरतिशयानन्दप्रियानन्य प्रयोजनसकलेतरवतृष्ण्यवज्ज्ञानविशेष एव ।"-सर्वद० 10344 / वेदार्थ० पृ० 152 / (6) राज्यशासनम् / (7) श्रद्धया। (8) शास्त्रम् / (9) "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्व विदितम् ।"-बृहदा० 2 / 4 / 5, 4 / 5 / 6 / (10) आत्मदर्शनश्रवणभनननिदिध्यासनेषु / (11) भक्तिः / (12) शब्दश्रवणमात्रनिबन्धना। (13) भक्तिः न शब्दश्रवणमात्रहेतुका शब्दश्रवणेऽपि अनुत्पद्यमानत्वात् / (14) समर्थेश्वराराधनायाः / (15) यदि / वेदः ईश्वराराधनरूपां भक्तिं विदधीत तदा धर्मेऽपि ईश्वरस्यैव प्रामाण्यं स्यात् तथा च वेदस्य अपौरुषेयत्वव्याघातः, ईश्वरस्य निग्रहानुग्रहकरणवत् वेदकर्तृत्वमपि स्यादिति भावः / (16) निरुपाधिपूर्वत्वविशिष्टस्य ब्रह्मणः। (17) पृ० 150- / (18) ब्रह्मणि / (19) ईश्वरात् / (20) वेदवाक्यादेर्वा / _1-प्यप्रस्फुरणात् ब० / 2 केचित्तु भ-ब० / 3 भक्ति सैव न त-ब० / 4 प्रवृत्तेनिमि-श्र०।। तत्तच्छब्द-श्र० 6-मतफलं श्रग तस्यै एव ब०। 8-त्वप्रतिसिद्धेः आ०19-णादिवभक्तिः श्रा