________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. श्रागमपरि० दिव्यापारोऽपि बलवत्सलिलसमीरणन्यायेन पुरुषं प्रवर्त्तयति सर्वस्य प्रवृत्तिप्रसङ्गात् / नापि विषयप्रतिपत्तिमात्रम् ; अत एव / अतो या काचित् प्रवृत्तिः सा सर्वा प्रतिभासमानाकारनिर्णयरूपप्रतिभापूर्विकैव / नैहि प्रतिभातेऽप्यर्थे यावत् सुखसाधनमिदमिति प्रतिभा नोत्पद्यते तावत् कश्चित् प्रवर्त्तते / अतः साधनविशेषे पुरस्कृते क्रिया। विशेषपरिस्फुरणं प्रतिभा / उक्तञ्च-" विशिष्टसाधनाव्यवच्छिन्नक्रियाप्रतीत्यनुकूला प्रज्ञा प्रतिभाँ” [ विधिवि० पृ० 246 ] इति; तदप्यसारम् ; यतः सिद्धे प्रतिभास्वरूपे विधिरूपता स्यात् / न च भवत्प्रतिपादितं प्रतिभायाः स्वरूपं युक्तम् / इन्द्रियादिबाह्यसामग्रीनिरपेक्षं हि मनोमात्रसामग्रीप्रभवम् अर्थतथाभावप्रकाशं ज्ञानं प्रतिभेति प्रसिद्धम्-'श्वो मे भ्राता आगन्ता' इत्यादिवत्, न पुनः प्रतिभासमानाकारनिर्णय10 रूपतामात्रम् , निर्विकल्पकाध्यक्षोत्तरकालभाविनः सविकल्पकप्रत्यक्षस्यापि तद्रूपतया प्रतिभात्वानुषङ्गात् , तथा च सविकल्पकप्रत्यक्षवार्लोच्छेदः स्यात् / यदपि साधनविशेषे क्रियविशेषपरिस्फुरणम् ; ततिक पूर्वाहितसंस्कारवशात् , 'प्रत्यक्षादिप्रमाणव्यापारानुसारतः, चोदनातः, श्वो मे भ्रातेत्यादिवत् मनोमात्रतो वा स्यात् ? तत्राऽन्त्यविकल्पोऽयुक्तः; अश्रुतचोदनावाक्यस्य यागादिसाधने क्रियाविशेप्रत्यात्मवृत्तिसिद्धा सा कापि न निरूप्यते // 146 / / उपश्लेषमिवार्थानां सा करोत्यविचारिता / सार्वरूप्यमिवापन्ना विषयत्वेन वर्तते // 147 // साक्षाच्छब्देन जनितां भावनानुगमेन वा। इतिकर्तव्यतायां तां न कश्चिदतिवर्तते // 148 // प्रमाणत्वेन तां लोकः सर्वः समनुपश्यति / समारम्भाः प्रतीयन्ते तिर. ३चामपि तद्वशात् ।।१४९॥"-वाक्यप० 2 / 119, 145-49 / (1) सर्वस्य श्रोतुः प्रवृत्तिप्रसङ्गादेव। (2) प्रतिभासमानाकारो यो निर्णयः तद्रूपा प्रतिभा -आ० टि०। (3) तुलना-"न हीदमित्थमनेन कर्त्तव्यमित्यनुपजातप्रतिभाभेदः प्रवर्तते प्रत्यक्षाद्यवगतेऽप्यर्थे / तत्र हि प्रमाणकार्यसमाप्तिः / प्रतिभानेत्रो हि लोक इतिकर्तव्यतासु समीहते।"-विधिवि० 10247-48 / (4) यागादौ-आ० टि०। (5) साधनविशेषमदृिश्य कर्त्तमध्यवसिते-आ० टि। (6) व्याख्या-"न हि ते प्रतिभाविदः ये संवेदनमनिश्चयात्मकं प्रतिभामाचख्युः / संशयो हि सः / वयं त साध्यसाधनेतिकर्तव्यतावच्छिन्नायाः क्रियायाः प्रतिपत्तावनुकूलां तत्प्रतिपत्या कार्येऽनुष्ठानलक्षणे कर्तव्ये सहकारिणीं कर्तव्यमिति प्रज्ञा प्रतिभामध्यगीष्महि ।"-विधिवि० टी० पृ० 247 / "नियतसाधनावच्छिन्नक्रियाप्रतिपत्त्यनुकुला प्रज्ञा प्रतिभा"-तत्त्वसं० पं०१० 286 / (7) तुलना"आम्नायविधातृणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेष्वर्थेषु धर्मादिनिबद्धेषु ग्रन्थोपनिबद्धेषु च आत्ममनसोः संयोगाद् धर्मविशेषाच्च यत् प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यते तदार्षमित्याचक्षते / तत्तु प्रस्तारेण देवर्षीणाम् / कदाचिदेव लौकिकानां यथा कन्यका ब्रवीति श्वो मे भ्राताऽऽगन्तेति हृदयं मे कथयतीति ।"-प्रश० भा० पृ० 258 / "प्रमाणं प्रतिभं श्वो मे भ्राताऽऽगन्तेति दृश्यते ।"-न्यायमं० पृ० 106 / "प्रतिभा ऊहः तद्भवं प्रातिभम्"-योग० तत्त्ववै० 3 / 33 / "प्रातिभं स्वप्रतिभोत्थमनौपदेशिक ज्ञानम्।"-योगवा० 3 / 33 / "तत्र दृष्टकारणं विनैव अकस्माद् व्यवहितविप्रकृष्टातीतानागतसूक्ष्माद्यर्थस्फरणे सामर्थ्य प्रतिभा।"-योगसं० 1055 / "इन्द्रियलिङ्गाद्यभावे यदर्थप्रतिभानं सा प्रतिभा"-प्रश. कन्व० पृ०२५८ "प्रज्ञा नवनवोल्लेखशालिनी प्रतिभाऽस्य धीः।"-अलं० चि००२। (8) आलोचनाज्ञान-आ० टि०। (९)निर्णयरूपतया। (१०)अग्निहोत्रं जहयात् इत्यादि प्रवर्तकं हि वाक्यं चोदना। 1 क्रियाविशेषो न पुरुषं प्रवर्तयति सर्वस्य प्रवत्तिप्रसंगात परिस्फरणं ब० सिद्धःप्र-श्र।