________________ प्रमाणप्र० का०२६] विधिवादः 565 सत्येव 'भक्षं चर, ध्यानाध्ययने कुरु, ज्वरित औषधं पिबेत् , पथ्यमश्नीयात्' इत्याद्युप॑देशस्य प्रतीतेः / न च शब्द एव उपदेष्टा इत्यभिधातव्यम् ; अव्युत्पन्नस्याप्यतोऽर्थप्रतिपत्तिप्रसङ्गात् / अथ शब्दार्थसम्बन्धव्युत्पत्तिसव्यपेक्ष एवासौ तत्त्वमुपदिशति; ननु कुतस्तव्युत्पत्तिः ? विशिष्टपुरुषाच्चेत् ; स एव उपदेष्टाऽस्तु किमनया परम्परया ? प्रतिषेत्स्यते च अपौरुषेयत्वमस्य अग्रे इत्यलमतिप्रसङ्गेन // छ॥ येपि विषयस्य यासौ कर्त्तव्यताप्रतीतिः सैव प्रवर्तकत्वाद्विधिः इति प्रतिजानते; नहि 'इदं मे कर्त्तव्यम्' इत्यप्रतिपद्यमानः कश्चित्प्रवर्त्तते इति; तेऽप्यसमीक्षितवचसः; यतः किं कर्त्तव्यताप्रतिपत्तिः निर्विशिष्टा प्रवृत्तिहेतुः, श्रेयःसाधनताविशिष्टा वा ? तत्राद्यैपक्षोऽयुक्तः; सर्वस्य सर्वत्र कर्त्तव्यताप्रतिपत्तिमात्रेण प्रवृत्तिप्रसङ्गात् , तथा च ब्राह्मणादिवधकर्त्तव्यताप्रतिपत्तिमात्रेण भवतस्तद्वधादावपि प्रवृत्तिः स्यात् / अथ श्रेयः- 10 साधनताविशिष्टा सा प्रवृत्तिहेतुः; तर्हि श्रेयःसाधनतैव प्रवृत्तिहेतुत्वाद् विधिः स्यान्न कर्त्तव्यता . तस्यास्तामन्तरेणाऽप्रवर्तकत्वात् / नचैतदप्युपपन्नम् ; श्रेयःसाधनतीयां विधित्वस्य प्रागेव प्रत्याख्यातत्वात् // छ / __ अपरेषां मतं प्रतिभैव प्रवर्तकत्वाद् विधिः / नहि प्रतिभाव्यतिरेकेण लिङा (1) "ननूक्तमुपदेश इति विशिष्टस्य शब्दस्योच्चारणम् ; यद्येवमव्युत्पन्नस्यापि प्रवृत्तिप्रसङ्गः। उच्यते-विशिष्ट: पुरुषार्थस्य शुद्धस्योपायमाह यः / पुरुषार्थो यदा येन यो नरेणाभिकाङक्ष्यते // पुरुषार्थस्योपायमनवगतमवगमयन्नुत्कर्षाद्विशिष्ट: शब्द उक्तः, अन्यथा सर्व एव शब्दः शब्दान्तराद् भिन्न इत्यविशेषणमेव स्यात् / अतो नाऽविदितार्थस्य प्रवृत्तिः ।"-विधिवि० पृ० 240 / (2) पुरुषार्थोपायताम् / (3) वेदस्य / (4) तुलना-"ननु कर्त्तव्यमिति प्रतिपत्तेः प्रवृत्तिः / अत्र केचिदाम्नायं प्रति श्राद्धमानिनः प्राहुः-ननु कर्तव्यमिति प्रतिपत्तेः प्रवृत्तिः / इदमाकूतम्-कार्यदर्शनोन्नेयप्रवृत्तयः खल्वमी लिङादयः / कार्यञ्च प्रवृत्तिलक्षणं वृद्धानां लिङादिश्रवणसमनन्तरमुपलभ्यते / तच्च बुद्धिपूर्वकं स्वतन्त्रप्रवृत्तित्वात् अस्मत्प्रवृत्तिवत् / अनुमिता च बुद्धिः अस्मत्प्रवृत्तिहेतुबुद्धिगोचरचारिणी प्रवृत्तिहेतुबुद्वित्वात् अस्मत्प्रवृत्तिहेतुबुद्धिवत् / तस्याश्च विषयं स्वयमेव चक्षुरुन्मील्य पिण्डिकरोगं (डिण्डिकरागं) परित्यज्य पर्यालोचयन्तः शब्दव्यापारपुरुषाशयतत्समीहिततत्साधनताव्युदासेन कर्तव्यतामेव प्रतिपद्यामहे / तथाहि-स्तनपानादावपि न जातु समीहितोपाय इत्येव प्रवृत्ताः स्मः, किन्तु कर्त्तव्यमेतदिति लिङादिश्रवणानन्तरा प्रवृत्तिः कर्तव्यताभिधानमेव लिङादीनामापादयति / तथा च विदितसङ्गतितया लिङादयो वेदेऽपि तामेवाभिदधते।"-विधिवि० टी० पृ० 244 / (5) तुलना-"नन्वपेक्षितोपायतामन्तरेण कर्तव्यमिति शतशोऽप्यभिधीयमानं न प्रवृत्तये कल्प्यत इत्यत आह-कथं हि तथा प्रतिपद्यमानो न प्रवर्तत ? शब्दस्तावत्कर्तव्यतायां विदितसङ्गतिः तामवगमयति / तथा नैमित्तिकनिषेधाधिकारयोरसौ प्रतीयमाना न शक्या नेति वक्तुम् ।"-विधिवि० टी० पृ० 245 / (6) ब्राह्मणवधादिनिषिद्धे कर्मणि। (7) कर्त्तव्यताप्रतिपत्तिः। (8) कर्तव्यताप्रतीतेः / (9) श्रेयःसाधनताम् / (10) श्रेयःसाधनताविशिष्टकर्तव्यताप्रतीतेविधित्वम् / (11) वैयाकरणानाम् / “अभ्यासात्प्रतिभाहेतुः शब्दः सर्वोपरैः स्मृतः। बालानां च तिरश्चां च यथार्थप्रतिपादने // 119 // विच्छेदग्रहणेऽर्थानां प्रतिभाऽन्यैव जायते / वाक्यार्थ इति तामाहः पदार्थैरुपपादिताम् // 145 // इदं तदिति साऽन्येषामनाख्येया कथञ्चन / 1-त ओषधं आ०। 2-पदेशप्रतीतेः आ०। 3-द्यः प-श्र०, ब०। 4-क्तः सर्वत्र आ० / 5-ताया विधि-ब०, श्र०।