________________ 564 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. प्रागमपरि० 'विहितानुष्ठानत्वात् श्रेयःसाधनत्वानुषङ्गः। अप्रामाण्यश्च ठकशास्त्रवद् वेदेऽप्यविशिष्टम्। अन्ये तु 'उपदेशो विधिः' इत्यामनन्ति / उपदेशशब्देन चे विषयो लिङादिः अभिधा चोच्यते / तत्र उपदिश्यते प्रत्याय्यते इत्युपदेशो विषयो यागादिः, उपदिश्यतेऽ नेन इत्युपदेशो लिङादिः, उपदेशनमुपदेशः अभिधा उच्चारणमुच्यते; तदप्यसङ्गतम् ; 5 ठकोपदेशस्यापि विधित्वप्रसङ्गात् / भवत्परिकल्पितप्रक्रियायाः “अग्निष्टोमेन यजेत स्वर्गकामः" [ ] इत्यादिवत् ‘सधनं ब्राह्मणं हन्याभूतिकामः' इत्यादावपि तुल्यत्वात् / किञ्च, परानुग्रहप्रवृत्तस्य आप्तस्य वचनम् उपदेशः प्रसिद्धः / न च वेदे तथाविधः कश्चित् पुरुषोऽस्ति अपौरुषेयत्वाभावप्रसङ्गात् , तत्कथमस्यं उपदेशतापि ? 10 न खलु उपदेष्ट्रव्यतिरेकेण उपदेशः कदाचित्प्रतिपन्नः / गुरुवैद्याद्युपदेष्ट्रसद्भावे (1) चौरशास्त्रविहितत्वात् / (2) "उपदेश इति विशिष्टस्य शब्दस्योच्चारणम्"-शाबरभा० 1 / 1 / 5 / "ननु चोदनायाः प्रामाण्यं प्रतिज्ञातं कथमुपदेशस्य साध्यते ? अत आह-"चोदना चोपदेशश्च विधिश्चैकार्थवाचिनः ।"-मी० श्लो० स० 5 श्लो० 11 / "उपदेशो नियोज्यार्थकर्माप्रस्थितचोदना। प्रथितो गुरुवैद्यादौ नित्येऽपि न न कल्प्यते / / यद्यप्याज्ञाऽभ्यर्थना वेदेऽनुपपन्ना, उपदेशस्तु युज्यते। सोऽपि तद्वदेव प्रेरणात्मकश्चतुर्थो लोके प्रज्ञायते / तथाहि-आज्ञाऽभ्यर्थने हि नियोक्त्रर्थमनाहितनियोज्यफलं कर्म गोचरयतः / नियोज्यार्थं तूपदेशः / अनुज्ञा तु यद्यप्येवं क्वचित् तथापि प्रवृत्तपुरुषविषयत्वान्नोपदेशः / नियोज्यार्थकर्मगोचरमप्रवृत्तप्रवर्तनमुपदेशमाचक्षते धीराः / न हि गामभ्याज माणवकमध्यापय कुरुयथाभिमतमित्युपदेशप्रतीतिः / नापि भक्ष्यं चेत् (चर) ज्वरितः पथ्यमश्नीयादिति प्रतीतिः, भूयसा चैष पौरुषेयेषु कामार्थशास्त्रादिष्वाज्ञादिभिरनारूषितो लोके प्रज्ञायते, गोपालादिवचःसु च मार्गाख्यानपरेषु अनेन पथा गच्छेति / प्रदर्शनार्थञ्चेदम्, अतोऽर्थशब्दाभिधोच्चारणादिज्ञानञ्च कर्मकर्तृकरणभावसाधनेन उपदेशशब्देन उच्यते / प्रेषणादिवत् तैरपि हि यथाविवक्षितमर्थादयो निर्दिश्यन्ते"सिद्धान्तमुपक्रमते-उच्यते-उपदेशो नियो"उपदेशस्तु युज्यते तस्य अपौरुषयेऽपि संभवात् / न ह्यसौ नियोजकार्थकर्मेति वक्ष्यति, येन चेतनकर्तृक: स्यात, न चासौ न लौकिकः अप्रेरणात्मको वा येनाविधिः स्यादित्याहसोऽपि तद्वदेव आज्ञावदेव प्रेरणात्मकश्चतुर्थों लोके प्रज्ञायते / .." एतदुक्तं भवति-आज्ञाभ्यर्थनोपदेशाः कर्मणि प्रवृत्तिजननेन तद्गोचरयन्तो भवन्ति प्रेरणात्मतया समानाः / तेषामाज्ञाभ्यर्थनाभ्यां गोचरीक्रियमाणं कर्म अनादृतनियोज्यप्रयोजनमाज्ञापयितुरभ्यर्थयमानस्य वा प्रयोजनायावकल्प्यते। उपदेशगोचरस्तु कर्म अनादृतोपदेशकप्रयोजनमुपदेष्टव्यार्थमेवेत्ययम् आज्ञाऽभ्यर्थनाभ्यामुपदेशस्य भेदः, प्रेरणात्मकत्वं चेति नियोज्याथं कर्म यस्योपदेशस्य न त नियोक्त्रथं स तथोक्त इत्यक्षरयोजना। ..."अप्रस्थितस्य अप्रवृत्तस्य पुंसः प्रस्थापना चोदना" ननुपदेशो विधिः, स चार्थभेदाभिधायकः, शब्दः इति क्वचित्क्वचिद्च्चारणमाह शब्दस्योच्चारणमिति / क्वचिदर्थं विध्युद्देशेनैकवाक्यत्वादिति / वचिद्वचनम् चोदनेति क्रियायाः प्रवर्तक वचनमिति / क्वचित् ज्ञानं शास्त्रं शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानमिति, वार्तिककारश्च अभिधा भावनामाहुरित्यभिधामिति / अत आह-प्रदर्शनार्थ चेदं विशिष्ट: शब्दो विधिरिति / अतोऽर्थशब्दाभिधोच्चारणादिज्ञानं च कर्मकर्तकरणभावसाधनेनोपदेशशब्देन यथायथमुच्यते"-विधिवि०, टी०पृ० 238-241 / (3) कर्मकरणभावसाधनेषु क्रमशः। (4) ठकशास्त्रीयवाक्येष्वपि (5) परानुग्रहप्रवृत्तः। (6) अग्निष्टोमेन यजेत स्वर्गकाम इत्यादि विधिवाक्यस्य / 1च प्रविषयो ब०12-उच्चारमुच्यते श्र०।