________________ प्रमाणप्र० का 0 26] विधिवादः 563 अतस्तदनुरोधितापि प्रवर्तकत्वाद् विधिः प्रसज्येत / सापि वा न प्राप्नोति, स्वामिवाक्यवद् वेदवाक्ये तस्याः सत्त्वाऽसंभवात् / 'इदं कुरु' इति वाक्याद्धि स्वामिनोऽभिप्रायं विदित्वा तदिच्छानतिक्रमेण तदनुरोधितया प्रवर्त्तते / न चैतद् वेदवाक्ये संभवति वक्तुरसत्त्वात् // छ / येऽपि स्वर्गादिफलसाधनत्वेन धात्वर्थ प्रतीत्य पुरुषार्थसाधनत्वादस्मिन् / प्रवर्तामहे इति श्रेयःसाधनत्वाख्यधर्मावगमः प्रवृत्तिहेतुत्वाद् विधिः' इत्याचक्षते; तेऽप्यशब्दार्थविदः, श्रेयःसाधनातायाः विधित्वेन लोकेऽप्रसिद्धेः, प्रैषादीनामेव तत्र तत्त्वेन प्रसिद्धेः। लिङादिशब्दवाच्यो हि विधिः। न च श्रेयःसाधनता तच्छब्दवाच्यतया लोके प्रसिद्धा, येनास्या विधित्वं स्यात् , लोकानुसारेण च पदार्थव्यवस्था / “य एव लौकिकाः शब्दाः त एव वैदिकाः" [ शाबरभा० 1 // 3 // 30 ] इत्यादिवचनात् / 10 किञ्च, कस्येयं श्रेयःसाधनता-भावनायाः, धात्वर्थस्य वा ? न तावद् भावनायाः; तस्याः प्रागुक्तप्रकारेण असिद्धस्वरूपत्वात् / नापि धात्वर्थस्य; यागादेः पशुवधप्रधानस्य श्रेयःसाधनत्वानुपपत्तेः। न खलु हिंसा श्रेयःसाधनम् ; ब्राह्मणवधादेरपि तत्प्रसङ्गात् / 'विहितानुष्ठानत्वात्तत्साधनत्वे 'सधनं ब्राह्मणं हन्यात्' इत्यादेरपि (1) प्रयोक्तृपुरुषाभावात् अभिप्रायानुरोधितायाः अभावात् / (2) मण्डनमिश्रादयः। मण्डनमिश्रा हि 'इदं मच्छेयःसाधनम्' इत्यवगमस्यैव प्रवृत्तिहेतुतां स्वीकुर्वन्ति; तथा चोक्तं तै:-"पुंसां नेष्टाभ्युपायत्वात क्रियास्वन्यः प्रवर्तकः / प्रवत्तिहेतुं धर्मञ्च प्रवदन्ति प्रवर्तनाम् // प्रवत्तिसमर्थो हि कश्चिद् भावातिशयो व्यापाराभिधानः प्रवर्तना। सा च क्रियाणामपेक्षितोपायतैव। न हि तथात्वमप्रतिपद्य तत्र प्रवर्तते कश्चित् / याप्याज्ञादिम्यः प्रवृत्तिः साऽपि कथंचिदपेक्षितनिबन्धनत्वमुपाश्रित्यैव अन्यथाऽभावात् ।"-विधिवि० पृ० 243 / “तथा चोक्तम् -तया धात्वर्थकार्यत्वे पदं श्रुत्योपदर्शिते / भावनाया विधिश्रुत्या पुषार्थांशसाध्यतेति // श्रेयःसाधनता ह्येषा नित्यं वेदात् प्रतीयते (मी० श्लो० पृ०४९।) इति च / तस्मादिष्टसाधनतैव विधिः लिङाद्यभिधेयेति तयुक्तायाः भावनायाः फलमेव भाव्यं धात्वर्थस्तु करणमिति (पृ०४६) तेनाभिधाव्यापारप्रवर्तनाभिधानवत् प्रवर्तनारूपेण इष्टसाधनतां शब्दोऽभिधत्ते न स्वरूपेणेति न प्रतीतिविरोधः / इदमेव भगवतो मण्डनमिश्रस्यापि 'पुंसां नेष्टाभ्युपायत्वत् क्रियास्वन्यः प्रवर्तकः / प्रवृत्तिहेतु धर्मञ्च प्रवदन्ति प्रवर्तनाम्। एवङ्कारञ्च प्रवर्तनाप्रत्यय इत्यादि वदतोऽभिमतम् / तदेवं शब्दकर्तृकं प्रवर्तनारूपेष्टसाधनत्वाभिधानमेव शब्दभावनेति गीयते ।"-न्यायरत्नमा० पृ० 47, 53-54 / 'इष्टसाधनत्वमेव विधितत्त्वम्” तन्त्ररह० पृ० 45 / "तथा च प्रवर्तनत्वानुरोधात् विधेरपि इष्टसाधनत्कादिकमेवार्थः"-मुक्ता० पृ० 516 / (3) ज्योतिष्टोमादियागे। (4) लोके। (5) विधित्वेन। (6) श्रेयःसाधनतापरनाम्न्याः इष्टसाधनतायाः / (7) उद्धृतमिदम्-तौताति० पृ०१३४ / (8) तुलना-"किञ्च, भावनागतं श्रेयःसाधनत्वं प्रवर्तकमिष्यते तैः. तच्च न पथगभिधात यक्तम / भावनायाः त्र्यंशत्वेन तत्स्वरूपावगमसमये एतदंशयोः स्वर्गयागयोः साध्यसाधनभावावगतिसिद्धेः ।"न्यायमं० पृ० 361 / (9) श्रेयःसाधनत्वप्रसङ्गात् / (10) यज्ञो हि वेदे विहितोऽतः सः श्रेयःसाधनमित्युक्ते सत्याह / तुलना-"विधिपूर्वकस्य पश्वादिवधस्य विहितानुष्ठानत्वेन हिंसाहेतुत्वाभावात असिद्धो हेतुरिति चेत् ; तहि विधिपूर्वकस्य सधनवधस्य खारपटिकानां विहितानुष्ठानत्वेन हिंसाहेतुत्वं मा भूदिति सधनवधात् स्वर्गो भवतीति वचनं प्रमाणमस्तु"."-तत्त्वार्थश्लो० पृ० 12 / ____ 1 विहितानुष्ठानस्य तत्सा-ब० / 25