________________ 10 562 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. प्रागमपरि० लोके प्रसिद्धं न तत्स्वभावम् , अतोऽन्येनात्र प्रवर्तकेन हि भवितव्यम् / नहि स्वस्यैव स्वात्मसिद्ध्यर्थं प्रवर्तकत्वं युक्तं विरोधात् / किञ्च, उत्पन्नं कर्म आत्मसिद्ध्यर्थं पुरुषं प्रवर्त्तयति, अनुत्पन्नं वा ? तत्र उत्पनस्य स्वरूपसिद्धेर्जातत्वात् पुरुषप्रेरणा व्यर्था / अनुत्पन्नस्य तु प्रेरकत्वानुपपत्तिः / 5 सदेव हि किश्चित् कस्यचित्प्रेरकं नासत् खरविषाणादिकम् , तथाविधस्य कारकत्वा योगात् / असता चानेन सह अपौरुषेयवचसः सम्बन्धासंभवात् कथं तद् वेदवाक्यैः प्रतिपाद्येत यतः पुरुषप्रवृत्तिहेतुत्वात् तद् वाक्यार्थः स्यात् / अथ सामान्योकारेण सत् कर्म विशेर्पाकारसम्पादनाय पुरुषं प्रेरयति; तन्न; येनांशेन तत् सन्न तेनाशेन पुरुषसाध्यम् , येन चांशेन साध्यं न तेन तदभिधेयं सम्बन्धासंभवात् / नहि सम्बन्धाऽभिधेयाभिधानानां नित्यत्वाभ्युपगमे अनित्ये कर्मविशेषे नित्यस्य सम्बन्धस्य संभावनापि संभवति / लक्षणया तत्प्रतिपत्तिः; इत्यप्ययुक्तम् ; तस्यास्तद्वत् शब्दार्थनिरूपणावसरे निरस्तत्वात् // छ / ___ अथ आत्मनोऽप्राप्तक्रियासम्बन्धप्रतिपत्तिः प्रवर्तकत्वाद् विधिः; 'तैवेदं कर्म' इत्युक्ते हि क्रियासम्बन्धमात्मन्यवगम्य प्रवर्त्तमानाः प्रतीयन्ते लौकिका इति ; तदप्य18 युक्तम् ; नहि क्रियासम्बन्धप्रतिपत्तिमात्रेण प्रवृत्तिोंके प्रतीयते, अपि तु तदनुरोधितैया, अन्यथा सर्वस्यैव 'तवेदं कर्म' इति कर्मसम्बन्धप्रतिपत्तिमात्रेण प्रवृत्तिः प्रसज्येत, (1) विधिस्वभावम् / (2) कर्मणि यागादौ। (3) असतः प्रवृत्तिक्रियायाः कर्तृत्वरूपस्य प्रवर्तकत्वस्य असम्भवात्। (4) कर्मणा। (5) याग इति-आ० टि०। (6) कारीषादि:-आ० टि। (7) सामान्येन-आ० टि० / (8) विशेषरूपेण-आ० टि०। (9) वेदवाक्येनाभिधेयम् / (10) सङ्कत-अर्थ-शब्दानाम् / (11) "ननु विधेलिङादिवाक्यताभ्युपगमात् तदुच्चारणात् प्रागसिद्धत्वे सति अगृहीतसम्बन्धत्वेन वाच्यत्वायोगाल्लिङाधुच्चारणात् प्रागेव सिद्धेः तत्परत्वं न युक्तमित्याशंक्य शब्दश्रवणानन्तरभाविप्रवृत्तिहेतुप्रेषणाध्येषणादिव्यापारानुवृत्तप्रवर्तनासामान्याभिधानेन तद्विशेषापेक्षायामपोरुषेये वेदे पुरुषधर्मस्य प्रेषणादेरसम्भवात् तद्वयतिरिक्तविध्याख्यस्य विशेषस्य परिशेष्याल्लक्षणया गम्यमानस्य सम्बन्धग्रहणानपेक्षत्वेन प्राक् सिद्धचनपेक्षणादविरुद्धा शब्दव्यापरतेति "-न्यायसु०पू०५५९, तथा पृ० 30 / मीमासान्याय० पृ० 180 / (12) विधि / (13) लक्षणायाः। (14) सम्बन्धवत् / (15) 10 570 / (16) "यदपि समर्थनम्-अप्राप्तसम्बन्धया क्रियया आत्मनः सम्बन्धस्य प्रतीत्या प्रवृत्तिः यथाऽद्य तवेदं कर्मेति लोके / अतश्च अज्ञातज्ञापनमप्रवृत्तप्रवर्त्तनमुभयविधप्राप्तिप्रतिषेधेन अप्राप्तक्रियाकर्तृसम्बन्धो विधिरिति विधिविदामुद्गाराः ।"-विधिवि० पृ०४०। (17) "नैतत्सारम् ; यस्मात्-न प्रवृत्तिोगधियो लोकेऽभिप्रायवेदनात् / मृषा भवेत्तथा कामं किं मुधैष प्रयस्यति // प्रतिपद्यतां नामायमात्मनः क्रियायोगं शब्दात्, तं च तथाभावे तथेति निश्चिनोतु विपर्यये नैतदेवमिति / प्रवर्तते तू कस्मात ? लोके त्वद्य तवेदं कर्मेति वचनादधिगतवक्त्रभिप्रायो यो यदभिप्रायानुरोधी स प्रवर्तितुमर्हति अन्यथा सर्वस्य प्रवृत्तेः ।"-विधिवि० पृ० 41-42 / (18) वाक्यप्रयोक्तृपुरुषस्य अभिप्रायानुरोधात् प्रवृत्तिर्भवति अत: अभिप्रायानुरोध एव विध्यर्थः स्यादिति भावः / __-तकेन भवि-श्र०, ब० / 2 सह पौरु-श्र० / 3 तदेवं कर्म श्र० / 4 तदविरोधितया ब० / तदेवं कर्म श्र०।