________________ प्रमाणप्र० का० 26] विधिवादः 561 मानम् ; किमर्थं प्रेरयति ? फलार्थी हि पुरुषः प्रवर्त्तते, तच्चेद् विद्यते; अलं प्रवृत्त्या / नहि लोके यस्य यदस्ति स तदर्थं पुनः प्रवर्त्तते इति प्रतीतम् प्रवृत्त्यनुपरमप्रसङ्गात् / सतोऽपि फलस्य आत्मसम्बन्धितां कर्तुं प्रवर्त्तते; इत्यप्ययुक्तम् ; यतः फलं सुखम् , दुखाभावश्च, तदुभयमप्युपजायमानम् आत्मसम्बद्धमेवोपजायते / अथ स्वर्गकामः पुरुषः स्वर्गादेः फलस्य विद्यमानस्यैव आत्मसम्बद्धतां कर्तुं प्रवर्त्तते; नन्वेवं पुत्रका- 5 मादौ का वार्ता ? नहि पुत्रादिफलस्य तदा विद्यमानता संभवति प्रतीतिविरोधात् / , किञ्च, इदं फलं सत्तामात्रेण प्रवृत्तिहेतुः, साध्यताविशिष्टं वा ? प्रथमपक्षे सिद्धेपि फले पुरुषप्रवृत्तिहेतुत्वं स्यात् , सत्तामात्रस्य तत्राप्यविशेषात् / न च सिद्धस्य सिद्धये प्रेक्षावतां प्रवृत्तियुक्ता तदनुपरमप्रसङ्गात् / अथ साध्यतावच्छिन्नं फलं प्रवृत्तिहेतुर्न केवलम् ; तदप्यनुपपन्नम् ; अनर्थिनोऽप्यतः प्रवृत्तिप्रसङ्गात् / फलं हि साध्य- 10 तया विशिष्टं प्रतीयमानं यदि प्रतिपत्तारं प्रवर्त्तयति तदा अनर्थिनमपि प्रवर्त्तयेत्तँदविशेषात् / तन्न विद्यमानस्यास्य प्रेरकत्वं युक्तम् / नाप्यविद्यमानस्य; अँस्याऽसतः कारकत्वानुपपत्तेः, 'असच्च प्रेरकञ्च' इति विप्रतिषेधात् // छ / - येऽपि 'फलाभिलाष एव "प्रेर्यगतः प्रेरकत्वाद् विधिः, अनर्थिनः प्रवृत्त्यप्रतीते:, स हि शब्दमन्तरेणापि कचिदभिलषिते वस्तुनि अर्थिनं पुरुषं प्रवर्त्तयति इत्याचक्षते; 15 तेऽप्यसमीक्षितवाचः; अभिलाषस्य अव्यापकतया प्रवृत्त्यङ्गतानुपपत्तेः। तदव्यापकता च बालकप्रवृत्तौ तदसंभवात्सुप्रसिद्धा। तथाहि-कश्चिदाचार्यप्रेरितो बालकः कार्य किमपि कुर्वन् केनचित् प्रयोजनं पृष्टः सन्नुत्तरमाह-'न वेद्मि करणे अस्य किमपि प्रयोजनम् , केवलमाचार्यप्रेरितः करोमि' इति / ततः फलाभिलाषमन्तरेणापि पुरुषप्रवृत्तिप्रतीते: अव्यापकः सर्वप्रवर्त्तनानां फलाभिलाषः // छ / अन्ये तु 'कर्मैव अभिप्रेतार्थप्रसाधकत्वाद् विधिः' इति प्रतिपन्नाः; तन्मतमप्यसङ्गतम् ; कर्मणो विधिविषयतया विधिस्वभावत्वानुपपत्तेः / 'विधेविषयो हि कर्म 20 (1) फलं स्वर्गादि / (2) निष्पन्नेऽपि फले प्रवृत्तौ प्रवृत्त्यनुपरमः स्यात् / (3) पुत्रकामनया क्रियमाणे पुत्रेष्टियज्ञे न हि पुत्रः स्वर्गादिवत् विद्यमानोऽस्ति / (4) प्रवत्त्यविरामप्रसङ्गात् / (5) अथितारहितम्-आ० टि०। (6) साध्यतावच्छिन्नात् फलात् / (7) अविद्यमानफलस्य / (8) असत्त्वात् / (9) प्रेरकत्वे सत्त्वमेव स्यादिति भावः / (10) पुरुषनिष्ठः। (11) “अस्तु तहि कर्म प्रवर्तकम, अभिमतसाधनता तस्य प्रवर्तना, प्रवृत्तिहेतुरूपत्वात्, न; विषयत्वात्। तदेतद दषयति 'न' तस्य विषयत्वात्, प्रवृत्तिकर्तुः प्रयोजकः प्रवर्तकः / सिद्धश्च स भवति / तदिह सिद्धं चेत् कर्म प्रवृत्तेः प्राक् प्रवृत्तेः भावनाया विषयो न भाव्यम् / न जातु गगनमस्या भाव्यं भवितुमर्हति / विषयश्चेत् कर्म; असिद्धत्वात् कथं प्रवर्तकमित्यर्थः ।"-विधिवि०, टी० पृ० 35 / (12) न हि घटस्य ज्ञानविषयत्वे ज्ञानस्वभावता युक्ता-आ० टि०। 1 अथिनो-आ० / 2 अर्थिनमपि आ०। -येदविशे-श्र०, ब०।-मानस्य प्रेर-आ० / / विधिविष-श्र०, विधिविष-ब०।