________________ 560 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. प्रागमपरि० प्रवृत्तिः अतिप्रसङ्गात् / अथाऽभिप्रेतफलसाधनत्वात् कर्मण्येव प्रवृत्तेर्नातिप्रसङ्गः, न खलु प्रेक्षापूर्वकारिणः उपायं परित्यज्य अनुपायेऽसाधने वा साध्ये प्रवर्त्तन्ते; कथमेवं फलस्य प्रवर्तकता तत्साधनस्यैव तत्प्रसङ्गात् / ____नैनु नियतकर्मसाध्यतायाः फलसमवेतायाः प्रवृत्तिहेतुत्वात् फलस्य प्रवर्तकत्वम् , 5 नियते च उपायभूते कर्मणि प्रवृत्तिरविरुद्धा; ननु केयं तत्साध्यता-फलस्य स्वरूपम् , शक्तिभेदो वा ? यदि स्वरूपम् ; तदा तस्य॑ सर्वत्राविशेषात् नियतकर्मणीव अर्थान्तरेऽपि प्रवृत्तिः स्यात् / नहि तृप्तिः भुज्यपेक्षयैव तृप्तिर्भवति नाग्न्यपेक्षया इति, तृप्त्यर्थिना अग्नावपि प्रवर्त्तितव्यम् / शक्तिभेदोऽपि फलस्य स्वसत्त्वकाले, अभावकाले वा स्यात् ? तंत्राद्यविकल्पोऽयुक्तः; यतः प्रतिनियतादेव कर्मणः प्रतिनियतस्य फलस्योत्पत्त्यर्थं तच्छक्ति10 भेदः परिकल्प्यते। न चोत्पन्नस्य सम्बन्धिनी शक्तिः उत्पादनियमे समुपयुज्यते। न खलु उत्पन्नं शक्तिवशादुत्पद्यते विरोधात् / द्वितीयविकल्पोप्यसुन्दरः; नहि फलमविद्यमानं खपुष्पप्रख्यं साध्यताख्यशक्तिभेदाश्रयो भवितुमर्हति / तैर्दाश्रयत्वे वा तस्याऽसत्त्वविरोध:; असतः सकलशक्तिविरहलक्षणत्वात् / किञ्च, इदं फलं विद्यमानं संत् पुरुषं प्रेरयति, अविद्यमानं वा ? यदि विद्य (1) "तत्साधनत्वात् कर्मण्येव प्रवर्तते न सर्वत्र; तत एव तहि तत्साधनत्वं प्रवृत्तिहेतुः कर्मणि न फलरूपम् तच्च कर्मसमवायीति कर्म प्रवर्तकं स्यात् / चोदयति-तत्साधनत्वात् कर्मण्येव प्रवर्तते सर्वत्र सर्वेषां फलसाधनत्वाभावात् / परिहरति-तत एव तत्साधनत्वे सति प्रवृत्तिभावादेव / भवतु तर्हि तत्साधनत्वं प्रवृत्तिहेतुः कर्मणि, न फलरूपम् / भवतु को दोषः? इत्यत आह-ततश्च कर्मसम- वायि न फलसमवायीति कर्मैव प्रवर्तकं स्यात् ।"-विधिवि०, टी० पृ० 27-28 / (2) फलसाधनभूतस्य यागस्यैव प्रवर्तकत्वं स्यात्, यागस्य तत्साधनत्वे निश्चिते सत्येव प्रवृत्तिदर्शनात् / (3) “एवं तहि तत्साध्यता प्रवृत्तिहेतुः, सा च फलसमवायिनीति न दोषः ; तथाहि समभिलषितस्य तृप्त्यादेः कर्मविशेषेण साध्यत्वात्तत्रैव प्रवृत्तिः; का पुनरियं साध्यता ? यदि रूपं फलस्य; सर्वत्र प्रवृत्तिप्रसङ्गः / एतदुक्तं भवति-फलसमवायिन्यपि साध्यता साधनाधीननिरूपणतया साधनमपि गोचरयति न पुनरसाधनमपि तेनैव तस्माद्विशेषात् साधन एव प्रवर्त्तयति न तु सर्वत्रेति / तदेतद् दूषयति-का पुनरियं साध्यता ? यदि रूपं फलस्य; ततस्तस्य साधनाधीननिरूपणत्वाभावान्न साधने प्रवर्त्तयेत् प्रवर्तयेद्वा सर्वत्रैव अन्यत्वाविशेषात् ।"-विधिवि०, टी० पृ० 28 / (4) ज्योतिष्टोमादियागजन्यता हि स्वर्गादिफलसमवायिनी अतः वस्तुतः यागसाध्यतायाः प्रवृतिहेतुत्वे फलस्यैव प्रवर्तकत्वं फलितमिति भावः / (5) नियतकर्मसाध्यता। (6) फलभूतस्वर्गस्वरूपस्य। (7) ज्योतिष्टोमादिवत् (8) गोवधादौआ० टि० / (9) शक्तिविशेषः / (10) “कदा पुनरयं शक्तिभेद: साध्यताभिधान: ? फलस्य भावसमये न तावत्; वैयदिप्रवृत्तिहेतुत्वाच्च / न खलूत्पन्नस्योत्पादः यद्योगिनी शक्तिरर्थवती। नापि सिद्धे फले तत्साधने कश्चित्प्रवर्तते ।"-विधिवि० पृ० 29 / (11) उत्पन्नस्य उत्पत्तिविरोधात्, अनुत्पन्नस्यैव हि समुत्पादो दृश्यते। (12) "अभावकालेप्यसत् कथं शक्तिमत् खपुष्पवत्"विधिवि० पृ० 29 / (13) साध्यतारूपशक्तिविशेषाधारत्वे / (14) फलस्य / (15) शक्त्याधारत्वे सत्त्वमेव स्यादिति भावः / 1-साध्यतया प्रवृत्ति-श्र० / 2 तच्छक्ति-श्र० / 3 नहि भु-श्र० / 4 स्वसत्ताकाले श्र०, ब० / 6 साध्यताशक्ति-श्र०, ब०। 6 तदाश्रयसत्त्वे वा ब०। 7 तत् थ०। .