________________ प्रमाणप्र० का० 26 ] विधिवादः 586 षस्य सामान्यस्यैवाऽसंभवात् / यथैव हि खण्डादिविशेषशून्यं गोत्वादिं न संभवति, एवं परित्यक्तप्रैषादिविशेषं प्रवर्त्तनामात्रमपि / वेदस्य चाऽपौरुषेयत्वाभ्युपगमे पुरुषगताशयविशेषस्वभावानां प्रैषादिविशेषाणामसंभवात् का प्रवर्त्तनामात्रस्य संभावनापि ? ___यच्चोक्तम्-'प्रैषादीनां व्यभिचारात्' इत्यादि; तदर्युक्तम् ; यथासंभवं यथास्वरूपश्च प्रवर्तकत्वाभ्युपगमात् / यदा हि प्रेषणातः प्रवर्त्तते तदा तस्याः प्रवर्तकत्वम्, यदा / तु अध्येषणातस्तदा तस्या इति / नहि 'कदाचिदीर्घाः शुक्लादिस्वरूपास्तन्तवः पटस्य जनकाः कदाचित्तु ह्रस्वा रक्तादिस्वभावा वा' इत्येतावता तन्तुव्यतिरिक्तस्यान्यस्यैव कस्यचित्पटोत्पत्तिं प्रति उपादानकारणत्वं युक्तं प्रतीतिविरोधात् // छ / ___ अन्ये त्वाहुः-फलं प्रवर्तकम् , तद्व्यापारः प्रवर्त्तना। सर्वोऽपि हि प्रेक्षापूर्वकारी फलोद्देशेन प्रवर्त्तते, अतः फलस्य प्रवर्तकत्वम् / प्रीत्यात्मकता तस्य प्रवृत्तौ व्यापारः 10 स एव च प्रवर्त्तना विधिरिति; तदप्यसङ्गतम् ; फलस्य प्रवृत्तिहेतुत्वानुपपत्तेः / नहि अवगतमपि फलम् अर्थितां विना प्रवृत्तिहेतुः। सर्वस्य सर्वत्र प्रवृत्तिप्रसङ्गात् / अर्थिता च न फलस्य व्यापारः, किन्तु प्रेतिपत्तुरिच्छारूपतया तर्द्धमत्वात् / अर्थ फलस्य प्रीत्यात्मकत्वमन्तरेण इच्छाया एवानुत्पत्तेः तर्दुत्पादनद्वारेण फलधर्मस्य प्रीत्यास्मकत्वस्य प्रवृत्तिहेतुत्वम् ; नन्वेवमपि प्रीत्यात्मकत्वस्य फले एवाऽवस्थानात् तत्रैव 16 आत्मनः प्रवृत्तिः स्यात् न कर्मणि / अतोऽर्थान्तरत्वात्तस्यै / नान्यदभिलषितम् अन्यत्र . (1) पृ० 588 पं० 10 / (2) प्रेषणायाः विधित्वे अध्यषणायां विधित्वं न स्यात् अध्येषणाया विधित्वे च प्रेषणायां विधित्वाभावः इति परस्परं व्यभिचारः / प्रेषणादिषु प्रत्येकं शक्तिकल्पने गौरवमिति भावः। (3) जयन्तभद्रप्रभूतयः / “फलस्यैवेष्यमाणस्य पश्यन् प्रेरकता मतः।"तस्मात्पुंसः प्रवृत्तौ प्रभवति न विधिर्नापि शब्दो लिङादिः / व्यापारोप्येतदीयो न हि पटरभिधा भावनानामधेया॥ न श्रेयःसाधनत्वं विधिविषयगतं नापि रागादिरेवं / तेनाख्यत्काम्यमानं फलममलमतिः प्रेरकः सत्रकारः / / ... क्वचित्साक्षात्पदोपात्तं कचित्प्रकरणागतम् / क्वचिदालोचनालभ्यं फलं सर्वत्र गम्यते ॥"तस्मात्फलस्य साध्यत्वात् सर्वत्र तदवर्जनात् / क्रियादीनाञ्च तादात् तस्य वाक्यार्थतेष्यते ॥"प्राधान्ययोगादथवा फलस्य वाक्यार्थता तत्र सतां हि यत्नः। प्रयोजनं सूत्रकृता तदेव प्रवर्तकत्वेन किलोपदिष्टम् ॥"-न्यायमं० पृ०३६२-६५। (4) “यदि मन्येत फलं प्रवर्तकं तद्वयापारः प्रवर्त्तना, फलार्थिनः पुरुषस्य तत्साधने प्रवृत्तेः अन्यथाऽभावात् / न कश्चिद्वयापारविशेषः प्रवर्तना अपि तु प्रवृत्तिसमर्थ व्यापारमात्रं च प्रयोजकव्यापारः.भिक्षा वासयति कारीषोऽग्निरध्यापयतीति दर्शनात् ; तदसत्; अथिता व्यापृतिः पुंसो नियमः किन्निबन्धनः / फलसाधनता कर्मनिश्चेया साध्यता कदा ॥"-विधिवि० पृ० 26 / (5) आत्मन:आ० टि०। (6) पुरुषधर्मत्वात् / “फलार्थिता चेत् प्रवृत्तिहेतुः; सेच्छा तद्योगो वा इच्छासमवायो वा 'कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्याम्' इति वचनात् पुरुषधर्म इति न फलं व्यापृतिः / " -विधिवि० पू० 27 / (7) "अथ तदिच्छोपहारमुखेन फलस्य प्रवृत्तिहेतुर्धर्मः प्रीत्यात्मता फलव्यापारः प्रवर्तना: सापि तत्रैव न कर्मणि / फलव्यापाराच्च प्रवर्त्तमानः सर्वत्र प्रवर्तेत नियमनिमित्ताभावात।" -विधिवि० पृ० 27 / (8) इच्छोत्पादनमुखेन / (9) सूरि:-आ० टि० / (10) फले एव / (11) फलात्-आ० टि० / (12) कर्मणः-आ० टि० (13) फलम् / (14) कर्मणि यागादौ / 1 सामान्यस्यासंभ-श्र०।2-युक्तं यथास्व-ब०।