________________ 588 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. प्रागमपरि० न्यसापेक्षपदान्तरनिरपेक्षपदार्थसमुदायलक्षणत्वाद् वाक्यार्थस्य / तन्न नियोगोऽपि वाक्यार्थो घटते ॥छ॥ ___येऽपि प्रेषणांध्येषणाभ्यनुज्ञालक्षणः प्रयोक्तृधर्मः प्रवृत्तिहेतुत्वेन प्रसिद्धो विधि: इत्योमनन्ति; तेप्यतत्त्वज्ञाः; पुरुषसम्बन्धशून्येषु वेदवाक्येषु पुरुषधर्मतया प्रसिद्धानां 6 प्रेषणादीनाम् अत्यन्तासंभवतो विधित्वकल्पनानुपपत्तेः। तत्रै तेषों कल्पने वा पौरुषेयत्वानु षङ्गाद् अपौरुषेयत्वकल्पनानुपपत्तिरिति एकं सन्धित्सोरन्यत्प्रच्यवते / असत्कारपूर्विका हि व्यापारणा प्रेषणा उच्यते, सत्कारपूर्विका तु अध्येषणा, परेष्टस्य अप्रतिकूलवृत्तिरभ्यनुज्ञेति सर्वे एते प्रेषणादयः पुरुषगताशयविशेषस्वभावत्वाद् अपौरुषेयेषु वेदवाक्येषु न मनागपि सङ्गच्छन्ते इति // छ / अन्ये तु प्रैषादीनां प्रत्येकं व्यभिचारात् अनेकशक्तिकल्पनादोषाच्च सर्वत्राऽव्यभिचारिणः प्रवर्त्तनामात्रस्यैकस्य विधित्वमिति प्रतिपन्नाः; तेप्यसमीक्षिततत्त्वाः; निर्विशे (1) " तत्र विधिः प्रेरणम् भृत्यादेनिकृष्टस्य प्रवर्तनम् / निमन्त्रणं नियोगकरणम्, आवश्यके प्रेरणेत्यर्थः / आमन्त्रणं कामचारानुज्ञा। अधीष्ट: सत्कारपूर्वको व्यापारः।"-वैयाकरणभ० पृ० 142 / (2) नैयायिकाअपि। "विधिविधायकः। यद् वाक्यं विधायकं चोदकं स विधिः, विधिस्तु नियोगोऽनुज्ञा' वा। यथा अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादि ।"-न्यायभा० 2 / 1163 / "यद्वाक्यं विधत्ते इदं कुर्यादिति स नियोगः / अनुज्ञातुः यत्कर्तारमनुजानाति तदनुज्ञावाक्यम् ।"-न्यायवा० पृ० 269 / “विधिर्वक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः / अभिधेयोऽनुमेया तु कर्तुरिष्टाभ्युपायता // प्रवृत्त्यादी इत्यादिपदानिवृत्तिः, विषयसप्तमीयम्, तेन प्रवृत्तिनिवृत्तिविषयः आप्ताभिप्रायो लिङर्थ इत्यर्थः। प्रवर्तकमिष्टसाधनताज्ञानमेव लिङर्थस्त्वाप्ताभिप्रायो लाघवादिति भावः ।"-न्यायकुसु०, प्रका० 5 / 15 / (3) "अपौरुषेये प्रषादिधर्मो नावकल्पते / लोके हि प्रतीतः प्रेषणाध्येषणाभ्यनुज्ञालक्षणोऽभिप्रायातिशयः / प्रयोक्तधर्मो लिङर्थः, तस्यापौरुषेयेष वेदवाक्येष्वसंभवः / प्रतीते: संभव इति चेत; न; पौरुषेयत्वापत्तेः।"-विधिवि० पृ० 23 / “आज्ञादिस्तु न वेदार्थः पुंधर्मत्वेन युज्यते ।"-न्यायसु० पृ० 37 / (4) वेदे / (5) पुरुषाभिप्रायरूपाणां प्रैषादीनाम् / (6) द्रष्टव्यम्-पृ०५८० टि०४। (7) मीमांसकवैयाकरणादयः। "एतच्चतुष्टयानुगतप्रवर्तनात्वेन वाच्यता लाघवात् / उक्तञ्च-अस्ति प्रवर्तनारूपमनुस्यूतं चतुलपि / तत्रैव लिङ विधातव्यः किं भेदस्य विवक्षया / / न्यायव्युत्पादनार्थं वा प्रपञ्चार्थमथापि वा। विध्यादीनामुपादानं चतुर्णामादितः कृतमिति / प्रवर्तनात्वञ्च प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वम् / तच्चेष्टसाधनत्वस्यास्ति इति तदेव विध्यर्थः ।"-वैयाकरणभू० पृ० 145 / "तत्र च प्रैषादीनां विशेषाणां व्यभिचारित्वेन अवाच्यत्वात् सर्वानुयायिनः प्रवर्तनासामान्यस्य वाच्यत्वेऽवगते..."-न्यायसु० पृ० 30 / 'तत्र चावापोद्वापाम्यां प्रवर्तनायां विधिशक्तिमवधारयति / प्रवृत्त्यनुकुलो व्यापारः प्रवर्तना स च व्यापारः षादिरूपो विविध इति प्रत्येक व्यभिचारित्वाद्विधिशब्दवाच्यत्वानुपपत्ते प्रवर्तनासामा. न्यमेव विधिशब्दवाच्यमिति कल्पयति ।"-मीमांसान्याय०पू० 180 / (8) 'न च प्रवर्तनामात्रमविशेषमकर्तृकम् / यदपि मतम्-अनेकसामर्थ्यपरिकल्पनादोषाद् व्यभिचाराच्च प्रैषादीनामवाच्यत्वादव्यभिचारात्प्रवर्तनामात्रं लोके लिङाद्यर्थः तस्य वेदेप्युपपत्तिरिति; इदमप्यचतुरस्रम्; निर्विशेषसामान्यायोगात्, अकर्तृकत्वे व्यापारानुपपत्तेश्च / न तावत् प्रैषादयो विशेषाः सम्भविनः / नाप्यन्यो विशेषः कश्चिदुपदर्श्यते / तदुपदर्शने वा सामान्यस्याभिधानमस्मिन्नवसरे व्यर्थम् / तदेतदपास्तसकलभेदं प्रवर्तनासामान्यं ब्राह्मण्यमिव समुज्झितकठादिभेदं स्यात् / प्रवर्तना च प्रवर्तयितुर्व्यापारः, स तमन्तरेण नातिविराजते, पुरुषस्याभावात् शब्दस्य च प्रवर्तकत्वनिषेधात् प्रवर्त्तयितुरभावः ।"-विधिवि० पृ.० 25-26 / 1-लक्षणप्रयो-आ० / 2-प्रेषणादीनां श्र० /