________________ प्रमाणप्र० का० 26] नियोगवादः 587 सौगतमतानुसरणप्रसङ्गः। अथ तत्काले सोऽस्ति; एवमपि न नियोगो वाक्यार्थः, तस्य यागादिनिष्पादनार्थत्वात् / न चानयोस्तादात्म्ये स्वात्मैव स्वात्मनो निष्पादको युक्तो विरोधात्, निष्पन्नस्य यागादेः पुरुषादिवन्निष्पादनविरोधाच्च / अंथ तस्य किश्चिदनिष्पन्नं रूपमस्ति तन्निष्पादनार्थी नियोगः; तर्हि तत्स्वभावो नियोगोप्यनिष्पन्न इति कथं वाक्यार्थः ? कल्पनारूढस्य वाक्यार्थत्वे स एव सौगतमतानुप्रवेशः। फलस्वभावो / नियोगः; इत्यप्ययुक्तम् ; नहि स्वर्गादिफलं नियोगो घटते फलान्तरपरिकल्पनप्रसङ्गात्, निष्फलस्य नियोगस्यानुपपत्तेः / फलान्तरस्य च फलस्वभावनियोगवादिनां नियोगत्वापत्तौ तदन्यफलकल्पने अनवस्थाप्रसङ्गः। फलस्य च वाक्यकालेऽसन्निहितत्वात् तत्स्वभावो नियोगोऽप्यसन्निहित एवेति कथं वाक्यार्थः ? बुद्ध्यारूढस्य वाक्यार्थत्वे परमतप्रवेशप्रसङ्गः / 'निःस्वभावो नियोगः' इत्यप्यनेन प्रत्युक्तम् ; निःस्वभावस्यास्य अन्यापोह- 10 त्वानतिक्रमात् / ___किञ्च, अयं नियोगः प्रवर्तकस्वभावः, अप्रवर्तकस्वभावो वा ? प्रथमपंक्षे प्रभाकरवत् ताथागतादीनामपि प्रवर्तकः स्यात् तस्य संवथा प्रवर्तकस्वभावत्वात् / तेषां' विपर्यासादप्रवर्तकः इति चेत् ; न; भवतामपि विपर्यासात् प्रवर्तकः' इत्यपि वक्तुं सुशक. त्वात् / अथाप्रवर्तकस्वभावोऽसौ; तर्हि सिद्धस्तस्य प्रवृत्तिहेतुत्वाभावः, स च वाक्यार्थ- 15 त्वाभावं साधयति / न च अग्निष्टोमादिवाक्ये विषयादिपदार्थवाचकपदव्यतिरेकेण विषयफलयोः मध्यवर्तिनः तटस्थस्य वा नियोगस्य वाचकं किञ्चित्पदमस्ति, यतः सोपि विषयादिवत् पदार्थतां प्रतिपद्येत / न चापदार्थो वाक्यार्थो भवितुमर्हति; अन्यो (1) वाक्यप्रयोगकाले। तुलना-"अथ तद्वाक्यकाले विद्यमानोऽसौ; तर्हि न नियोगो वाक्यस्यार्थः, तस्य यागादिनिष्पादनार्थत्वात्, निष्पन्नस्य च यागादेः पुननिष्पादनायोगात् ।"-अष्टसह० पृ० 8 / (2) नियोगस्य। (3) विषयनियोगयोः-आ० टि०। (4) यागादेः / (5) तुलना-"द्वितीयपक्षेऽपि नासौ नियोगः, फलस्य भाव (भावि) त्वेन नियोगत्वाघटनात्, तदा असन्निधानाच्च / तस्य वाक्यार्थत्वे निरालम्बनशब्दवादाश्रयणात् कुतः प्रभाकरमतसिद्धिः ?"-तत्त्वार्थश्लो० पृ० 262 / अष्टसह. पृ०८ / (6) सुगतमत। (7) "स हि प्रवर्तकस्वभावो वा स्यादतत्स्वभावो वा ?"-तत्त्वार्थश्लो. पृ० 264 / अष्टसह पृ० 8 / (8) तुलना-"नियुक्तेन निवृत्तिश्चेत् (?) सर्वस्यातः प्रसज्यते / तत्स्वभावतया काशमनाकाशं न कस्यचित् // स्वभावोऽपि विपर्यासादन्यथा यदि गम्यते। विपर्यासाविपर्यासव्यवस्थां कः करिष्यति ॥"-प्रमाणवातिकालं०१०१५। (9) नियोगस्य। (10) सौगतादीनाम् / तुलना-"तेषां विपर्यासादप्रवर्तक इति चेत; परेषामपि विपर्यासात् प्रवर्तकोऽस्तु / शक्यं हि वक्तुम्-प्राभाकरा विपर्यस्तत्वात् शब्दनियोगात् प्रवर्तन्ते नेतरे, तेषामविपर्यस्तत्वादिति / सौगतादयो विपर्यस्ताः तन्मतस्य प्रमाणबाधितत्वात् न पुनः प्राभाकराः इत्यपि पक्षपातमात्रम्; तन्मतस्यापि प्रमाणबाधितत्वाविशेषात्।"-अष्टसह०पू०९ / तत्त्वार्थश्लो० 10264 / (11) प्राभाकराणामपि / (12) तुलना-"पदार्थ एव वाक्यार्थो न च सोऽनन्यगोचरः। तत्र पदार्थस्यैव पदार्थान्तरोपकल्पितविशेषस्य वाक्यार्थत्वादपदार्थत्वे तदनुपपत्तिः ।"-विधिवि० पृ० 49 / 1-तानुसारेण प्र-आ०, ब० / 2 अथ कि-श्र० / 3 इत्यप्यतेन ब०,०। 4 तथागता-श्र०। 5-स्वभावात् आ० / 6 इति वक्तुं आ०, श्र०।