________________ 584 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. आगमपरि० भोग्यरूपस्तु नियोगः फलस्वभावविधिनिरासेनैव निरस्तः / पुरुषस्वभावत्वे तु नियोगस्य शाश्वतिकत्वप्रसङ्गः तस्य शाश्वतिकत्वात् / किञ्च, किमयं नियुङ्क्ते इति नियोगः, किं वा नियुक्तिः, नियुज्यतेऽनेन इति वा ? तत्र प्रथमपक्षोऽनुपपन्नः; नियुक्तिक्रियायां कर्तृत्वस्य प्रेक्षावद्धर्मतया कार्यादिस्वभावे 6 नियोगे संभवाभावात् / नहि 'अमुष्मै प्रयोजनाय अमुमहं नियोक्ष्ये' इति यस्य नास्ति परामर्शः तस्य नियोक्तृतोपपन्ना, स्वाम्यादौ तत्परार्शवत्येव अस्याः प्रतीतेः / सेलिलसमीरणन्यायेन नियोक्तृत्वे च प्रागुक्तदोषानुषङ्गः / नहि नियोक्तृमात्रसद्भावतः कश्चित् प्रवर्त्तते, यावत् तदनुविधेयतामात्मनो न प्रतिपद्येत / 'नियुक्तिर्नियोगः नियु ज्यतेऽनेनेति वा' इत्यप्यनुपपन्नम् ; भावकरणयोः कर्तृकर्मापेक्षत्वात् , तयोश्चासंभवे भाव10 करणयोरप्यसंभवात् / न ह्यत्र कश्चिन्नियोक्ता विद्यते / शब्दस्य च नियोक्तृत्वं प्रागेव प्रतिषिद्धम् / किश्च, अयं नियोगः शब्दव्यापाररूपः, पुरुषव्यापाररूपः, उभयरूपः, अनुभयरूपो वा ? प्रथमपक्षे शब्दभावनापक्षनिक्षिप्तदोषानुषङ्गः, शब्दव्यापारस्य शब्दभाव नारूपत्वात् / द्वितीयपक्षे तु अर्थभावनापक्षोक्तदूषणप्रसङ्गः पुरुषव्यापारस्य अर्थ15 भावनास्वभावत्वात् / उभयपक्षेऽपि उभयपक्षोपक्षिप्तदोषानुषङ्गः / अनुभयपक्षेप्यसौ विषयस्वभावः, फलस्वभावः, नि:स्वभावो वा स्यात् ? यदि विषयस्वभावः; तदाऽसौ यागादिविषयः “अग्निष्टोमेन यजेत स्वर्गकामः'[ ] इत्यादिनियोक्तृवाक्यकाले अस्ति, न वा ? यदि नास्ति; तदा तत्स्वभावो नियोगोऽपि नास्तीति कथमसौ खपुष्पवद् वाक्यार्थः स्यात् ? बुद्ध्यारूढस्य भौविनस्तस्य वाक्यार्थत्वे सर्वस्य साध्यत्वेनास्वरूपता। तदेव तस्य रूपञ्चेत् साध्यत्वस्य हानितः ॥"-प्रमाणवातिकालं. पृ० 34 / “तदपि न परमात्मवादप्रतिकूलम्; पुरुषाभिमानमात्रस्य नियोगत्ववचनात्तस्य च अविद्योदयनिबन्धनत्वात्।"-अष्टसह०प०१०। तत्त्वार्थश्लो०पू०२६६ / / (1) नियोक्तृतायाः / (2) यथाहि समीरणः अभिप्रायशून्योऽपि सलिलं समीरयति तथैव अभिप्रायरहितस्यापि नियोक्तृता स्यादित्युक्ते प्राह / (3) प्रायश्चित्तवैयर्थ्यादि-आ० टि०। (4) तुलना-"अपि च नियोक्तृव्यापारो नियोगो न नियोक्तुविनाऽवकल्पते / न चास्य संभवः; अपौरुषेयत्वाभ्युपगमात् ।"-विधिवि०पू०६०। (5) तुलना-"सर्वत्र च वाक्यार्थे अष्ट प्रकारो भेद:-प्रमाणं किं नियोगः स्यात् प्रमेयमथवा पुनः / उभयेन विहीनो वा द्वयरूपोऽथवा पुनः / / शब्दव्यापाररूपो वा व्यापारः पुरुषस्य वा। द्वयव्यापाररूपो वा द्वयाव्यापार एव वा।"-प्रमाणवातिकालं० 1031 / तत्त्वार्थश्लो० पृ० 262 / अष्टसह० पृ०१०। (6) तुलना-"नियुज्यमानविषयनियोक्तृणां यदीष्यते। धर्मो नियोगः सर्वत्र न शब्दार्थोऽवतिष्ठते // नियोज्यधर्मभावे हि तस्यानुष्ठेयता कुतः। सिद्धोऽपि यद्यनुष्ठेयो नानुष्ठाविरतिर्भवेत् ॥"-प्रमाणवातिकालं० पृ० 16 / 'सोऽपि विषयस्वभावो वा स्यात्, फलस्वभावो वा, निःस्वभावो वा ?"-अष्टसह० पृ०८। तत्वार्थश्लो० पृ० 262 / (7) तुलना-"विषयधर्मतायामपि विषयस्यापरिनिष्पत्तेः स्वरूपाभावात् कथं शब्दादसौ प्रत्येतुं शक्यः ?"-प्रमाणव.तिकालं. पृ० 17 / अष्टसह पृ० 8 / (8) विषयस्वभावः। (9) भविष्यतो यागादेविषयस्य / _ 1 नियोक्तृतानुपपन्ना श्र०। 2-पद्येत् आ० / 3-तिचेत्य-श्र०, -ति इत्य-आ० / - 4-दूषणगण प्र-ब015 उभयदोषानुषंगः ब०, श्र० /