________________ प्रमाणप्र० का० 26 ] नियोगवादः 585 तदप्यविचारितरमणीयम् ; यतो नियोज्यप्रेरणानिरपेक्षस्य कार्यस्य नियोगरूपंतोपगम्यते, तत्सापेक्षस्य वा ? तत्राद्यविकल्पोऽनुपपन्नः; तन्निरपेक्षस्य कार्यमात्रस्य अप्रवृत्तिहेतुतया नियोगत्वानुपपत्तेः / तत्सापेक्षस्य तु नियोगत्वे कथं कार्यस्यैव नियोगरूपता ? त्रितयस्यापि प्रवृत्तिहेतुतया तंद्रूपताप्रसङ्गात् / 'प्रेरणा नियोगः' इत्यप्यनेनापास्तम् ; नियोज्यादिनिरपेक्षायाः प्रेरणायाः प्रलापमात्रतया नियोगरूपतानुपपत्तेः / / प्रेरणासहितं कार्य नियोगः; इत्यप्ययुक्तम् ; नियोज्याभावे नियोगस्यैवानुपपत्तेः / कार्यसहिता प्रेरणा नियोगः इत्यप्यनेन निरस्तम् / कार्यस्यैवोपचारतः प्रवर्तकत्वं नियोगः; इत्यप्यसारम् ; नियोज्यादिनिरपेक्षस्यास्य प्रवर्तकत्वोपचारायोगात् / कार्यप्रेरणयोः सम्बन्धोऽपि सम्बन्धिभ्योऽर्थान्तरभूतः सन् , अनर्थान्तरभूतो वा नियोगरूपतां प्रतिपद्यते ? न तावदर्थान्तरभूतः; तथाभूतस्य सम्बन्धस्यैवाऽसंभवतो नियोगरूपतानुपपत्तेः। 10 सम्बन्ध्यात्मनोऽपि सम्बन्धस्य प्रेर्यमाणपुरुषनिरपेक्षस्य नियोगरूपतानुपपत्तिरेव / समुदायनियोगवादोऽप्यनेनैव प्रतिव्यूढः / कार्यप्रेरणाविनिर्मुक्तस्तु नियोगो ब्रह्माद्वैतमवलम्बते, तच्च प्रागेवं कृतोत्तरम् / यत्पुनः 'स्वर्गकामः पुरुषोऽग्निहोत्रादिवाक्यनियोगे सति यागलक्षणं विषयमारूढमात्मानं मन्यमानः प्रवर्त्तते' इति यन्त्रारूढनियोगाभिधानम् ; तदप्यचारु ; अपौरुषेयवाक्ये नियोक्तृत्वस्य निराकृतत्वान्निराकरिष्यमाणत्वाच्च / 15 (1) नियोज्यं प्रेरणाञ्चानपेक्षमाणस्य-आ० टि० / तुलना-"प्रेरणारहितं कार्य नियोज्येन निवजितम् / नियोगो नैव कस्यापि नियोग इति कीर्त्यते॥ वृत्तिनियोगशब्दस्य शुद्धे कार्ये यदा मता। .' 'संज्ञामात्रान्नियोगत्वं भवत्केन निवार्यते // युक्तस्तु पुरुषः कार्ये यत्र नैव प्रतीयते // नियोगः स कथ नाम सिद्धातीतादिबोधवत् // नियोजकस्य धर्मोऽयं नियोगो लोकसम्मतः / तदेव कार्यमिति चेत; सिद्धत्वान्नास्य साध्यता॥ साध्यत्वेन नियोगोऽयमिति चेद्वयपदिश्यते। विषये तस्य तत्त्वेनोपचारात् प्रकीर्तनम / असिद्धस्य च तस्यास्तु कथं प्रेरकरूपता // साध्यत्वेनावबोधोऽस्य प्रेरकत्वं यदीष्यते / अप्रसिद्धस्य साध्यत्वं बोधः सिद्धात्मकस्य च // परस्परविरुद्धत्वमेकस्य कथमिष्यते / साध्यरूपतया तस्य प्रतीतिः प्रेरिका यदि / नियोगत्वं प्रतीतेः स्यान्न नियोगस्य तत्त्वतः ॥"-प्रमाणवातिकालं० पृ० 3233 / "प्रेरणानियोज्यवजितस्य नियोगस्यासंभवात् / तस्मिन्नियोगकरणे स्वकम्बलस्य कूर्दालिकेति नामान्तरकरणमात्रं स्यात् ।"-तत्त्वार्थश्लो० पृ० 265 / अष्टसह० पृ० 9 / (2) नियोज्यप्रेरणाकार्यरूपस्य-आ० टि०। (3) नियोगरूपता-आ० टि०। (4) "नियोज्यफलरहितायाः प्रेरणायाः प्रलापमात्रत्वात् ।"-तत्वार्थश्लो० पु० 265 / अष्टसह०१०१०। (5) "नियोज्यविरहे नियोगविरोधात् ।"-अष्टसह० पृ०१०। तत्त्वार्थश्लो० पृ० 266 / (6) अत्रापि नियोज्याभावात्-आ० दि० / (7) "नियोज्यादिनिरपेक्षस्य कार्यस्य प्रवर्तकत्वोपचारायोगात, कदाचित् क्वचित् परमार्थतस्तस्य तथानुपलम्भात् ।"-तत्त्वार्थश्लो० पृ० 266 / अष्टसह० पृ० 10 / (8) "ततो भिन्नस्य सम्बन्धस्य सम्बन्धिनिरपेक्षस्य नियोगत्वाघटनात् / सम्बन्ध्यात्मन सम्बन्धस्य नियोगत्वमित्यपि दुरन्वयम् ; प्रेर्यमाणपुरुषनिरपेक्षयोः सम्बन्ध्यात्मनोरपि कार्यप्ररणयोनियोगत्वानुपपत्तेः ।"-अष्टसह० पृ० 10 / तत्त्वार्थश्लो० पृ० 266 / (9) सम्बन्धिभ्यां भिन्नस्य। (10) पृ० 150 / (11) तुलना-"यन्त्रारूढतया भोग्यभोक्त्रोः सम्बन्ध उच्यते / न सम्बन्धोऽस्ति भोग्यात्मा रूढश्च न नरस्तदा // प्रतीतिकाले 1-नः निरपे-ब० / 2 नियोज्यनिर-आ० / 24