________________ 584 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. प्रागमपरि० कार्यस्यैव उपचारतः प्रवर्तकत्वं नियोगः इत्यपरे / "प्रेरणाविषयः कार्य नै च तत्प्रेरकं स्वतः / ___ व्यापारस्तु प्रमाणस्य प्रमेय उपचर्यते // " [प्रमाणवातिकालं० पृ० 30 ] कार्यप्रेरणयोः सम्बन्धो नियोगः इत्यन्ये / "प्रेरणा हि विना कार्य प्रेरिका नैव कस्यचित् / कोर्य वा प्रेरणायोगः नियोगैस्तेन सम्मतः॥" [प्रमाणवातिकालं० पृ०३०] तत्समुदायो नियोगः इत्येके। "परस्पराविनाभूतं द्वयमेतत् प्रतीयते / नियोगः समुदायोऽस्मात् कार्यप्रेरणणयोयोर्मतः॥' [प्रमाणवातिकालं पृ० 30] 10 तदुभयस्वभावविनिमुक्तः परमात्मस्वभावो नियोग इति केचित् / "सिद्धमेकं यतो ब्रौं गतमाम्नायतः सदा / सिद्धत्वेन न तत्कार्य प्रेरकं कुत एव तत् // ' [प्रमाणवातिकालं० पृ० 30] - यन्त्रारूढो नियोग इत्यपरे / "कामी यत्रैव यः कश्चिनियोगे सति तत्र सः। विषयारूढमात्मानं मन्यमानः प्रवर्त्तते // " [प्रमाणवातिकालं० पृ० 30 ] भोग्यरूपो नियोगः इत्यपरे। "ममेदं भोग्यमित्येवं भोग्यरूपं प्रतीयते / ममत्वेन च विज्ञानं भोक्तर्येव व्यवस्थितम् // स्वामित्वेनाभिमानो हि भोक्तुर्यत्र भवेदयम् / भोग्यं तदेव विज्ञेयं तदेव स्वं निरुच्यते // साध्यरूपतया येन ममेदमिति गम्यते / तत्प्रसाध्येन रूपेण भोग्यं स्वं व्यपदिश्यते // सिद्धरूपं हि यद् भोग्यं न नियोगः स तावता / साध्यत्वेनेह भोग्यस्य प्रेरकत्वान्नियोगती // " [प्रमाणवातिकालं० पृ० 30 / ] पुरुष एव नियोग इति चापरे। "ममेदं कार्यमित्येवं मन्यते पुरुषः सदा / पुंसः कार्यविशिष्टत्वं नियोगोऽस्य च वाच्यता // "[ प्रमाणवातिकालं० पृ० 30 / ] इति / (1) प्रवर्तकत्वम् आ० टि०। (2) 'कार्यप्रेरणयोः योगः'-तत्त्वार्थश्लो० / (3) विनियो ज्यत्वम्-आ० टि०। (4) ज्ञानम्-आ० टि० / (5) ज्ञातम्-आ० टि०। (6) "यन्त्रारूढो दृष्टान्ततया यत्र स यन्त्रारूढो विषयारूढत्वाभिमानो नियोग इत्यर्थः / यजेत् स्वर्गकाम इत्यतो यागारूढत्वाभिमानवान् स्वर्गकाम इति बोधः ।"-अष्टसह यशो० पृ० 46 B. / (7) स्वस्वामिभावो ज्ञाषितः -आ० टि। 'स्वं निरूप्यते'-प्रमाणवातिकालं० / (8) 'नियोगः स्यादबाधितः'-तत्त्वार्थश्लो० / "कार्यस्य सिद्धौ जातायां तद्युक्तः पुरुषः सदा / भवेत्साधित इत्येवं पुमान् वाक्यार्थ उक्यते ॥"-प्रमाणवातिकालं० पू० 30 / अष्टसह० पू०६। तत्त्वार्थश्लो० पृ० 262 / 1 न तावत्प्रे-ब०, नतत्प्रे-श्र० / 2-विनिर्मुक्तपरमा-आ० / 3 इत्यन्ये श्र०, ब० / 4 तदेवं स्वं आ० / / निरुध्यते आ० ब०। 6-ता इति पुरुष श्र०। 7 नियोग्यस्य श्र० /