________________ 582 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. श्रागमपरि० यते-एका परवशस्य, अन्या तु प्रेक्षापूर्वकारिणः / तत्राद्यपक्षे हठाद् यागादिकर्मणि बौद्धादेरपि प्रवृत्तिः शब्देन क्रियतां पुरुषस्वातन्त्र्याभावात् / न खलु बलवज्जलप्रभञ्जनप्रेरितस्य स्वातन्त्र्याभावे हठात्प्रवृत्तिर्न दृष्टा 'अनिच्छन्नप्यहं प्रभञ्जनादिना प्रेरित: प्रवर्ते' इति प्रतीतेः / द्वितीयपक्षे तु 'येनाहं शब्देन प्रवर्तितः स किं प्रवर्त्तनायोग्यो न वा' इति यावन्न प्रेक्षापूर्वकारी विमृशति तावन्न प्रवृत्तिं विदधाति। नहि 'शब्देनाहं प्रवर्त्तितः' इति 'अवश्यं प्रवः' इत्यसौ शब्दमात्रे समाश्वसिति तत्कारित्वविरोधानुषङ्गात् / अतोऽपौरुषेयात् काकवासितप्रख्यात शब्दात् कथं कस्यचित् प्रवृत्तिः स्यात् ? पौरुषेयस्यैव शब्दस्य प्रवर्तनायोग्यत्वोपपत्तेः / तत्प्रणेतुः कुतश्चिदाप्ततामवसाय प्रेक्षापूर्वकारिणः सद्वैद्याद्युपदे शादिव निःशङ्कं प्रवृत्तिसंभवात् / तस्मादपौरुषेयत्वे शब्दस्य पुरुषप्रवृत्तेरनङ्गत्वान्न 10 'शब्दस्य भावना-प्रवर्तकत्वं शब्दभावना' इति पक्षो घटते / अथ शब्द एव भावना; तदप्यसाम्प्रतम् ; शब्दस्वरूपमात्रस्य भावनास्वभावत्वे घटादिशब्देष्वपि भावनाप्रसङ्गात् तन्मात्रस्य अत्राप्यविशिष्टत्वात् / तथा च “लिङ्लोट्तव्यप्रत्ययप्रत्याय्यो विधिः / " [ ] इति वचो विरुध्यते / तदेवं शब्दभावनास्वरूपस्य विचार्यमाणस्याऽव्यवस्थितेः कथं तया अर्थभावना भाव्येत ? यतो 'भाव्यनिष्ठो भावकव्यापारो भावना' इति सुव्यवस्थितं स्यात् / द्वैविध्योपवर्णनश्वास्याः खपुष्पसौरभव्यावर्णनान्न विशिष्यते / तन्न भावनारूपोऽपि विधिर्घटते // छ / ____ अपरे पुनः नियोग एव प्रवृत्तिहेतुत्वाद् विधिः इत्याचक्षते / तत्र चानेकधा (1) प्रेक्षापूर्वकारी। (2) अन्यथा-शब्दमात्रे समाश्वासे प्रेक्षापूर्वकारित्वविरोधात् / (3) “अथ मतम्-अभिधव भावना विधिलिङाद्यर्थ इति; अत्रोच्यते-प्रवृत्तेः सर्वतोऽर्थे वा प्रसङ्गात् कार्यतो गतेः / अस्थानानियते]तोरभावाच्चाभिधव न / / विधिरित्यनुषज्यते / अभिधा चेद्विधिः सर्वशब्दानां यथास्वमभिधेयेषु तद्भाव इति घटादिशब्देभ्योऽपि प्रवृत्तिप्रसङ्गः अस्याविशेषात् ।"-विधिवि० पृ० 21 / (4) शब्दस्वरूपमात्रस्य। (5) "लिङलोट्तव्यपञ्चमलकाराणां विधिर्वाच्यः ।"-न्यायसु० पृ० 560 / “लिङकृत्लोट्तव्यप्रत्ययमात्रगता शब्दभावना"-जैमिनिन्या० पृ० 75 / (6) शब्दभावनया / (7) तुलना-"यत्तावदुक्तं शब्दव्यापारः शब्दभावनेति; तत्र शब्दात्तद्व्यापारोऽनर्थान्तरभूतोऽर्थान्तरभूतो वा ?-अष्टसह० पृ० 31 / तत्त्वार्थश्लो० पृ० 262 / “या तु शब्दभावनैव लिङाद्यर्थ इति कौमारिलकुसूतिः सा तु प्रतीतिविसंवादादिप्रतिहता। न हि विधिवाक्यश्राविपुरुषो लिङादिस्वव्यापारमभिधत्ते अतो मया प्रवर्तितव्यमिति मन्यते..."-न्यायपरि० पृ० 398 / तन्त्ररह० पृ० 48 / "तस्माल्लिङादिजन्यबोधविषयाऽभिधायां इष्टसाधनत्वादिज्ञाननिरपेक्षायाः प्रवर्तकत्वं नियुक्तिकमेव।", -वैयाकरणभू० द.पृ० 157 / (8) प्रभाकरमतानुयायिनः / (9) तुलना-"कोऽयं नियोगो नाम ? निशब्दो निःशेषार्थः योगार्थो यक्तिः निरवशेषो योगः नियोगः। निरवशेषत्वम् अयोगस्य मनागप्यभावात्, अवश्यकर्तव्यता हि नियोगः / नियोगप्रामाणिका हि नियोगप्रतिपत्तिमात्रतः प्रवर्तन्ते / " -प्रमाणवातिकालं. पृ० 14 / "नियुक्तोऽहमनेन वाक्यनेति निरवशेषो योगः नियोगः, तत्र मनागप्ययोगाशंकायाः संभवाभावात् ।"-तत्त्वार्थश्लो० पृ० 261 / अष्टसह पृ० 5 / "यदपि दर्शनम्प्रमाणान्तरागोचरः शब्दमात्रालम्बनो नियुक्तोऽस्मीति प्रत्यात्मवेदनीयः सुखादिवत् अपरामृष्टकालत्रयो . 1 ततः पौर-ब०। 2-रूपापि श्रे०, -रूपोविधि-ब०। 15