________________ 581 प्रमाणप्र० का० 26] भावनावादः किञ्च, अस्याः सद्भावे प्रमाणम् लिङादिश्रवणानन्तरभाविनी प्रवृत्तिः, लिङादिशब्द एव वा ? न तावत्प्रवृत्तिः; तेस्यास्तन्निबन्धनत्वेन कचिदन्यत्राऽदृष्टत्वात् / यन्निबन्धना हि प्रवृत्तिर्लोके दृष्टा तदेव तां दृष्ट्वाऽनुमातुं युक्तम् , न पुनः अप्रतिपन्नपूर्वः शब्दव्यापारविशेषः अप्रामाणिकत्वप्रसङ्गात् / नापि लिडादिशब्द एव तत्र प्रमाणम् ; अगृहीतसम्बन्धस्य शब्दस्य अवाचकत्वात् / तदग्रहश्च तद्व्यापारविशेषलक्षणस्य / सम्बन्धिनोऽनवधारणात् सिद्धः / नहि अनवधारिते सम्बन्धिनि सम्वन्धबोधः संभवति; अतिप्रसङ्गात् / किश्न, शब्दः स्वव्यापार विधिज्ञानसव्यपेक्षो जनयति, अनपेक्षो वा ? न तावदनपेक्षः; विधिज्ञानस्य पुरुषप्रेरणायां करणत्वाभ्युपगमात् / अथ शब्दो विधिज्ञानं जनयित्वा तत्करणानुगृहीतस्तत्प्रेरणारूपं स्वव्यापारमारभते; तदिदमलौकिकम् ; न हि 10 कस्यचिद्वस्तुनः स्वज्ञानम् उत्पादहेतुः लोके प्रतीतम् / यदि च शब्दः स्वव्यापारं करोति अभिधत्ते च; तदा उत्पाद्य पश्चात्तमभिधत्ते, युगपद्वा उत्पादयति अभिधत्ते च ? तत्र प्रथमपक्षोऽनुपपन्नः; न खलु शब्द: स्वव्यापारमुत्पाद्य पश्चात्तमभिदधातीति श्राद्धिकादन्यः प्रतिपद्यते / द्वितीयपक्षोऽप्यप्रातीतिकः; नहि 'सकृदुच्चरितः शब्दः स्वव्यापारस्य कर्ता वक्ता च भवति' इति प्रामाणिकः प्रतिपद्यते। सिद्धे हि वस्तुनि प्रतिबन्धावगमपूर्विका 15 वचनस्य प्रवृत्तिः प्रतीयते / ननु लिङादिशब्दश्रवणानन्तरं प्रवृत्त्याख्यकार्यस्य प्रवर्त्तितोऽहमिति प्रतिपत्तितः प्रतीतेः कथं तत्र तत्कर्तृत्वाप्रतिपत्तिरिति चेत् ? तदयुक्तम् ; यतो द्विविधा प्रवृत्तिः प्रती (1) शब्दभावनायाः। (2) प्रवृत्तेः। “लिङादिशब्दानन्तरभाविनी प्रवृत्तिरेव प्रमाणमिति चेन्न; तन्निबन्धनत्वेन प्रवृत्तेरन्यत्रादृष्टत्वात् / त (य) निबन्धना हि प्रवृत्तिर्दृष्टा तदेव तां दृष्ट्वा शक्यमनुमातुम्, न पुनरप्रतिपन्नपूर्वकरणभावं शब्दव्यापारविशेषः ।"-वाक्यार्थमा० पृ० 27 / (3) शब्दभावना-आ० टि०। (4) शब्दभावनाख्यः-आ० टि०। (5) “लिङादिशब्द एव प्रमाणमिति साहसम् ; अगृहीतसम्बन्धस्य शब्दस्यावाचकत्वात् / अनवधारिते हि सम्बन्धिनि सम्बन्धबोधवैधुर्यात्।" -प्रक० 50 10 172 / (6) सम्बन्धाग्रहणम् / (7) पुरुषप्रवृत्तिरूपम् / (8) "स्यान्मतं शब्दो विधिज्ञानं जनयित्वा तत्करणानुगृहीतः प्रेरणारूपं स्वव्यापारमारभत इति न करणत्वाभावः क्रियानिपत्तावेव करणत्वात् ; तदिदमलौकिकम् ; न हि कस्यचिद्वस्तुनः स्वज्ञानमुत्पादहेतुः प्रतीतम् ।"-प्रक० 1050 173 / (9) विधिज्ञानरूपकरण / (10) पुरुषप्रेरणा / (11) तुलना-"यश्चासौ व्यापार: क्रियते चाभिधीयते च; स किं पूर्वमभिधीयते ततः क्रियते, पूर्व वा क्रियते पश्चादभिधीयते, युगपदेव वा अस्य करणाभिधाने इति / न तावत्पूर्वमभिधीयते ; अनुत्पन्नस्य अभिधानानुपपत्तेः, न ह्यजाते पुत्रे नामधेयकरणम्, अर्थासंस्पर्शी च शब्द: स्यात् / तत एव न युगपदुभयम् ; अनुत्पन्नत्वानपायात् प्रयत्नगौरवप्रसङ्गाच्च / नापि कृत्वा अभिधानम् ; विरम्य व्यापारासंवेदनात्।"-न्यायमं० पृ०३४५ / (12) वाच्यवाचकसम्बन्ध / (13) शब्दे / (14) प्रवृत्ति-आ० टि० / 1 अस्य सद्भा-ब०12-नुमानं यु-ब० // 3 पुनः प्रतिप-थ०। 4-शब्दस्तत्र ब०, -शब्दास्तत्र श्र० / / शब्दो व्यापा-श्र०। 6 कारणत्वा-ब०।। तत्कारणान-ब०। 8-रणरूपं०। 9 मशब: ब०। 10-स्वाप्रतीतिरि-श्र०।