________________ 580 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. श्रागमपरि० अयजत, अयष्ट' इत्यादि सर्वाख्यातेषु च विद्यते / न हि तत्र पुरुषप्रेरणारूपा शब्दभावनाऽनुभूयते सिद्धस्य आत्मव्यापारस्य अर्थभावनापरपर्यायस्य अनुभवात् / लिङादिविषये तु 'यजेत' इत्यादौ द्वयमनुभूयते-स्वार्थं लिप्समानो हि पुरुषः स्वव्यापारे यागविधानलक्षणे प्रवर्तते इति अर्थभावना, तमयं लिङ् प्रवर्त्तयतीति शब्दभावना चेति ॥छ।। तदेतद्भावनावादिनो मतमयुक्तम् ; यतः शब्दस्य भावना, शब्द एव वा भावना शब्दभावना स्यात् ? प्रथमपक्षे शब्दस्य भावना प्रेरकत्वम् , तच्च प्रेषणाध्येषणरूपम् , तस्य चेतनात्मकपुरुषधर्मत्वात् कथं शब्देऽनुपचरितस्य संभवः ? तद्धर्माध्यासितपुरुषप्रयुक्ताद् वाक्यादेव हि शब्दे तत्संभाव्यते न मुख्यतः।। किश्च, 'प्रेर्यप्रेरकयोन निष्फला प्रवृत्तिः / किञ्चिद्धि स्वात्मनि परत्र वा अर्था10 नर्थप्राप्तिपरिहारादिप्रयोजनमभिसन्धाय कश्चित् प्रेरकः प्रेर्यश्च प्रसिद्धः। न चाचेतने शब्दे तदभिसन्धानं संभवति तत्कथं तस्य प्रेरकत्वम् ? बलवत्प्रभञ्जनादेरिवास्य अनभिप्रायस्यापि प्रेरकत्वे शब्दविधिपक्षनिक्षिप्ताऽशेषदोषोनिपातः स्यात् / त्यर्थोऽवगम्यते। किं करोति ? पचति / किमकार्षीदपाक्षीत् / किं करिष्यति पक्ष्यति / किं कुर्यात् पचेत् / किन्न कुर्यान्न पचेदिति ।"-तन्त्रवा० 2 / 1 / 1 / (1) आख्याते / (2) "सिद्ध कर्तृ क्रियावाचिन्याख्यातप्रत्यये सति / सामानाधिकरण्येन करोत्यर्थोऽवगम्यते // तस्माल्लब्धात्मककर्तृव्यापारवचनानि करोत्यर्थवन्त्याख्यातानि ।"-तन्त्रवा० 22 / 1 / (3) “नैतत्सारम्; न प्रयोगानिरूप्यत्वात् वैयर्थ्यात् पूर्वदोषतः / अप्रवृत्तेः फलायोगाद् रूपोक्तेापतिः श्रतेः ॥"-विधिवि० पृ० 16 / "असत्त्वादप्रवृत्तेश्च नाभिधापि गरीयसी / बाधकस्य समानत्वात् परिशेषोऽपि दुर्लभः ॥"-न्यायकु० 5 / 13 / (4) "संज्ञापुरस्सरा व्यापारणा प्रेषणम्, निकृष्टविषयो नियोग इत्यर्थः। यत्पुनरभ्यहितं व्यापारयति तदध्येषणम्, अभ्यहितविषयं प्रबोधनमित्यर्थः।" -वाक्यप० प्र० त० का०पू० 257 / "प्रवर्त्यपुरुषापेक्षया ज्यायसा वक्त्रा प्रतिपाद्यमानं कार्य प्रेष इति व्यपदिश्यते / समेन आमन्त्रणम् / हीनेनाध्यषणमिति ।"-प्रक०६०१० 180 / (5) 'न हि प्रेषणाभ्यनुज्ञालक्षणा शब्दस्य व्यापारो निरूप्यते तस्य पुरुषधर्मत्वात् / न हि प्रेषणाध्येषणाभ्यनुज्ञालक्षण: शब्दस्य प्रयोगो व्यापारो निरूप्यते / ननु शब्दोच्चारणानन्तरं तदवगमात्तैनोक्तमिति कथं प्रेषणादिलक्षण: शब्दप्रयोगो न निरूप्यत इत्याह-तस्य पुरुषधर्मत्वात् / सत्यं शब्दविज्ञानानन्तरमुपलभ्यते। न त्वसौ शब्दस्य; अभिप्रायभेदत्वात् / प्रेषणादेः अचेतनत्वेन शब्देऽसम्भवात् ।"-विधिवि०, टी० पृ० 16 / (6) शब्दस्य अचेतनत्वात् पुरुषाभिप्रायरूपाः प्रेषणादयः उपचरिता एव सम्भाव्यन्ते न तु मुख्या इति / (7) प्रेषणाध्यषणादिधर्मात्मकपुरुष / (8) प्रेषणाध्येषणरूपम् / (9) "न प्रवर्तेत पुरुषः, प्रवर्तयतोऽपि शब्दस्याननुरोध्यत्वात् / न हि सर्वस्मिन् प्रवर्तयितरि प्रवृत्तिः प्रेक्षावताम् अपि त्वनुविधेये / न चार्थानर्थप्राप्तिपरिहाराद्यनुविधानकारणं स्वाम्यादाविव शब्दे समस्ति / फलात्प्रवृत्तौ तद्वयर्थ्यम्।”-विधिवि० पृ० 18 / (10) अर्थानर्थप्राप्तिपरिहारादिप्रयोजनानुसन्धानम् / (11) शब्दस्य / (12) "स्यान्मतं पवनादिरिव लङादिः प्रेरयति पुरुषम् ; तदसत्; अभिधानवैयर्थ्यात्, अप्रतीतव्यापारस्यापि वाय्वादेरिव स्वभावतः प्रेरकत्वात्, पूर्वोक्तदोषापाताच्च / न हि प्रवृत्ति प्रति कारकत्वे शब्दस्य सदपि तद्व्यापाराभिधानमङ्गम्, अनभिहितव्यापारस्यापि तस्य कारकत्वात्, कारकस्यानपेक्षितज्ञानत्वात् ।"-विषिवि. - 1018 / (13) शब्दस्य। (14) प्रायश्चित्तवैयर्थ्यम्-आ०टि। 1 हि शब्दे न तत्सं-आ०,हि तच्छन्वे संभाव्यते ब०। 2न चाचेतनशब्वे आ० /