________________ प्रमाणप्र० का 0 26] भावनावादः 576 प्रवर्त्तयति / यद्यपि चेच्छास्मृत्यादयः पुरुषप्रवृत्तिहेतवः तथापि न तेषां मुख्यः प्रवर्त्तनाव्यपदेशः, शब्दभावनायास्तु साध्यावगतिकारित्वेन मूलभूतत्वात् मुख्यः / 'शब्दभावना' इति शब्दशब्देन शब्दधर्मतया व्यपदेशात् , यथा प्रामादिदाने राज्ञो दातृत्वव्यपदेशो मुख्यः लाकुटिकादीनां तु राजादेशानुसारेण प्रवृत्तानामौपचारिकः एवमत्रापि / तदुक्तम् “साध्यत्वे हेतुव्यापारः कथ्यते शब्दभावना / शब्दधर्मतयाख्यातः कार्यसंसूचितस्थितिः // " [ ] तथा च शब्दभावनासद्भावे किं प्रमाणमिति पर्यनुयोगोऽनुपपन्नः; यथैव हि अर्थप्रतिपत्त्यन्यथानुपपत्त्या शब्दस्य अभिधात्मको व्यापारः परिकल्प (कल्प्य) ते तथा प्रवृत्यन्यथानुपपत्त्या लिङादेः प्रवर्त्तनात्मकोऽपीति / तत्र 'यजेत स्वर्गकामः' इत्यत्र द्वे भावने प्रतीयेते शब्दात्मिका पुरुषप्रेरणारूपा अर्थात्मिका च पुरुषव्यापाररूपा इति। तत्र लँकार- 10 सामान्यस्यार्थः अर्थभावना / उक्तश्च___ ईयं त्वन्यैव सर्वार्था सर्वाख्यातेषु विद्यते / " [ तन्त्रवा० 2 / 1 / 1 ] इति / पुरुषव्यापारस्य हि सर्वत्रार्थे विद्यमानत्वात् सर्वार्था अर्थभावना, 'यजते, . (1) लाकुटिकप्रायाः-आ० टि० / द्वारपालसदृशा इत्यर्थः / (2) इच्छास्मृत्यादीनाम् / . (3) प्रवर्तनाव्यपदेशः / (4) लकुट-दण्डधारिणाम् द्वारपालादीनाम् / (5) पुरुषरूपेण कार्येण तस्यास्तित्वं सूच्यते-आऊटि०। (6) आख्यातविभक्तिः-आ.टि०। (7) "प्रयोजनेच्छाजनितक्रियाविषयव्यापार आर्थीभावना। सा चाख्यातत्वांशेनोच्यते आख्यातसामान्यस्य व्यापारवाचित्वात् / साप्यंशत्रयमपेक्षते साध्यं साधनमितिकर्तव्यताञ्च किं भावयेत्केन भावयेत्कथं भावयेदिति / तत्र साध्याकाइक्षायां स्वर्गादिफलं साध्यत्वेनान्वेति, इतिकर्तव्यताकाङ क्षायां प्रयाजाद्यङ्गजातमितिकर्तव्यतात्वेनान्वेति / " अर्थसं० पृ० 19-23 / “प्रवृत्तिश्चार्थभावनैव"-मीमांसार्थ० प०९। “स्वर्गेच्छाजनितो यागविषयो यः प्रयत्नः स भावना / स एव चाख्यातांशेनोच्यते। यजत इत्याख्यातश्रवणे यागे यतेत इति प्रतीतेर्जायमानत्वात् - 'अतश्च प्रयत्न एवार्थी भावना। यथाहुः-(न्यायसु० पृ० 579) प्रयत्नव्यतिरिक्ता भावना तु न शक्यते / वक्तुमाख्यातवाच्येह प्रस्तुतेत्युपरम्यते ॥"-मीमांसान्या० पू० 185-87 / (8) आर्थीभावना / "अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते ॥"-तन्त्रवा० 2 / 1 / 1 / बृहवा० भा० वा० टी०१० 590 / शास्त्रदी० 2 / 11 / न्यायकु० प्र० 5 / 13 / जैमिनिन्या० पृ० 75 / मीमांसाबाल० पृ०७५ / 'सर्वाख्यातस्य गोचरा'-मीमांसार्थ० 108 / प्रकृत पाठः-अष्टसह० पू० 19 / तत्त्वार्थश्लो०१० 262 / "अर्थात्मा भावना त्वन्या सर्वत्राख्यातगोचरः ।"-तन्त्ररह० 10 47 / मानमेयो० 0 272 / 'सा चाख्यातस्य'-वैयाकरणभ० द० 10 156 / मुक्ता० दिन .. पृ०५१५ / व्याख्या-"विधेयायाः भावनायाः पुरुषार्थरूपभाव्यनिष्ठत्वसूचनाय इच्छायोनित्वं सूचयितुम् इच्छार्थाद अर्थयतेः णिजन्तादर्थयत इति कर्त विवक्षायामेरजित्यचप्रत्ययोत्पादनेन अर्थिनः पुरुषस्य अर्थशब्देन अभिधानाद् भावनायाश्च पुरुषधर्मत्वात् धर्मर्धामणोश्चात्यन्तं भेदाभावात् तादात्म्य विवक्षित्वा अर्थात्मा चासौ भावना चेति विग्रहः कार्यः / अन्यामिति अर्थभावनापेक्षित्वं शब्दभावनायाः सूचितम"-न्यायसु० पृ० 560 / (9) अतीतादौ-आ० टि०। “यदा हि सर्वाख्यातानुवर्तिनी करोतिधातुवाच्या पुरुषव्यापाररूपा भावनाऽवगता भवति, तदा तद्विशेषाः सामान्याख्यातव्यतिरिक्तशब्दविशेषवाच्या विधिप्रतिषेधभूतभविष्यद्वर्तमानादयः प्रतीयन्ते। तथा च सर्वत्र सामान्यतः करो 1-धाने श्र०12 साध्यत्वहेतुव्यापा-श्र०। 3-हेतुापार: आ०14 अभिधानात्मको ब०,श्र०।