________________ 578 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. भागमपरि० भावनायाश्च भाव्या पुरुषप्रवृत्तिः, प्रवृत्तिमान् वा पुरुषः / प्राशस्त्याभिधानश्च विना विधिशक्तिर्निमित्तत्वमुपगतापि प्रवर्तनायां न समर्था भवति / न हि 'इमां गां क्रीणीष्व' इति शतकृत्वोप्युक्तः कश्चित् केतु प्रवर्त्तते यावत् 'घटोनी सम्पन्नक्षीरा' इत्यादि प्राशस्त्यज्ञानं न प्रवर्तते / अतः अर्थवादोपजनितप्राशस्त्यज्ञानसचिवा शब्दभावना प्रवर्तनाङ्गम् / सा च यशपरिपूर्णा भवति-'किम् , केन, कथम्' इति / किं भावयेत् ? स्वर्गम् / केन ? देशपौर्णमासाभ्याम् / कथम् इति ? इतिकर्तव्यतां दर्शयनि प्रयाजादिव्यापाररूपाम् / सेत्थं त्र्यंशपरिपूर्णा शब्दभावना फैलभावनायां पुरुषं गामानयेत्यस्मिन् वाक्ये गोशब्दस्य गोत्वम्, स च व्यापारविशेषो लौकिकवाक्ये पुरुषनिष्ठोऽभिप्रायविशेषः, वैदिकवाक्ये तु पुरुषाभावाल्लिङादिनिष्ठ एव / अत एव शाब्दी भावनेति व्यवह्रियते ।"-अर्थसं० पृ० 11-13 / मीमांसान्याय० पृ० 3, 178 / मीमांसार्थप्र० पृ०८।। (1) एतावता अर्थवादवाक्यानां माभत्तामाण्यमिति-आ० टि०। (2) "प्रवृत्तिहेतुं धर्मञ्च प्रवदन्ति प्रवर्तनाम्"-विधिवि० पृ० 243 / “प्रवृत्तिहेतुभतः प्रवर्तयितुर्धर्मः प्रवर्तना।"-मीमांसाबाल० 10 75 / मीमांसान्याय० पृ० 180 / (3) तुलना-"लौकिकानि वाक्यानि भवन्तो विंदाङकुर्वन्तु / ' तद्यथायं गौः केतव्या देवदत्तीया / एषा हि बहुक्षीरा स्त्र्यपत्या अनष्टप्रजा चेति ।"-शाबरभा० 02 / 20 / (4) “सा च भावनांशत्रयमपेक्षते साध्यं साधनमितिकर्तव्यताञ्च, किं भावयेत् केन भावयेत् कथं भावयेदिति / तत्र साध्याकाङक्षायां वक्ष्यमाणांशत्रयोपेता आर्थीभावना साध्यत्वेनान्वेति एकप्रत्ययगम्यत्वेन समानाभिधानश्रुतेः / संख्यादीनामेकप्रत्ययगम्यत्वेऽपि अयोग्यत्वान्न साध्यत्वेनान्वयः / साधनाकाङक्षायां लिङादिज्ञानं करणत्वेनान्वेति, तस्य च करणत्वं न भावनोत्पादकत्वेन तत्पूर्वमपि तस्या: शब्दे सत्त्वात्, किन्तु भावनाज्ञापकत्वेन शब्दभावनाभाव्यनिर्वर्तकत्वेन वा। इतिकर्तव्यताकाङक्षायाम् अर्थवादज्ञाप्यप्राशस्त्यमितिकर्तव्यतात्वेन अन्वेति / "-अर्थसं० पृ० 16-18 / मीमांसाम्याय० 103 / 'करणांशो विधिज्ञानं किमंशः 'स्प्रवर्तनम् / इतिकर्तव्यता चात्र,ह्यर्थवादप्रशंसनम।" -बृहदा० भा० वा० 50 590 / “प्रवृत्तिफलिकायाञ्च अभिधायामपि साध्यसाधनेतिकर्तव्यतारूपमंशत्रयमपेक्षितम्, अन्यथा तस्य स्वरूपत: फलतश्चाज्ञानादप्रवृत्तिप्रसङ्गात् / तत्र लिङादिविधिज्ञानं करणत्वेनान्वेति याग इव अर्थभावनायाम् / प्रवृत्तिरेव च साध्यत्वेन स्वर्ग इव अर्थभावनायाम् / अर्थवादादिजन्यं प्राशस्त्यज्ञानमितिकर्तव्यतात्वेन प्रयाजाद्यङ्गजातमिव अर्थभावनायाम् / तदुक्तम्-लिङाभिधा सैव च शब्दभावना भाव्यं च तस्याः पुरुषप्रवृत्तिः। सम्बन्धबोध: करणं तदीयं प्ररोचना चाङ्गतयोपयुज्यते ।"-मीमांसार्थ० पृ०९ / “प्ररोच्यतेऽनयेति प्ररोचना प्राशस्त्यज्ञानं तच्चाङ्गं फलोपकारिप्रयाजादिवत्"-मीमांसाबाल०१०८१ / मीमांसापरि०५०१८। “तत्र किं भावयेत् केन भावयेत्कथं भावयेदित्याकाङक्षायां स्वर्ग भावयेत् यागेन भावयेत् अग्न्यन्वाधानप्रयाजावघातादिभिरुपकारं सम्पाद्य भावयेदित्येवं भाव्यकरणेतिकर्तव्यतासमर्थनेन आकाङक्षापूरणात् प्रकरणाम्नातः सकल: शब्दसन्दर्भः भावनाबाचिन आख्यातस्यैव प्रपञ्चः / भाव्याद्यंशत्रयवती सेयमर्थभावनेत्युच्यते / सा सर्वापि शब्दभावना या भाव्या विधायको लिङादि: करणम अर्थवादसम्पादितः स्तुतिरितिकर्तव्यता। सेयं शब्दभावना लिङादिभिरेव गम्यते / अर्थभावना सर्वेराख्यातप्रत्ययैर्गम्यत इत्युक्तम् "-जैमिनिन्या० पृ० 76 / (5) अमावस्यायां क्रियमाणो यज्ञविशेषो दर्शः, पौर्णमास्याञ्च विधीयमानं यज्ञानुष्ठानं पौर्णमास इति / (6) यज्ञे कर्तव्यताविशेष:-आ० टि। 'आरादुपकारकरूपा प्रयाजादिः"-न्यायरत्नमा० 10 120 / (7) आर्थीभावनायाम / 1-प्रवृत्तिमान्वा ब०। 2-मान् पुरु-श्र०।-स्वमुपाग-आ०। 4-घटेध्विस-ब०,-घटाविस -श्र०। / प्रशस्तज्ञानं श्र०। 6 ततः श्र०17कयमिति कथमिति यमुपपन्नकर्तव्यतां श्र०।