________________ 576 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. अागमपरि० तथा, 'संविदाश्रयणान्न शब्दः प्रवृत्तेः कारकः / नहि बीजादीनां संवेदनसापेक्षाणां स्वकार्यकर्तृत्वं दृष्टम् , ज्ञापकस्यैव धूमादेस्तदपेक्षाप्रतीतेः / किश्च, अश्रुतफलेषु विश्वजिंदादिषु वाक्येषु फलस्य स्वर्गादेः अधिकारिणश्च स्वर्गकामादेः अध्याहारः, अग्निष्टोमादिषु च स्वर्गकामादौ अन्यपदार्थोपसर्जनीभूतस्वर्गादि। पदार्थानां फलत्वाध्यवसाय एवमाद्यर्थाभिसम्बन्धो व्यर्थः, वाय्वादिवत् फलादिसम्बन्धानपेक्षस्यैव शब्दस्य प्रवृत्तिहेतुत्वप्रसङ्गात् / तन्न शब्दो विधिः ॥छ।। शब्दव्यापारविधिवादिनस्तु ब्रुवते-लिडादि( लिङादि )शब्दश्रवणानन्तरं वृद्धव्यवहारे प्रवृत्त्याख्यकार्यदर्शनात् तत्कारणत्वेन कल्पितस्य शब्दव्यापारस्य मन्त्रपवनादिवैलक्षण्येन प्रवृत्तिहेतोः संभवान्न पूर्वोक्तदोषानुषङ्गः / तदुक्तम् "अभिधाभावनामाहुरन्यामेव लिङादयः / " [तन्त्रवा० 2 / 1 / 1] (1) "ज्ञापकश्च स्वरूपकर्मसन्बन्धविषयज्ञानमपेक्षते लिङादिस्वरूपञ्च प्रवृत्तेः कारकमित्यनुपयुक्तस्वरूपतत्कर्मसम्बन्धविषयसंविदोऽपि पुंसः प्रवृत्तिप्रसङ्गः ।"-विधिवि० पृ० 7 / (2) स्वसंवेदनापेक्षा / (3) विश्वजिदादियज्ञेषु स्वर्गादिफलं न श्रुतौ कण्ठोक्तमतः तत्र सामान्यरूपेण स्वर्गरूपस्य फलस्य अध्याहारः क्रियते। तथा चोक्तं जैमिनिन्यायमालायाम्-(४।३५) "नवास्ति विश्वजिद्यागे फलमस्त्युत नाश्रुतेः / भाव्यापेक्षाद्विधेः कल्प्यं फलं पुंसः प्रवृत्तये।" द्रष्टव्यम्-शाबरभा०, शास्त्रदी० 4 / 3 / 10-17 // "अपि चाश्रुतफलेषु फलाध्याहारः क्वचित्ऋतूपकारकल्पना, श्रुतानामपि स्वर्गादीनां फलत्वाध्यवसाय इति सर्व एव महिमा विधेः / स शब्दस्य तद्भावेऽनुपपन्न:-अपि चाश्रुतफलेषु पिण्डपितृयज्ञादिष स्वर्गादिफलाध्याहारः क्वचित् ऋतूपकारकल्पना समिदादौ, श्रुतानामपि पुरुषविशेषणतया स्वर्गादीनां / फलत्वाध्यवसाय इति सर्व एष महिमा विधेः / स शब्दस्य तद्भावे विधिभावेऽनुपपन्नः ।"-विधिवि०, टी०पृ० 14 / (4) अब हि श्रुतिवाक्यविषयः अधिकारी चोक्तो न त् फलम्, तच्च स्वर्गकामाख्याधिकारिलक्षणे पदार्थे स्वर्गकामोऽस्येति समासे पूर्वपदतया उपसर्जनीभूतः स्वर्गः फलतयाऽध्यवसीयते-आ० टि०। (5) "प्रवर्तकस्येति चेन्न; तस्यापि पवनादिवर्तिन इवोपपत्तेः फलरूपं कारकं विना। तस्मान्न विधिः शब्दस्तद्वयापारो वा / शंकते-प्रवर्तकस्येति चेत्, लिङादयः खलु पुंसां प्रवर्तकाः, न चैते निष्फले प्रवर्तयितुं पुरुषमीशते इति तदन्यथानुपपत्त्या फलकल्पनेत्यर्थः / निराकरोति, न। तस्यापि प्रवर्तकत्वस्य पवनादिवर्तिन इवोपपत्तेः। नहि यो यः प्रवर्तयति स सर्वः फलमपेक्षते, पवनादीनां प्रवर्तयतामपि तदनपेक्षत्वदर्शनादित्यर्थः।"-विधिवि०, टी० पृ० 14 / (6) भट्टकुमारिलादयः / "भावनैव च वाक्यार्थः सर्वत्राख्यातवत्तया। अनेकगुणजात्यादिकारकार्थानुरञ्जिता // एकयैव तु बुद्धयासौ गृह्यते चित्ररूपया।"-मी० श्लो० पृ० 939 / “तत्रार्थात्मिकायां भावनायां लिङादिशब्दानां यः पुरुष प्रति प्रयोजकव्यापारः सा द्वितीया शब्दधर्मोऽभिधात्मिका भावना विधिरित्युच्यते / " -तन्त्रवा० 2 / 11 / (7) यथा कश्चिन्मत्रेण अभिचारिकादिना पारवश्यं नीतोऽनिच्छयापि प्रवर्तते -आ० टि० / (8) व्याख्या-"कर्तृ व्युत्पत्त्या करणव्युत्पत्त्या वा अभिधाशब्दस्य शब्दपरत्वमङ्गीकृत्य अभिधायाः शब्दस्य आत्मनो भावनां व्यापार प्रवर्तनासामान्यव्यक्तिभूतं लिङादयः प्रवर्तनासामान्यमभिदधाना निविशेषसामान्यायोगात प्रैषादौ च लोकदृष्टस्य विशेषस्य पुरुषधर्मत्वेन अपौरुषेयवेदेऽसम्भवात् प्रवर्तनासामान्यस्य च प्रैषादिप्रवर्तकव्यापारवर्तित्वदर्शनात लिङादेरेव च वेदे प्रवर्तक 1बीजानां आ० / 2-जिदादिषु फलस्य आ०, ब०। 3 मंत्रपवचनादि-आ०, मंत्रपठनादिब०। 4-वानपूर्वो-आ०।