________________ प्रमाणप्र० का० 26 ] विधिवादः 575 कत्वं विना स्वतः प्रवृत्तिकारकत्वे अस्य दुर्घटं वाय्वादिवत्, कारकहेतोः प्रमाणत्वानुपपत्तेः, बोधकस्यैव तत्संभवात् / अथोच्यते-वाय्वादिजनितभूतप्रवृत्तिविलक्षणैवेयम् इच्छादिसमानरूपा चिद्रूपात्मप्रवृत्तिः विषयावबोधापेक्षिणी 'लिङादिभिः क्रियते; तन्न; प्रवृत्तिकारकत्वांशे परकारकाणामिव प्रामाण्यानुपपत्तेः। बोधकत्वमात्रेणापि प्रामाण्ये वर्तमानाद्यपदेशकालप्रवर्तकलडाँदियुक्तेष्वपि वाक्येषु तत्प्रसङ्गात् “तेन प्रवर्तकं वाक्यं / शास्त्रेऽस्मिंश्चोदनोच्यते / " [मी० श्लो० चोदनासू० श्लो० 3 / ] इत्यस्य विरोधः। तस्मात् साध्यस्वभावयागादिव्यापारलक्षणविषयावबोधकत्वेनैव लिङाद्यन्तस्य शब्दस्य प्रमाणत्वोपपत्तेः न शब्दस्य स्वरूपेणैव विधित्वम् / तथा, अँनियमात्प्रवृत्तेः; शब्दस्य हि विषयावबोधनिरपेक्षस्य स्वरूपेणैव विधित्वे चेतनात्मकस्यापि पुरुषस्य अभिप्रायतिरस्कारेण मन्त्रादिजन्यविक्षोभस्येव विवशस्य बला- 10 कारेण शब्दात्प्रवृत्तिरुद्भवन्ती न वाय्वादिजनितप्रवृत्तिवैलक्ष यमश्नुवीत / तथा चास्यों हैठादेव भवन्त्यां पुरुषस्वातन्त्र्याश्रितविहिताऽकरणापराधनिबन्धनप्रायश्चित्तप्रतिपोदनस्य निर्विषयत्वप्रसक्तेः अयुक्तमुक्तम् "अकुर्वन् विहितं कर्म निन्दितञ्च समाचरन् / प्रसजश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः // " [मनुस्मृ० 11 / 44] इति / 15 (1) प्रवृत्तिकारकांशेऽप्रामाण्यम् , बोधकारकांशे प्रामाण्यमिति-आ० टि०। (2) किन्तु विशिष्टबोधकत्वेनैव प्रामाण्यम्-आ० टि०। "विषयावबोधनान्न दोष इति चेन्न; तन्मात्रस्यान्यत्रापि तुल्यत्वात चोदनालक्षणोऽर्थो धर्म इत्यभ्युपगमानर्थक्यात् / निराकरोति, नेति / कुतः ? तन्मात्रस्य अन्यत्रापि वर्तमानापदेशेऽपि चैत्रः पचतीत्यादो तुल्यत्वात् / न हि तत्र भावना नावगम्यते। अस्तु तुल्यता, का नो हानिरित्यत आह-चोदनालक्षणोऽर्थो धर्मः इत्यभ्युपगमानर्थक्यात् / प्रवर्तकत्वं चोदनात्वं प्रवृत्तिहेतु कञ्चनार्थातिशयमवगमयन् अनेन रूपेण प्रामाण्यमश्नुते न भावनामात्रवचनत्वेन तस्य अन्यत्रापि तुल्यत्वात् / तस्माद्येन रूपेण प्रामाण्यं न तेन चोदना, येन चोदना न तेन प्रामाण्यं तस्य प्रवृत्ति प्रति कारकत्वात् ।"-विधिवि०, टी० पृ०६। (3) वर्तमान-आ० टि०। (4) चैत्रः पचतीत्यादिषु / (5) प्रामाण्यप्राप्तेः। (6) अग्निहोत्रं जुहुयादित्यादेः / (7) "शब्दस्वातन्त्र्ये च नियोगतोऽवश्यं प्रवृत्तिः स्यात् , तथा च अकुर्वन् विहितं कर्मेति निविषयं स्यात् / न हि तदानीं बलवदनिलसलिलोघनुद्यमानस्येवेच्छापि तन्त्रं प्रवृत्ति प्रति पुरुषस्य।"-विधिवि० पृ०६। (8) शब्दवशादनिच्छापूर्विकायां प्रवृत्तौ। (9) पुरुषस्वातन्त्र्ये सत्येव विहितस्य सन्ध्यादेः अकरणात् प्रायश्चित्तं भवेत्, यदा तु पुरुषस्य प्रवृत्तौ स्वतन्त्र्यमेव नास्ति तदा कथं तदकरणेन प्रायश्चित्तभाक्त्वम् / (10) व्याख्या"प्रसक्तश्चेन्द्रियार्थेष . . . 'नित्यं यद्विहितं सन्ध्योपासनादि नैमित्तिकञ्च शवस्पर्शादी स्नानादि तदकुर्वन्, तथा प्रतिषिद्धं हिंसाद्यनुतिष्ठन् अविहितनिषिद्धेष्वत्यन्तासक्ति कुर्वन्नरो मनुष्यजातिमात्र प्रायश्चित्तमर्हति ।"-मनुस्मृ० मन्वर्थ० 11144 / 1 लिडादि-आ०, ब०। 2 परकारणा-आ०, श्र०। 3-कलिडादि-ब०। 4 लिडाद्यन्त-आ०, ब०। 5-विक्षोभस्यैव ब०, श्र०.। 6 हठादिव श्र०। 7 भवत्यां ब०, श्र०। 8-बन्धनं प्रा-ब०। 9-नस्यानि-श्र०।