________________ 574 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. आगमपरि० विधिरित्येके / तद्व्यापारो भावनाऽपरपर्यायो विधिरित्यन्ये / नियोगरित्यपरे / प्रैषादयः इत्येके / तिरस्कृततदुपाधिप्रवर्त्तनामात्रम् इत्यन्ये। प्रवर्तकत्वात् फलमेव इत्यपरे / फलाभिलाष एव इत्येके / कर्मैव इत्यन्ये / आत्मनोऽप्राप्तकियासम्बन्धावगम इत्यपरे / श्रेयःसाधनत्वाख्यधर्मः इत्येके / उपदेशः इत्यन्ये / कर्तव्यताप्रतिपत्तिरेव इत्यपरे / 5 प्रतिभैव ईत्येके / भक्तिरेव इत्यन्ये / इच्छैव इत्यपरे। प्रयत्न एव इत्येके इति / तत्र शब्दविधिवादिनो ब्रुवते-अन्वयव्यतिरेकाभ्यां प्रवर्तकत्वमवधार्यते, तौ च अनन्यथासिद्धौ शब्दस्यैव प्रवर्तकत्वमवगमयतः, अतः स एव विधिः / अर्थस्य विधित्वे "क्रियायाः प्रवर्तकं वचनम्" [ शाबरभा० 1 / 1 / 2] इति विरुध्यते / प्रवर्तकार्थ प्रतिपादनद्वारेण वचनस्य प्रवर्तकत्वे च औपचारिकं प्रवर्तकत्वमस्यं स्यात् , मुख्यश्च वस्तु10 वृत्त्या तत्रं तद्व्यवस्थितम् इत्यर्थनिरपेक्षमेवास्य तत्प्रतिपत्तव्यम् / व्यापारातिशयप्रवर्त्त कत्वपंक्षेऽपि न शब्दस्य मुख्यप्रवर्तकत्वक्षतिः, व्यापारातिशयसमाश्रयणेनैव सर्वस्य साध्यवस्तुसम्पादकत्वात् / न खलु काष्ठादीनां ज्वालाद्यवान्तरव्यपारावलम्बनेऽपि पाके मुख्य कारकत्वाभिधानं विरुध्यते / प्रवर्तकत्वञ्च यद्यपि सामान्येन शब्दस्योच्यते तथापि 'लिङलोट्तव्यप्रत्ययान्तस्यैव तद् युक्तं शब्दान्तराणां प्रवृत्तिहेतुत्वाऽदृष्टेः। 15 अत्रान्ये" शब्दस्य विधित्वमसहमानाः 'प्रमाणत्वात् , अनियमात्प्रवृत्तेः, संविदाश्रयणात्' इत्यादियुक्तिविरोधं दर्शयन्ति / तथाहि-प्रमाणत्वं तावत् प्रवर्तकाऽर्थाऽवबोध (1) भाट्टाः / (2) प्राभाकराः / (3) परित्यक्तपुरुषादिविशेष-आ० टि०। (4) शब्दस्य / (5) शब्दे / (6) प्रवर्तकत्वम् / (7) शब्दस्य / (8) प्रवर्तकत्वम्। (9) पंचमी -आ० टि० / पञ्चमो लकार इत्यर्थः / (10) लोट् सप्तमी-आ० टि० / सप्तमो लकार इत्यर्थः / (11) मण्डनमिश्रादयः। (12) “प्रमाणत्वादनियमात्प्रवृत्तेः संविदाश्रयात् / समभिव्याहृतेः शब्दो न विधि: कार्यकल्पनात् ॥"-विधिवि० पृ०५ / "तत्र शब्द: स्वरूपेण वायुवच्चेत्प्रवर्तकः / प्रमाणत्वं विहन्येत नियमाच्च प्रवर्तयेत् ॥"-न्यायसु० पृ० 26 / (13) “प्रमाणं हि शब्दः प्रतिज्ञायते, बोधकञ्च प्रमाणम्, तत्र प्रवृत्तिहेतु कञ्चनार्थीतिशयमवगमयन् शब्दश्चोदनात्वेन प्रमाणतामश्नुते, स्वयमेव तु प्रवृत्तः कारकस्तां प्रमाणतामपजह्यात् / न हि कारको हेतु: प्रमाणमपि तु ज्ञापकः।-प्रमाणं हि शब्दः प्रतिज्ञायते चोदनालक्षणोऽर्थों धर्म इति / बोधकञ्च प्रमाणम् अबाधितानधिगतासन्दिग्धार्थप्रमाजनकम् / ' स्वयमेव तु प्रवृत्तेरप्रमायाः कारक: तां प्रमाणतामप्रजह्यात्। नन्वप्रमाया अपि प्रवृत्तेः कारकः कस्मान्न प्रमाणमत आह-नहि कारको हेतुः प्रमाणम्। माभूद् बीजादीनामङकुरादिकारकाणां प्रामाण्यम् / किं तर्हि प्रमाणमित्याह-अपि तु ज्ञापकः, इन्द्रियादौ तथा भावात्।"-विधिवि०,टी० पृ०५।"अत एव शब्दोपि न स्वरूपमात्रेण प्रवर्तकः वाय्वादितुल्यत्वप्रसङ्गात् / यदि पवन इव पिशाच इव कुनृप इव शब्दः प्रवर्तको भवेत् अनवगतशब्दार्थसम्बन्धोऽपि श्रवणपरवशः प्रवर्तेत, न चैवमस्ति / तस्मादर्थप्रतीतिमुपजनयतः शब्दस्य प्रवर्तकत्वम् / न च नाम लिङादिरेव शब्द: प्रवर्तकाभिधानद्वारेण प्रवर्तको भवितुमर्हति / शब्दस्य च ज्ञापकत्वाच्चक्षुरादिकारकवलक्षण्ये सत्यपि प्रतीतिजन्मनि कारणत्वमपरिहार्यम् / कारणं च कारकम्, कारकञ्च न निर्व्यापारं स्वकार्यनिर्वृतिक्षममिति व्यापारस्तस्यावश्यम्भावी ..."-क्यायमं० पृ० 342 / 1 प्रेषणादयः श्र०। 2 इत्यपरे ब०। / इत्येके तत्र श्र०. ब०। 4-वधारयति तौ श्र० / 5 क्रिययोः प्र-ब०। 6-पक्षोपि ब०। 7 साध्वस्तु-आ०। 8 लिट्लोट् तव्य-आ०, ब०। :