________________ प्रमाणप्र० का० 26] विधिवादः 573 अथ गोशब्दाद् गोत्वं प्रतीयमानं गोव्यक्तिसम्बद्धमेव प्रतीयते; कथमेवं सामान्यमेव शब्दार्थः स्यात् ? विशेषणविशेष्यभावापन्नयोः सामान्यविशेषयोः ततः प्रतीतेः / ननु गोशब्दात्साक्षाद् गोत्वमेव प्रतीयते, व्यक्तिस्तु तदन्यथानुपपत्त्यैव प्रतीयते इति; तदप्यसुन्दरम् ; एवं जातेरेव शब्दार्थत्वमायातं व्यक्तेस्तु प्रमाणान्तरगम्यता, तथा च शब्दस्य लक्षणया विशेषप्रतिपादकत्वं दुर्घटम् / अथ शब्दस्यैव अयमान्तरो व्यापारः / यत् सामान्य प्रतिपाद्य तत्प्रतिपत्तिसहकारी व्यक्तिमपि गमयति लक्षणयेति; तैदसाम्प्रतम् ; यतो यत्रैव सम्बन्धस्मरणसहकारी शब्दः प्रवर्त्तते स एव तस्यार्थो न पुनस्तदर्थाविनाभावित्वेन यद्यत्प्रमाणान्तरतः प्रतीयते तत्तत्सर्वं शब्दोदरे प्रक्षेप्तव्यम् , अन्यथा प्रत्यक्षसिद्धधूमान्यथानुपपत्त्या सिद्धो वह्निः प्रत्यक्षसिद्ध एव स्यात् / तन्न विशिष्टव्यक्तितादात्म्यकृतमस्य वैशिष्ट्यं घटते। 10 नापि तत्रैव तत्प्रवृत्तिहेतुत्वकृतम् ; अन्योन्याश्रयानुषङ्गात् / तथाहि- सामान्यस्य विशिष्टत्वसिद्धौ सत्यां विशिष्टविशेषेष्वेव प्रवृत्तिहेतुत्वसिद्धिः, तस्याश्च सत्यां सामान्यस्य विशिष्टत्वसिद्धिरिति / तृतीयपंक्षे तु चक्रकमासज्यते-सिद्धे हि सामान्यस्य वैशिष्ट्ये विशिष्टविशेषेषु प्रतीतिहेतुत्वसिद्धिः, तस्यां सत्याम् 'अस्येदम्' इति प्रतीतिसिद्धिः, तस्याश्च सत्यां तस्य वैशिष्ट्य- 15 सिद्धिरिति / ततः प्रमाणतो वस्तुव्यवस्थामिच्छता यद् यथा यतः प्रतिभासते तत् तस्य सदृशेतररूपतया विषयोऽभ्युपगन्तव्यम् यथा चक्षुरादिप्रत्ययस्य नीलादिरूपतया प्रतिभासमान रूपादि, गवादिशब्दात् प्रतिभासते च गवादिकं वस्तु, तस्मात्तदेव तच्छब्दानां विषयः, न पुनः सामान्यमात्रमिति ॥छ।। एतेन विधिरेव वाक्यार्थः इति विधिवादिमतमप्यपास्तम् / ते हि ब्रुवते-विधि- 20 . रेव वाक्यार्थः अप्रवृत्तप्रवर्तनस्वभावत्वात्तस्य / तदुक्तम्- विधेर्लविधिवादे विविधपूर्व पक्षिणमेतावदप्रवृत्तप्रवर्तनम् / " [ ] इति / तल्लक्षणे च विधौ पक्षाः वादिनां विप्रतिपत्तिः; तथाहि-वाक्यरूपः शब्द एव प्रवर्तकत्वाद् (1) शब्दात् / (2) अर्थापत्ति-आ० टि०। (3) शब्देन हि सामान्यं गृहीतं विशेषस्त्वर्थापत्त्या, कि लक्षणया ?-आ०टि०। (4) सामान्यप्रतिपत्ति / (5) सङ्केतस्मरण / (6) अर्थापत्तेरनुमानाद्वा / (7) सामान्यस्य / (8) 'अस्येदमिति प्रतीतिकृतं वा' इति तृतीये विकल्पे / (9) विधेः / (10) "अनुष्ठेये हि विषय विधिः पुंसां प्रवर्तकः।"-मी० श्लो० वाक्या० श्लो० 274 / "तत्राज्ञातार्थज्ञापको वेदभागो विधिः।"-अर्थसं०५०२९ / 'प्रवर्तकचिकीर्षाया हेतुधीविषयो विधिः।" -शब्दशका०१०१। "यो हि विध्यर्थेन लिङा लोटा कृत्यर्वाऽपूर्वोपदेशः कियते स विधिः।"-यक्तिदी०प०२०। (11) "नन चाहः विधेर्लक्षणमेतावदप्रवृत्तप्रवर्तनम्। अतिप्रसङ्गदोषेण नाज्ञातज्ञापन विधिः।।"-न्यायमं० पृ० 340 / 1 प्रतीयत एव व्य-श्र० 12-सहकारि व्य-ब०,श्र०। 3 तदप्यसा-श्र०, ब014 प्रतिक्षेप्तव्यम् ब०, श्र०। / तत्रैव प्रवृ-ब०, श्र० / 6-हेतुत्वसिद्धिरिति तृतीय-ब० / तस्याञ्च सत्यां तत्रैव तस्य प्रवृत्तिहेतुत्वसिद्धिरिति आ० / 8-मतमपास्तम् ब०। 9 विधिलक्ष-ब०।