________________ 572 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. श्रागमपरि० निखिलव्यक्तीनां युगपदप्रतिपत्तौ जातेस्तन्निष्ठतया युगपत्प्रतिपत्त्यनुपपत्तेः। द्वितीयपक्षे तु निरवधेर्व्यक्तिपरम्पराया युगसहस्रेणापि क्रमेण प्रतिपत्त्यभावतः तस्यास्तन्निष्ठतावसायसंभवोऽतीव दुर्घटः। तन्न प्रत्यक्षतः तस्यास्तन्निष्ठताधिगमो युक्तः / नाप्यनुमानतः; प्रत्यक्षपूर्वकत्वेनास्य भवताऽभ्युपगमतस्तदावे तस्यापि तत्राऽप्रवृत्तेः, तस्यास्तन्निष्ठतयाऽविनाभाविलिङ्गासम्भवाच्च / ततः शब्दस्य सामान्यवाचकत्वे व्यक्तिवाचकत्वानुपपत्तिरेव / किञ्च, सामान्ये सङ्केतितः शब्दः तदभिधत्ते, असङ्केतितो वा ? न तावदसङ्केतितः; अतिप्रसङ्गात् / अथ सङ्केतितः; किं प्रतिपन्ने सामान्ये तत्सङ्केतः स्यात् , अप्रतिपन्ने वा ? यद्यप्रतिपन्ने; अतिप्रसङ्गः / अथ प्रतिपन्ने; कुतस्तत्प्रतिपत्तिः ? न तावत् प्रत्यक्षानुमानाभ्याम् ; नित्यादिस्वभावसामान्यग्राहकत्वेन अनयोः सामान्यपरी10 भावसरे प्रतिक्षिप्तत्वात् / शब्दैकप्रामाणसमधिगम्यत्वे तु अनवस्थेतरेतराश्रयदोषानुषङ्गः। तथाहि-यदि य एव शब्दः सामान्ये सङ्केत्यते तत एव तत्प्रतिपत्तिः, तदा इतरेतराश्रयःप्रतिपन्ने हि सामान्ये तत्रास्य सङ्केतसिद्धिः, तत्सिद्धौ च ततः सामान्यप्रतिपत्तिरिति / शब्दान्तरात्तु तत्सिद्धौ अनवस्था, तस्यापि हि शब्दान्तरस्य प्रतिपन्ने सामान्ये सङ्केतो भविष्यति, तत्प्रतिपत्तिश्च अन्यस्माच्छब्दान्तरादिति / यदि च शब्दात्सामान्यमेव 16 प्रतीयते; तदा शाब्दमप्रमाणमेव स्याद् गृहीतग्राहित्वात् , शब्दार्थयोः सम्बन्धग्राहिणैव हि प्रमाणेन सामान्यं गृहीतमिति / किञ्च, शब्दान्निर्विशिष्ट सामान्यं प्रतीयमानं पुरुषं प्रवर्त्तयति, विशिष्टं वा ? न तावन्निर्विशिष्टम् ; अतिप्रसङ्गात् / अथ विशिष्टम् ; किकृतमस्य वैशिष्ट्यम्-विशिष्टव्यक्तितादात्म्यकृतम्, तत्रैव तत्प्रवृत्तिहेतुत्वकृतम् , अस्येदमिति प्रतीतिकृतं वा ? तत्राद्यपक्षोऽनुपपन्नः; तस्य स्वकीयसकलव्यक्तिभिः सह तादात्म्यसद्भावतो विशिष्टव्यक्तावेव तादात्म्यानुपपत्तेः। अथ स्वकीयाखिलविशिष्टव्यक्तितादात्म्यकृतमेव अस्य वैशिष्ट्यमुच्यते; नन्वेवं सर्वत्र तद्व्यक्तौ पुरुषस्य प्रवृत्तिप्रसङ्गात् प्रतिनियतद्वयक्तौ प्रवृत्त्यभावः स्यात् / न च गोशब्दाद् गोत्वमात्रप्रतीतौ क्वापि व्यक्ती प्रवृत्तिरुपपद्यते; तस्याः सर्वथाऽप्रतिपन्नत्वात् / यस्मिन् प्रतीयमाने यत् सर्वथा न प्रतीयते न तत्प्रतीतितस्तत्र प्रवृत्तिः यथा जलप्रतीतितोऽनले, गोशब्दाद् गोत्वमात्रप्रतीतौ न प्रतीयन्ते च खण्डादयो व्यक्तिविशेषा इति / (1) अनन्तायाः। (2) जातेः। (3) मीमांसकादिना। (4) प्रत्यक्षाभावे। (5) अनुमानस्यापि / (6) जातेय॑क्तिनिष्ठत्वबोधने / (7) जातेः / (8) प्रत्यक्षानुमानयोः / (9) पृ० 285 / (10) शब्दस्य। (11) सामान्यसिद्धौ। (12) भूयोदर्शनादिना। (13) यदेव हि शब्दार्थसम्बन्धग्रहणकाले सामान्यं गहीतं तदेव शब्दोच्चारणकालेऽपि-आ० टि०। (14) सामान्यस्य। (15) विशिष्टव्यक्तावेव। (16) सामान्यस्य / (17) व्यक्ते:-आ० टि०। (18) गोत्वसामान्यमात्रस्यैव प्रतिपन्नत्वात्-आ० टि०। (19) शब्दाद् गोत्वप्रतीतावपि न शावलेयादिषु प्रवृत्तिः तत्प्रतीतावपि तेषां सर्वथाऽप्रतिपन्नत्वात् / 1-वात् ततः ब०। 2-रात्तसिद्धौ आ०। 25