________________ 571 प्रमाण० का० 26] जातिमात्रवाच्यत्वनिरास: व्यक्तथा सह तस्यै सम्बन्धसद्भावात् ततस्तत्प्रतीयमानं तां लक्षयति; कः पुनस्तस्यास्तेन सम्बन्धो नाम-संयोगः, समवायः, तदुत्पत्तिः, तादात्म्यं वा ? न तावत्संयोगः, अंद्रव्यत्वात् / नापि समवायः; अपसिद्धान्तप्रसङ्गात् / तदुत्पत्तिरपि अर्तं एवानुपपन्ना / तादात्म्याभ्युपगमे तु सामान्यविशेषयोः तादात्म्यापन्नयोः एकस्मादेव गवादिशब्दात् विशेषणविशेष्यरूपतया प्रतीयमानयोः कथमेकस्यैव शब्दार्थत्वं वक्तुं युक्तम् , अप्रामा- 5 णिकत्वप्रसङ्गात् ? किञ्च, अँनयोस्तल्लक्षणः सम्बन्धः शब्दप्रयोगकाल एव प्रतिपन्नः, पूर्व वा ? न तावत्तत्काल एव; व्यक्तेः शब्दोच्चारणकालेऽप्रतीते:, प्रतीतौ वा किं लक्षणया ? तत्काले तत्प्रतीतिश्च किं प्रत्यक्षतः, अनुमानात् , शब्दादेव वा स्यात् ? न तावत्प्रत्यक्षतः; देशकालस्वभावविप्रकृष्टायाः व्यक्तेः इन्द्रियसम्बन्धाभावतस्तत्प्रभवप्रत्यक्षेण प्रत्येतुमशक्यत्वात् / 10 नाप्यनुमानतः; तत्प्रतिबद्धलिङ्गाऽदर्शनात् / शब्दादेव तत्प्रतीतौ तु सिद्ध व्यक्तेरपि / शब्दार्थत्वम् / अथ पूर्व जातिव्यक्त्योस्तादात्म्यलक्षणः सम्बन्धः प्रतिपन्नः; यदि नाम तदा तयोरसौ दृष्टो नैतावता सर्वत्र सर्वदा तयोस्ते भाव्यम्, अन्यथा पटस्य शुक्लरूपेण कैचित् कदाचित्तादात्म्यदर्शनात् सर्वत्र सर्वदा तथाभावः स्यात् / अथ जातेरिदमेव स्वरूपं यद् व्यक्तिनिष्ठता; ननु किं सर्वसर्वगतायास्तस्यास्तद्रूपं 15 स्यात् , व्यक्तिसर्वगताया वा ? तत्राद्यपक्षोऽनुपपन्नः; व्यक्त्यन्तराले तदभावप्रसङ्गात् तंत्र तपस्यासंभवात् / व्यक्तिसर्वगतायास्तु तस्याः तेंद्रूपोपगमे व्यक्तिवज्जातेरप्यनेकत्वप्रसिद्धेः उभयोरविशेषतः शब्दार्थत्वं स्यात्, न वा कस्यचित् / अस्तु वा अविचारितस्वरूपायास्तस्यास्तन्निष्टस्वभावता; तथाप्यसौ 'सर्वत्र सर्वदा व्यक्तिनिष्ठा' इति प्रत्यक्षतः प्रतीयेत, अनुमानतो वा ? प्रत्यक्षतश्चेत् ; किं युगपत् , क्रमेण वा ? तत्राद्यपक्षोऽनुपपन्नः; 20 (1) सामान्यस्य / (2) शब्दात् / (3) व्यक्तेः / (4) द्रव्ययोरेव संयोगात्, संयोगस्य गुणत्वेन द्रव्याश्रितत्वात् / (5) न हि मीमांसकाः समवायं स्वीकुर्वन्ति। (6) अपसिद्धान्तप्रसङ्गादेव, नहि शब्दार्थयोः परस्परमत्पाद्योत्पादकभावः। (7) सामान्यव्यक्त्योः / तुलना-"सम्बन्धस्तयोस्तदा प्रतीयते पूर्व वा ?"-प्रमेयक० पृ० 412 / (8) शब्दोच्चारणसमये / (9) तादात्म्यलक्षणसम्बन्धप्रतीतिः। (10) इन्द्रियार्थसन्निकर्षोत्पन्न / (11) सामान्यव्यक्त्योस्तादात्म्यस्य प्रतीतौ / (12) न हि व्यक्त्यनधिगतावपि तन्निष्ठः सम्बन्धो ग्रहीतं शक्य इति / (13) पूर्वम् / (14) सम्बन्धेन / (15) शुक्लतादात्म्यम् / (16) जातेः यद् व्यक्तिनिष्ठताख्यं स्वरूपमुक्तं तस्य अभावप्रसंगात् / (17) व्यक्त्यन्तराले / (18) व्यक्तिनिष्ठताख्यस्य स्वरूपस्य असंभाव्यमानत्वात् / व्यक्त्यभावे हि न व्यक्तिनिष्ठताख्यं स्वरूपं सिद्धयति, अतश्च स्वरूपाभावात् स्वरूपवतः सामान्यस्याप्यभावः / (19) जातेः / (20) व्यक्तिनिष्ठताख्यस्वरूपस्वीकारे / (21) जातेः / (22) व्यक्तिनिष्ठ / (23) जाति:-आ० टि। तुलना-"किञ्च, सर्वदा जातिय॑क्तिनिष्ठेति प्रत्यक्षेण प्रतीयते अनुमानेन वा?"-प्रमेयक०पू० 412 / 1-विषयोस्ता-आ० / 2 तादात्म्यापनविशेषयोः श्र०। 3-तावता सर्वदा श्र०। 4 क्वचिकतावा-आ। 5 सर्वदा भावः ब016 तद्भावप्र-आ०, श्र०। 7-स्य संभवात् श्र०। 8-संभवत् आ०।