________________ 10 570 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. श्रागमपरि० प्रयागेषु सामान्यवतोऽर्थस्य आनयनादिक्रियाभिसम्बन्धप्रतीतेश्च तद्वानेव शब्दार्थः / यच्चान्यदुक्त –'विशेष्यं नाभिधा गच्छेत्' इत्यादि; तदप्यपेशलम् ; 'विशेषणं प्राक् प्रतिपाद्य पुनर्विशेष्यं शब्दः प्रतिपादयति' इति विरभ्य व्यापारानभ्युपगमात् , युगपदेवास्ये विशेषणविशेष्यप्रतिपादनव्यापारप्रदर्शनात् / क्षीणशक्तित्वश्चास्याऽनुपपन्नम् ; शक्तेः कार्यानुमेयत्वात् , विशेषणविशेष्यप्रतिपत्तिलक्षणं हि कार्यमुपलभ्यमानं तत्रास्र्यं शक्तिमनुमापयति। भिन्नज्ञानालम्बनयोश्च विशेषणविशेष्यत्वे इदं चोद्यं स्यात्, न त्वेकज्ञानालम्बनयोः। भवतोऽपि चैतच्चोद्यं समानम्-उपलब्धस्य हि शब्दस्य अर्थप्रतिपादकत्वं स्यात् , अतः स्वात्मप्रतिपत्तावेवास्य क्षीणशक्तित्वात् सामान्यलक्षणाऽर्थप्रतिपादकमपि न स्यादिति लाभमिच्छतो मूलोच्छेदः स्यात् / अथ सामान्यप्रतिपत्तेदृष्टत्वान्न तत्रौस्य शक्तेः प्रक्षयः; तर्हि विशेषणविशेष्यप्रतिपत्तरप्यतो दृष्टत्वात् कथं तत्राप्यस्यै तत्क्षय: स्यात् / / यदप्यभिहितम्-'तत्प्रतिपत्त्यन्यथानुपपत्त्या' इत्यादि; तदप्यभिधानमात्रम् ; येतो . यदि शब्दात्सामान्यमेव प्रतीयते तर्हि व्यक्तेः किमायातं येन तत्तां लक्षयति ? अथ (1) तुलना-“अन्येषु तु प्रयोगेषु गां देहीत्येवमादिषु। तद्वतोऽर्थक्रियायोगात्तस्यवाहुः पदार्थताम् ॥"-न्यायमं० पृ० 323 / (2) सामान्यविशेषवान्-आ० टि०। (3) पृ०५६७५०१२। (4) तुलना-"प्रथमं जातिमात्रमवबोद्धयापर्यवसानादनन्तरं विशेषमवबोधन्ति. किं वाऽन्तर्भावितविशेषामेव जातिम् ? नाद्यः; पदबुद्धयोः विरम्य व्यापाराभावात्।"-चित्सु० पृ०२६३ / “शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः इति वादिभिरेव ।"-सा० द० परि०५। (5) शब्दस्य / (6) शब्दस्य / तुलना-"ननूक्तं क्षीणशक्तिविशेषणेति विशेष्यं नाभिदध्यात् इति; तावच्छक्तेः कार्यविषयत्वात् / कार्यञ्च विशेषणप्रतिपत्तिवत् विशेष्यप्रतिपत्तिलक्षणमुपलभ्यमानं शक्तेर्व्यवस्थापकम् / अथ कार्यस्यैवाभावं यात्; स चैवं ब्रुवाणः स्वसंवेदनमपि बाधते, विशेष्यप्रतिपत्तेः संवेदनात् ।"-प्रश० व्यो० पृ० 192 / (7) विशेषणविशेष्योभयप्रतिपत्तौ / (8) शब्दस्य / (9) मीमांसकस्यापि / तुलना"समानञ्चैतद् उपलभ्यमानस्य शब्दस्य अर्थप्रतिपादकत्वाभ्युपगमात्, स्वात्मप्रतिपत्तौ च क्षीणत्वात् सामान्यप्रतिपादकत्वं न स्यात् ।"-प्रश० व्यो० पृ० 192 / (10) शब्दस्य / (11). सामान्यप्रतिपत्तौ शब्दस्य / (12) शब्दात् / (13) शब्दस्य / (14) शक्तिप्रक्षयः / (15) पृ०५६७ पं०१६ / (16) तुलना-"व्यक्तेरशक्यचोदनत्वात् लक्षितलक्षणया जातिरुच्यते इति चेत् ; अशब्दचोदिते सम्बन्धे सत्यपि कथं प्रवर्तेत ? न हि कश्चित् दण्डं छिन्धीत्युक्ते दण्डिनं छिनत्ति / लक्षितलक्षणेत्यादि परः / सत्यं न सामान्यमर्थक्रियाकारि किन्तु व्यक्तिरेव, केवलं व्यक्तेरशक्यचोदनत्वात् कारणात् सामान्ये नियुक्तः शब्दः सामान्य लक्षयति / तेन सामान्येन शब्दलक्षितेन सम्बन्धाद् व्यक्तिरपि लक्ष्यत इति; न हि गोशब्दादुच्चरिताद् गोत्वं प्रतीयते अपि तु गौरेवावसीयते / न नामैवं तथाप्युच्यते / अशब्दचोदितेत्यादि / यदि नाम जातितद्वतोस्सम्बन्धः तथापि अशब्दचोदिते व्यक्तिविशेषे कथं प्रवर्तते ? नैव / दण्डदण्डिनोस्सत्यपि सम्बन्धे न हि कश्चित्प्रेक्षापूर्वकारी दण्डं छिन्धि इत्युक्ते दण्डिनं छिनत्ति अशब्दचोदितत्वात् / तथा जातो चोदितायां व्यक्तौ प्रवृत्तिर्न युक्तेत्यर्थः ।"-प्रमाणवा० स्ववृ०, टी०२९५ / "लक्षितलक्षणया वृत्तिरतादात्म्ये न भवेत् सम्बन्धान्तरासिद्धेः कार्मुकादिवत् ।"-अष्टश०, अष्टसह० पृ० 139 / तत्वार्थश्लो० पृ० 102 / "किञ्च यदि नाम शब्दाज्जातिः प्रतिपन्ना व्यक्तेः किमायातं येनासौ तां गमयति ।"-प्रमेयक० 10412 / (17) सामान्यं तां व्यक्तिम् / 1 गच्छेदि तदप्य-आ०1शब्दसामा-ब०।