________________ प्रमाणप्र० का 0 26] जातिमात्रवाच्यत्वनिरासः 566 नित्यसम्बन्धनिषेधे' अपोहप्रतिषेधे च प्रपञ्चितमित्युपरम्यते / तथा च 'न चायोगिनः प्रतिपत्तुः प्रत्येकमशेषविशेषोपलम्भः सकृत् क्रमेण वा संभवति' इत्यादि प्रत्युक्तम् ; अयोगिनोपि अशेषविशेषाणार्मुक्तविधिनोपलम्भसंभवप्रतिपादनात् / ... यदप्युक्तम्-'किं जातिमभिधाय शब्दो व्यक्तिमभिधत्ते' इत्यादि; तदप्यसाम्प्रतम् ; जातितद्वतोयुगपदेव एकत्र ज्ञाने प्रतिभाससम्भवात् / नचैकज्ञानविषयत्वे विशेषणविशे- 5 ध्यभावप्रतिनियमो न स्याद्, विपर्ययो वा स्यात्-विशेषणस्यापि विशेष्यरूपतानुषङ्गादित्यभिधातव्यम् ; दण्डपुरुषयोर्युगपदेकत्रापि ज्ञाने प्रतिभासमानयोः विशेषणविशेष्यभावप्रतिनियमप्रतीतेः / तत्प्रतिभासाविशेषेऽपि हि येन विशिष्टं यत् प्रतीयते तद्विशेषणम् इतरद् विशेष्यम् / न खलु दण्डादेः पुरुषे विशिष्टंप्रतीतिजननादन्यद् विशेषणत्वं संभवति / यथा च चाक्षुषे ज्ञाने दण्डपुरुषयोः विशेषणविशेष्यभावापन्नयोयुगपत्प्रति- 10 भासमानत्वात् तत्प्रतिनियमाविरोधः तथा दण्डीतिशब्देऽपि / नैह्यत्र दण्डमात्रं पुरुषमात्रं वा प्रतिभासते, विशेषणविशेष्यभावापन्नस्य युगपदुभयस्य प्रतिपादनात् / अतो दण्डिशब्दात् दण्डविशिष्टः पुरुषो यथा प्रतिभासते तथा गोशब्दात् गोत्वविशिष्टः पिण्डः इति प्रतिपत्तव्यम् / अथ गोशब्दश्रवणात् शाबलेयादिविशेषाऽप्रतीतेन विशेषः शब्दार्थः; तन्न; तद्विशेषाप्रतीतावपि सामान्ययुक्तः ककुदादिमान विशेषो गोशब्दात् प्रतीयत एव 15 शावलेयादिविशेषास्तु तयुक्ताः शाबलेयादिशब्देभ्यः प्रतीयन्ते / नचैतावता सामान्यमेव शब्दार्थो युक्तः; प्रधानोसर्जनभावेन उभयोः प्रतिभासनात् / 'गामानय' इत्यादि (1). पृ० 550 50 11 / (2) पृ० 564 पं० / 14 (3) पृ० 567 पं० 3 / (4) उक्तविधिना उक्तप्रमाणेन (ऊहाख्येन) -आ० टि०। (5) पृ०५६७ पं० 9 / (6) तुलना-"प्रत्यक्षे तावद् द्वयोरपि विशेषणविशेष्ययोरिन्द्रियविषयत्वं सामान्ये हि संयुक्तसमवायादिन्द्रियं प्रवर्तमानं विशेषणवद्विशेष्यमपि विषयीकरोति / न हि सामान्यं प्रत्यक्षं विशेषोऽनुमेय इति व्यवहारः / एवं गुणत्वग्राहिणीन्द्रिये गुणिनोऽनुमेयत्वं स्यात्, नचैवमस्ति / तस्माद् विशेषपर्यन्तं प्रत्यक्ष तथा पदमपि तत्तुल्यविषयं न तु सामान्यमात्र निष्ठमिति युक्तम् .."यथा विध्यन्तपर्यन्तो वाक्यव्यापार इष्यते। तथैव व्यक्तिपर्यन्तः पदव्यापार इष्यताम् ।"-न्यायमं० 10 324-25 / (7) दण्ड एव विशेषणं पुरुष एव च विशेष्यमिति / (8) एकत्र ज्ञाने प्रतिभासमानेऽपि / (9) दण्डयुक्तोऽयमिति / (10) शाब्दे ज्ञाने। (11) तुलना"अथ गोशब्दश्रवणाच्छाबलेयादिविशेषाप्रतिपत्तेर्न विशेषः शब्दार्थः; सत्यम् ; किं तर्हि ? सामान्ययुक्तोऽर्थः प्रतीयते न शाबलेयादिविशेषः, स च शाबलेयादिशब्देभ्यः एव प्रतीयत इति, न चैतावता सामान्यमेव शब्दार्थः, प्रधानोपसर्जनभावेनोभयोः प्रतिभासनात् / तथा गामानयेत्यादिप्रयोगेषु सामान्यवतोऽर्थस्य आनयनादिकृत्या सम्बन्धात् ।"-प्रश० व्यो० पृ० 192 / (12) शाबलेयादिरूपस्य विशेषस्य अप्रति'भासनेऽपि। (13) गोत्वविशिष्टाः / (14) तुलना-'व्यक्त्याकृतिजातयस्तु पदार्थः / तुशब्दो विशेषणार्थः किं विशिष्यते / प्रधानाङ्गभावस्यानियमेन पदार्थत्वमिति / यदा हि भेदविवक्षा विशेषावगतिश्च तदा व्यक्तिः प्रधानम् अङ्गं तु जात्याकृती, यदा तु भदोऽविवक्षितः सामान्यगतिश्च तदा जातिः प्रधानम् अङ्गं तु व्यक्त्याकृती / तदेतद् बहुलं प्रयोगेषु / आकृतेस्तु प्रधानभाव उत्प्रेक्षितव्यः।"-न्यायभा० 22 67 / न्यायवा० पृ० 329 / न्यायमं० पृ० 325 / 1-मित्युच्यते ब० / 2 युगपत्तदुभयस्य ब०, श्र०। 3 अशाबले-श्र०। 22