________________ प्रमाणप्र० का 0 26 ] जातिमात्रवाच्यत्वनिरास: 567 तोपपत्तेः, न पुनर्विशेषाः तेषांमानन्त्यतः कार्येनोपलब्धुमशक्यतया तैद्विषयतानुपपत्तेः / अथ यावतामुपलम्भः तावत्स्वेव सङ्केतक्रियोपगम्यते; तर्हि विशेषान्तरेषु सङ्केताऽसंभवात् शाब्दव्यवहारानुपपत्तिः / न चाऽयोगिनः प्रतिपत्तः प्रत्येकमशेषविशेषोपलम्भः संकृत् क्रमेण वा संभवति ; अयोगित्वविरोधानुषङ्गात् / योगिनस्तु विवादापन्नत्वात् तदुंपलम्भो दूरोत्सारित एव / न चानुपलब्धेषु तेथें 'इदमस्य / वाचकम् , इदश्च वाच्यम्' इत्यभिधानाभिधेयप्रतिपत्तिनियमलक्षणः सङ्केतः संभवति, तदसंभवे च शब्दश्रवणादर्थप्रतिपत्त्यनुपपत्तेः सिद्धः शाब्दव्यवहारोच्छेदः / ततस्तव्यवहारमिच्छता सामान्यमाने सङ्केतोऽभ्युपगन्तव्यः अतस्तदेव शब्दार्थः सिद्धः / / किञ्च, जातिमद्विशेषशब्दार्थवादिनां किं जातिमभिधाय शब्दो व्यक्तिमभिवत्ते, अनभिधाय वा ? न तावदभिधाय; जातिलक्षणविशेषणविशेषप्रतिपत्तावेव उपक्षीण- 10 शक्तिकत्वेनास्य विशेष्याप्रतिपादकत्वप्रसङ्गात् / उक्तञ्च "विशेष्यं नाभिधी गच्छेत् क्षीणशक्तिविशेषणे / " [ ] इति / नाप्यनभिधाय; विशेषमात्रप्रतिपादकत्वेन जातिमद्वाचकत्वाभावानुषङ्गात् / न च सामान्यमात्रस्य अभिधानैरभिधाने विशेषाणामनभिधानात् प्रयोजनार्थिनः शब्दात्प्रवृत्तिर्न प्राप्नोति, प्रतिपन्नस्यापि ततः तन्मात्रस्य प्रयोजनाप्रसाधकत्वादित्यभिधातव्यम् ; 15 तत्प्रतिपत्त्यन्यथानुपपत्त्या विशेषाणामपि प्रतिपत्तिसंभवात् / प्रथमतो हि शब्दात्सा (1) शब्दविषयाः इति सम्बन्धः / (2) “न ह्यनन्तासु व्यक्तिषु संज्ञित्वं शक्यतेऽवगन्तुम् ।"शास्त्रदी० 1 / 3 / 35 / (3) सङ्केत-आ० टि० / (4) अशेषव्यक्त्युपलम्भे हि सर्वज्ञत्वमेव स्यादिति भावः / (5) मीमांसको हि सर्वज्ञं न मनुते-आ० टि०। (6) तस्य व्यक्तीनामुपलम्भः। (7) विशेषेषु-आ० टि०। (8) अभिधानाभिधेयप्रतिपत्तिनियमलक्षणसङ्केताभावे-आ० टि० / (9) शाब्दव्यवहार-आ० टि० / (10) सामान्यमेव-आ० टि० / (11) उद्धृतोऽयम्-प्रश० व्यो० पृ० 191 / काव्यप्र० पृ० 44 / मुक्ताव० दिन० पृ० 373 / काव्यानु० 5025 / “अभिधा पदशक्तिः , विशेष्यं न गच्छेत् न प्राप्नोति। कुत इत्याशङ्कायामाह-क्षीणेति / क्षीणशक्तिविशेषण इत्यनन्तरं सदिति पुरणीयम् / तथा च यतो विशेषणं प्राप्य पदशक्तिः क्षीणशक्तिः क्षीणसामर्थ्या भवत्यतो विशेष्यं नाभिधा गच्छेत् न प्राप्नुयादिति पर्यवसितार्थः ।"-रामरु० .0 373 / (12) "स मख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिधोच्यते ।"-काव्यप्र० पृ० 39 / (13) शब्दात्-आ० टि० / (14) सामान्यमात्रस्य-आ० टि० / (15) सामान्यप्रतिपत्त्यन्यथानुपपत्त्या। "न ह्यनभिधाय गोत्वमुपलक्षणं गोव्यक्तावेव प्रयोगव्यवस्था लभ्यते / तच्चेदभिहितं सिद्धमाकृतिशब्दार्थत्वमिति ।"-तन्त्रवा० 113 // 33 // "न ह्यनभिधाय जाति तज्जातीयत्वेन रूपेण व्यक्तिरभिधातु शक्यते। ततश्च विशिष्टाभिधानमेव वाचोयुक्त्यन्तरेणापन्नं न शुद्धाभिधानम् / विशिष्टाभिधाने च पूर्वतरं विशेषणमभिधातव्यम् / तदभिधान च तत एव अत्यन्ताविनाभूतव्यक्तिप्रतिपत्तिसिद्धेः न तत्र अभिधानशक्तिकल्पनावसरः ।"-शास्त्रदी० 1 // 3 // 35 // 1 सह क्रमेण ब० / 2-च्यमभिधा-श्र० / 3 शब्दार्थः प्रसिद्धः श्र। 4-लक्षणप्रतिप-ब० / -लक्षणविशेषणप्र-श्र० / 6-रभिधानं वि-ब।