________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे (4. श्रागमपरि० स्वप्रतिभासस्य भवत्येव कारणम् अतस्तस्यौप्यसौ वाचकैः स्यात् / यथा च विकल्पस्य शब्दः कारणम् एवं पौरम्पर्येण स्वलक्षणमपि, अतस्तदपि वाचकं स्यात् / अत: प्रतिनियतवाच्यवाचकभावव्यवस्थाविलोप: स्यात् / ततो यद्यत्र यथा निर्बाधबोधे प्रतिभासते तत्तत्र तथैवाऽभ्युपगन्तव्यम् यथा अन्तःसुखमालादनाकारतया, प्रतिभासते 6 च अबाधे शाब्दे प्रत्यये सामान्यविशेषात्मकतया बहिर्घटादिकं वस्त्विति ॥छ॥ ननु सामान्यविशेषात्मकतया शाब्दप्रत्यये बहिर्घटादिवस्तुनः प्रतिभासमानत्वशब्दस्य सामान्य- मसिद्धम् , शब्दानां सामान्यमात्रगोचरचारितया तत्प्रेभवप्रत्ययस्य मात्रवाचकत्वमिति तत्मात्रविषयताया एवोपपत्तेः। सामान्यमात्रमेव हि शब्दानां मीमांसकस्य पूर्वपक्षः- गोचरः; तस्य क्वचित् प्रतिपन्नस्य एकरूपतया सैर्वत्र सङ्केतविषय (1) स्वप्रतिभासस्य-आ० टि०। (2) कारणं यतो भवन्मतेन वाचकम् / (3) शब्दस्वलक्षणाच्छब्दग्राहिनिर्विकल्पकं तस्माच्च सविकल्पकम, अथवा स्वलक्षणानिर्विकल्पकं तस्माच्च सविकल्पकमिति / (4) स्वलक्षणमपि कारणत्वाद्वाचकं स्यात् / (5) स्वलक्षणस्यावाचकत्वे प्रसक्ते / (6) शाब्दे बोधे सामान्यविशेषात्मकतयैव अर्थः प्रतिभाति तत्र तथैव निधिबोधप्रतीतिविषयत्वात् / (7) तुलना-"अनेकमेकञ्च पदस्य वाच्यम्"-बृहत्स्व० श्लो० 44 / “अनेकमेकात्मकमेव वाच्यं द्वयात्मकं वाचकमप्यवश्यम् ।"-अन्ययो० श्लो० 14 / (8) "आकृतिस्तु क्रियार्थत्वात्"-जैमिनिसू० १।३।३३।-"तु शब्दः पक्षान्तरं व्यावर्त्तयति / आकृतिः शब्दार्थः"-शाबरभा०. 1 // 3 // 33 / आकृतिशब्देन जातिरेवाभिप्रेता मीमांसकैः, तथाहि-"जातिमेवाकृति प्राहुः व्यक्तिराक्रियते यया / सामान्यं तच्च पिण्डानामेकबुद्धिनिबन्धनम् // 3 // तनिमित्तञ्च यत्किञ्चित्सामान्यं शब्दगोचरम् // 4 // सामान्यमाकृतिर्जातिः शक्तिर्वा सोऽभिधीयताम् // 18 // यद्येकमेव वस्त्वनेकाकारं तत्तहि तादृगेव शब्दोऽभिदधत् सामान्यमात्राभिधायी न स्यादत आह-न चेति / न च तत्तादृशं कश्चिच्छब्दः शक्नोति भाषितुम् // 63 / / सामान्यांशानपोद्धृत्य पदं सर्व प्रवर्तते।"-मी० श्लो० आकृति० श्लो० 3-4, 18, 63 / “पूर्व सामान्यविज्ञानात् चित्रबुद्धेरनुभवात् / गामानयेति वाक्याच्च यथारुचि परिग्रहात् // गोशब्दोच्चारणे हि पूर्वमेवागृहीतासु व्यक्तिषु सामान्यं प्रतीयते, तदाकारज्ञानोत्पत्तेः पश्चाद् व्यक्तयः प्रतीयन्ते, अतश्चाकृतिप्रत्ययस्य निमित्तान्तराभावाद् व्यक्तिप्रत्यये च पूर्वप्रतीतसामान्यनिमित्तत्वात् आकृतिः शब्दार्थ इति विज्ञायते / यदि च व्यक्तयोऽभिधेया भवेयुस्ततस्तासां चित्रखण्डमुण्डादिविशेषस्वरूपग्रहणाद्विचित्रा शब्दोच्चारणे बुद्धिः स्यात् / एकाकारा तु उत्पद्यते / तेनाप्याकृतिः शब्दार्थ इति निश्चीयते / गामानयेति चोदिते अर्थप्रकरणाभावे यां काञ्चित् सामान्ययुक्तां व्यक्तिमानयति न सी न विशिष्टाम् / यदि च व्यक्तेरभिधेयत्वं ततः सर्वासां युगपदभिहितत्वादशेषानयनं स्यात् / या वाऽभिधेया सैवैका आनीयेत, यतस्त्वविशेषण जातिमात्रयुक्ता आनीयते तेनापि सामान्यस्य पदार्थत्वं विज्ञायते ।"-तन्त्रवा० 1 / 3 / 33 / "आनन्त्यव्य भिचाराभ्यां शक्त्यनेकत्वदोषतः / सन्देहाच्चरमज्ञानाच्चित्रबुद्धेरभावतः // अन्वयव्यतिरेकाभ्यामेकरूपप्रतीतितः / आकृतेः प्रथमज्ञानात्तस्या एवाभिधेयता // व्यक्त्याकृत्योरभेदाच्च व्यवहारोपयोगिता / लिङ्गसंख्यादिसम्बन्धः सामानाधिकरण्यघीः // सर्व समञ्जसं ह्येतद्वस्त्वनेकान्तवादिनः / " -शास्त्रदी० 1 // 3 // 35 // "सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु / जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥"वाक्यप० 3 / 33 / (9) शब्दप्रभव-आ० टि०। (10) सामान्यस्य-आ० टि०। (11) व्यक्तिविशेषे / (12) यावदनन्तास्वपि व्यक्तिषु / 1 शब्दप्रत्यये श्र०, ब०। 2-विषयतया ब०। 3 तस्य प्रति-आ० / 4-यतोपपद्यते ब० /