________________ प्रमाणप्र० का० 26] अन्यापोहवादः यतो न वयं सर्वशब्दानामर्थनान्तरीयकत्वं प्रतिपन्नाः। किंतर्हि ? सुनिश्चिताप्तप्रणेतृकाणामेव / न च केषाञ्चिच्छब्दानामर्थव्यभिचारित्वदर्शनात् सर्वेषां तद्वयभिचारित्वं युक्तम् ; मरीचिकादौ जलाद्यवभासिनोऽध्यक्षस्य अप्रामाण्योपलम्मात् सत्यजलाद्यवभासिनोप्यस्याऽप्रामाण्यप्रसङ्गात् / मरीचिकादौ जलाद्यवभासिन एवास्याऽप्रामाण्यं बाधकसद्भावान्नेतरस्य इत्यन्यत्रापि समानम् / तन्न प्रत्यक्षशब्दयोः परमार्थविषयत्वे / कश्चिद्विशेषः / अतो निराकृतमेतत्-'अन्यदेवेन्द्रियग्राह्यम्' इत्यादि / नहि प्रतिभासभेदो विषयभेदं प्रसाधयति, अभिन्नेऽप्यर्थे स्वसामग्रीविशेषात्तद्भेदस्योपपद्यमानत्वात् दूरासन्नार्थोपनिबद्धदृष्टिप्रेक्षकजनवत्। यथैव हि दूरासन्नदेशादिसामग्रीविशेषवशात् पादपादेरभिन्नस्यापि विभिन्नप्रतिभासविषयत्वं तथा शाब्द-प्रत्यक्षप्रत्यययोरभिन्नविषयत्वेऽपि 10 शब्देन्द्रियादिसामग्रीभेदाद् अस्पष्टेतरप्रतिभासभेदो न विरोधमध्यास्ते / अतः अन्धस्य चक्षुष्मतश्च अभिन्नेऽपि विषये सामग्रीभेदात् प्रतिभासभेदोपपत्तेः अयुक्तमुक्तम्'शब्दात्प्रत्येति भिन्नाक्षो नतु प्रत्यक्षमीक्षते / ' इति / यच्चान्यदुक्तम्-'वाच्यवाचकभावश्च कार्यकारणभावान्नान्यः' इत्यादि; तदप्यचारु; यतः सति बुद्धिसम्बन्धिनि प्रतिबिम्बे अस्य शब्दजन्यत्वात् तद्वाच्यत्वं स्यात् 15 शब्दस्य च तजनकत्वाद् वाचकत्वम् , न च तदस्ति, प्रागेवास्य प्रपञ्चतः प्रतिषेधात् / यदि च कार्यकारणभाव एव वाच्यवाचकभावः स्यात; तदा श्रोत्रज्ञाने प्रतिभासमानोऽपि शब्दः (1) जैनाः / तुलना-'न हि वयं सर्वशब्दानां प्रामाण्यं प्रतिपद्येमहि किं तर्हि सुनिश्चिताप्तप्रणेतृकाणामेव / तन्न प्रामाण्यं प्रति प्रत्यक्षशब्दयोविशेषमुपलभामहे ।"-न्यायावता० टी० पृ० 6 / (2) अर्थाविनाभावित्वम् / (3) अनाप्तप्रणेतृकाणाम् / (4) जलज्ञानस्य / (5) तुलना"न च ग्राहकप्रत्यक्षस्मृतिप्रतिभासभेदात् विषयस्वभावाभेदाभावः, सकृदेकार्थोपनिबद्धदर्शनप्रत्यासन्नेतरपुरुषज्ञानविषयवत् / यथा हि सकृदेकस्मिन्नर्थे पादपादौ उपनिबद्धदर्शनयोः प्रत्यासन्नविप्रकृष्टपुरुषयोर्ज्ञानाभ्यां विषयीकृते स्पष्टास्पष्टप्रतिभासभेदान्न स्वभावभेद: पादपस्य तस्यैकत्वाव्यतिक्रमात्, तथैव ग्राहकयोः प्रत्यक्षस्मृतिप्रतिभासयोः भेदेऽपि स्पष्टमन्दतया न तद्विषयस्य भेदः स्वलक्षणस्यैकस्वभावत्वाभ्युपगमात् ।"-अष्टश०, अष्टसह पृ० 124 / “करणभेदेन प्रतिपत्त्योर्भेदात् / अन्धस्य हि शब्दाद्रूपविषयं विज्ञानमुत्पद्यते न तु चाक्षुषमिति / यस्य चापरोक्षं चाक्षुषं विज्ञानमस्ति असावनन्धः।" -प्रश० व्यो० पृ०५८६। "स्पष्टास्पष्टाकारतयाऽर्थप्रतिभासभेदश्च सामग्रीभेदान्न विरुद्धयते दूरासन्नार्थोपनिवद्धेन्द्रियप्रतिभासवत् ।"-प्रमेयक० पृ० 446 / सन्मति० टी० पृ० 259 / स्या०र० पृ० 715 / (6) प्रतिभासभेदस्य / (7) पृ० 5535010 / (8) पृ०५५६६०१५। (9) बुद्धिगतप्रतिबिम्बस्य / (10) इयता कार्य वाच्यं कारणं वाचकमिति सिद्धम्-आ० टि० / (11) बुद्धौ प्रतिबिम्बम् / (12) शब्दःनिर्विकल्पकप्रत्यक्षस्य कारणम्, 'नाकारणं विषयः' इत्यभ्युपगमात् / तुलना-"यतो यदि कार्यकारणभाव एव वाच्यवाचकभावः स्यात्; तदा श्रोत्रज्ञाने प्रतिभासमानः शब्द: स्वप्रतिभासस्य भवत्येव कारणमिति तस्याप्यसौ वाचकः स्यात् / यथा च विकल्पस्य शब्द: कारणम् एवं परम्परया स्वलक्षणमपि अतस्तदपि वाचकं स्यात्.."-रत्नाकराव० 4 / 11 / 1-ज्ञानप्रतिभा-श्र०, ब०।