________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. आगमपरि० तथाप्रतीत्यभावात् / परप्रतिपादनार्थो हि शब्दप्रयोगः, परश्च नीलार्थी न अनीलनिषेधमात्रं जिज्ञासते, अजिज्ञासितश्च प्रतिपादयतः प्रतिपादकस्याऽप्रेक्षापूर्वकारित्वप्रसङ्गः / निषेधमात्राभिधायित्वे च नीलोत्पलशब्दयोः सामानाधिकरण्यन्न प्राप्नोति; नीलशब्दो ह्यनीलव्यवच्छेदमात्रे चरितार्थः, उत्पलशब्दोऽपि अनुत्पलव्यवच्छेदमात्रे / / न चैतौ व्यवच्छेदौ एकस्मिन् धर्मिणि सम्बद्धौ; भावाभांवयोस्तादात्म्यादिसम्बन्धा संभवात् / नपि तौ शब्दौ एकधर्मिविषयौ; घटपटशब्दयोरिवाऽनयोः एकँधर्मिविषयत्वानभ्युपगमात् / किञ्च, नबेव पर्युदासवृत्तिः प्रसज्यवृत्तिर्वा भवति, गौरिति च नायं नञ् , अतः कथमगोपर्युदासेन गोशब्दवृत्तिः ? गौरयमिति विधिरूपेणैवास्य प्रवर्त्तमानत्वात् / ततः सामान्यविशेषवानर्थः शब्दस्य विषयोऽभ्युपगन्तव्यः अलं प्रतीत्यपलापेन / तस्य च सङ्केतव्यवहारकालानुयायित्वप्रसिद्धेः नेत्थम्भूते स्वलक्षणे सङ्केतकरणवैफल्यम्। भवत्कल्पितस्य तु स्वलक्षणस्य सुगतमतपरीक्षायां प्रपञ्चत: प्रतिक्षिप्तत्वात् तत्र तत्करणं विफल: . मेव / अतो यः 'सङ्केतव्यवहारकालाननुयायी' इत्यादि" सिद्धसाधनत्वादुपेक्षणीयम् / सम्बन्धश्च वाच्यवाचकयोः ऊहाख्यप्रमाणेन प्रतीयते, सर्वत्र सम्बन्धप्रतीते16 स्तदधीनत्वात् / अतः 'अस्येदमभिधानमिति सम्बन्धकारिणि ज्ञाने प्रतिनियतेन्द्रियवि षययोः शब्दार्थयोर्न प्रतिभासः' इत्याद्यप्ययुक्तमुक्तम् ; सामान्यविशेषात्मनोरेव शब्दार्थयोः प्रतिनियतेन्द्रियविषयतोपपत्तेः, अतः कथं तयोः तत्कारिणि ज्ञाने प्रतिभासाभावः ? ननु चातीतानागतार्थशब्दानां 'नद्यास्तीरे मोदकराशयः सन्ति' इत्यादिशब्दानाञ्च अर्थाभावेऽपि प्रवृत्तिप्रतीतेः कथमर्थे प्रतिबन्धसिद्धिस्तेषाम् ? इत्यप्यसमीक्षिताभिधानम् ; (1) "भिन्ननिमित्तयोः शब्दयोरेकस्मिन्नधिकरणे वृत्तिः सामानाधिकरण्यम्"-प्रमाणवा०स्वव० टी० 1164 / तुलना-“यस्य चान्यापोहः शब्दार्थस्तेनानीलानुत्पलव्युदासौ कथं समानाधिकरणाविति वक्तव्यम् / यस्य पुनर्विधीयमानः शब्दार्थस्तस्य जातिगुणविशिष्टं नीलोत्पलशब्दाभ्यां द्रव्यमभिधीयते, जातिगुणौ द्रव्ये वर्तेते न पुनरनीलानुत्पलव्युदासौ, तस्मात् समानाधिकरणार्थो नास्तीति ।"-न्यायवा० प० 331 / न्यायमं० 10 305 / “सामानाधिकरण्यञ्च न भिन्नत्वादपोहयोः / अर्थतश्चैतदिष्येत कीदृश्याधेयता तयोः // न चासाधारणं वस्तु गम्यतेऽन्यच्च नास्ति ते। अगम्यमानमेकार्थ्य शब्दयोः क्वोपयुज्यते ॥"-मी० श्लो० अपोह० श्लो० 118-19 / अनेकान्तजय० पृ० 40 / प्रमेयक० 10 436 / (2) धर्मी भावात्मकः, अभावात्मकौ च अनीलानुत्पलव्यवच्छेदौ। (3) नीलमुत्पलमिति शन्दौ। (4) सामानाधिकरण्यं हि भिन्नप्रवृत्तिनिमित्तयोः शब्दयोः एकत्रार्थे वृत्ति:-आ०टि०। (5) सामान्यविशेषात्मनोऽर्थस्य / (6) सामान्यविशेषात्मके / (7) सौगतकल्पितस्य / (8) पृ० 379 / (9) क्षणिकस्वलक्षणे। (10) सङ्केतकरणम्। (11) पृ०५५२ पं०९। (12) ऊहाख्यप्रमाणायत्तत्वात् / (13) पृ० 553 पं० 4 / (14) सङ्केतकारिणि / (15) शब्दानाम् / 1 जिज्ञासति ब० / 2-विषयो घट-आ०। 3-शब्दप्रवृत्तिः ब०, श्र०। 4-वास्य वर्त-आ० / संकेतवैफ-श्र०। 6 प्रतिबन्धस्तेषा-श्र० /