________________ 15 प्रमाणप्र० का० 28] अन्यापोहवादः एतेन विभिन्नकार्यकारित्वात्तद्भेदः प्रत्याख्यातः; अपरमार्थसतो विभिन्नकार्यकारित्वानुपपत्तेः खपुष्पवत् / तत्कारित्वे वाऽपरमार्थसत्त्वाऽसंभवात् स्वलक्षणवत् / कुतश्च कार्यकारणयोर्भेदः सिद्धो यतः तद्भेदादपोहस्य भेदः सिद्ध्येत्-अपोहभेदात्, स्वरूपतो वा ? अपोहभेदाच्चेद्; अन्योन्याश्रयः-सिद्धे हि कारणभेदे कार्यभेदे च तत्प्रभवतया तत्कॉरितया च अपोहभेदसिद्धिः, तत्सिद्धौ च कार्यकारणयोर्भेदसिद्धि- 5 रिति / स्वरूपतस्तद्भेदसिद्धौ चै अपोहकल्पनाऽनर्थक्यम् / / अथाश्रयभेदादपोहभेदः, तन्न; अवस्तुरूपस्यास्य क्वचिदाश्रितत्वानुपपत्तेः / यदवस्तुरूपं न तत् क्वचिदाश्रितम् यथा गगननलिनम्, अवस्तुरूपश्चापोह इति / आश्रितत्वे वा किमसौ प्रतिव्यक्ति भिन्नः, अभिन्नो वा स्यात् ? यदि भिन्नः; तदा द्रव्यगुणकर्मणां मध्ये अन्यतमरूपतैवास्याभ्युपगता स्यात् , प्रतिव्यक्तयन्यस्य आश्रि- 10 तत्वानुपपत्तेः / अथाभिन्नः; तदा सामान्यरूपतैव नामान्तरेणोक्ता स्यात् इत्युभयथाप्यन्यापोहरूपतानुपपत्तिः / __अथ स्वरूपभेदादपोहस्य भेदः, तन्न; अपरमार्थसत्त्वेऽस्य स्वरूपभेदानुपपत्तेः / यदपरमार्थसन्न तस्य स्वरूपभेदः यथा खपुष्पखरविषाणादेः, अपरमार्थसंश्चापोह . इति / स्वरूपभेदे वाऽस्य स्वलक्षणवत् परमार्थसत्त्वप्रसङ्गः।। ____किश्च, पर्युदासरूपः, प्रसज्यरूपो वाऽपोह: स्वरूपतो भिन्नः शब्दैरभिधीयेत ? यदि पयुदासरूपः; तदास्य भावान्तररूपताभ्युपगन्तव्या। भावान्तरञ्च 'विशेषः,सामान्यम् , तदुपलक्षितो वा विशेषः, तत्समुदायो वा स्यात्' इति पक्षचतुष्टयेऽपि विधिरेव शब्दार्थः स्यात् नाऽपोहः / अथ प्रसज्यरूपः; तदा निषेधमात्रमेव शब्दैरभिहितं स्यात्, तच्चायुक्तं . (1) अपोहभेदः / (2) अर्थक्रियाकारित्वे। (3) कार्यभेदात् / (4) भिन्नकारणप्रभवतया / (5) भिन्नकार्यकारितया / (6) कार्यकारणयोः भेदसिद्धौ। (7) तुलना-"तेनैवाधारभेदेनाप्यस्य भेदो न युज्यते। न हि सम्बन्धिभेदेन भेदो वस्तुन्यपीष्यते। किमुतावस्त्वसंसृष्टमन्यतश्चानिवर्तितम् / अनवाप्तविशेषांशं यत्किमप्यनिरूपितम् ।"-मी० श्लो० अपोह० श्लो० 48-49 / (8) अपोहो न क्वचिदाश्रितः अवस्तुरूपत्वात् / (9) अपोहः / (10) अपोहरूपस्य सामान्यस्य आश्रयभूतानि द्रव्यगुणकर्माण्येव भवितुमर्हन्ति, सामान्यस्य द्रव्यादित्रयवृत्तित्वात् / (11) अपोहस्य / (12) अपोहस्य / (13) नापोहस्य स्वरूपभेद: अपरमार्थसत्त्वात्। (14) अपोहस्य / तुलना-'यद्वा भिद्यमानत्वाद्वस्त्वसाधारणांशवत् / अवस्तुत्वे त्वनानात्वात्" मी० श्लो० अपोह० श्लो० 46 / न्यायमं पृ० 304 / (15) "किञ्चापोहाख्यं सामान्यं वाच्यत्वेनाभिधीयमानं पर्युदासलक्षणञ्चाभिधीयेत, प्रसज्यलक्षणं वा ?"-प्रमेयक० 10432 / प्रमेयर० 3 / 101 / (16) यथा घट: पटात स्वरूपतो भिन्नः सन भावान्तर:-आ.टि। तुलना-"अगोनिवृत्तिः सामान्यं वाच्यं यः परिकल्पितम / गोत्वं वस्त्वेव तैरुक्तमगोपोहगिरा स्फुटम् ॥"-मी० श्लो० अपोह. इलो०१। प्रमेयक० 10432 / (17) तुलना-"नन्वन्यापोहकृच्छब्दो युष्मत्पक्षेऽनुवर्णितः / निषेधमात्रं नैवेह प्रतिभासेऽवगम्यते / / किन्तु गौर्गवयो हस्ती वृक्ष इत्यादिशब्दतः / विधिरूपावसायेन मतिः शाब्दी प्रवर्तते // " (पूर्वपक्षे) -तत्त्वसं० का० 910-11 / प्रमेयक० पृ० 432 / 1 चापर-ब० / 2 तत्कार्यतया ब० / 3 वा श्र० / 4 चास्य ब०। 5-भिधीयते ब०, श्र०।