________________ 512 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [4. प्रागमपरि० लिङ्गभेदः एकद्विबहुवचनादिभेदश्च दुर्लभः / लिङ्गलिङ्गिभेदश्च दूरोत्सारित एव स्यात् ; . यदेव हि लिङ्गशब्दवाच्यमपोहमानं तदेव लिङ्गिशब्दस्यापि / / ___ अथापोहस्य भेदाभ्युपगमान्नायं दोषः; तदयुक्तम् ; तस्य भेदाऽसिद्धेः / तस्य हि भेद: अपोह्यभेदाद्, वासनाभेदात् , विभिन्नसामग्रीप्रभवत्वात् , विभिन्नकार्यकारित्वात् , 5 आश्रयभेदात् , स्वरूपभेदाद्वा स्यात् ? न तावदपोह्यभेदात् ; सर्व-प्रमेयादिशब्दानाम पोह्यभेदाभावतः पर्यायताप्रसङ्गात् / न हि असर्वं सर्वगशेर्व्यतिरिक्तम् , अप्रमेयं वा किञ्चिदस्ति यदपोहेन सर्वादिकं सिद्ध्येत् / कथं वा सत्व-कृतकत्वादिहेतोः सिद्धिः ? न हि असदकृतकं वा जगति किश्चिदस्ति यदपोहेन सत्त्वादिसाधनं सिद्ध्येत् / अपो ह्यभेदादपोहभेदे चान्योन्याश्रयः-सिद्धे ह्यपोह्यभेदे अपोहभेदसिद्धिः, तत्सिद्धौ चापोह्यभेद10 सिद्धिरिति / तन्नापोह्यभेदादपोहस्य भेदः / नापि वासनाभेदात् ; तद्भेदस्याप्यनुपपत्तेः / अनुभवभेदनिबन्धनो हि वासनाभेदः, अपोहस्य चैकरूपत्वे अनुभवभेदो दुर्घटः। नापि विभिन्नसामग्रीप्रभवत्वादपोहभेदः; अस्य कल्पितरूपतया सामग्रीविशेषतः प्रादुर्भावस्यैवाऽनुपपत्तेः / यत् कल्पितरूपं तन्न कुतश्चित्प्रादुर्भवति यथा तुरङ्गमोत्तमाङ्गे शृङ्गम् , कल्पितरूपश्च भवन्मते अपोह इति / ततस्तदुत्पत्तौ वा कल्पितरूपत्वव्याघातः / यत् 15 कुतश्चिदुत्पद्यते तन्न कल्पितरूपं यथा स्वलक्षणम् , उत्पद्यते च सामग्रीविशेषतोऽपोह इति / (1) तुलना-"ननु भेदादपोहानां प्रसङ्गोऽयं न युज्यते / सामान्यापोहक्लृप्त्या चेद्वस्तुमात्रे समं तव // भिद्यन्ते मम वस्तुत्वात्सामान्यानि परस्परम् / असङ्कीर्णस्वभावानि न चैकत्वं वितन्वते / संसृष्टैकत्वनानात्वविकल्परहितात्मनाम् / अवस्तुत्वादपोहानां तव स्याद् भिन्नता कथम् ॥"-मी० श्लो० . अपोह० श्लो० 43-45 / (2) अपोहस्य / (3) तुलना-"अन्यापोहश्च शब्दार्थ इत्ययुक्तम् ; अव्यापकत्वात् / यत्र द्वैराश्यं भवति तत्रेतरप्रतिषेधादितरः प्रतीयते यथा गौरिति पदे गौः प्रतीयमानः अगौः प्रतिषिध्यमानः / न पुनः सर्वपद एतदस्ति, न ह्यसर्वं नाम किञ्चिदस्ति यत्सर्वपदेन निव]त / " -न्यायवा० पृ० 329 / “ननु चापोह्यभेदेन भेदोऽपोहस्य सेत्स्यति / न विशेष: स्वतस्तस्य परतश्चौपचारिकः // 47 // प्रमेयज्ञेयशब्दादेरपोह्यं कुत एव तु ।"-मी० श्लो० अपोह० श्लो० 47, 144 / प्रमेयक० पृ०४३४ / प्रमेयर० 3 / 101 / (4) तुलना-"यद्यप्यन्येषु शब्देषु वस्तुनः स्यादपोह्यता। सच्छब्दस्य त्वभावाख्यान्नाऽपोह्यं भिन्नमिष्यते ॥"-मी० श्लो० अपोह० श्लो० 98 / (5) तुलना"अपोह्यभेदक्लुप्तिश्च नाभावाऽभेदतो भवेत् / तद्भदोऽपोहभेदाच्चेत् प्राप्तमन्योन्यसंषयम् / / गोसामान्यस्य भिन्नत्वादगौरित्येष भिद्यते। अगौरित्यस्य च भेदेन गोसामान्यं च भिद्यते ॥"-मी० श्लो० अपोह० श्लो० 65-66 / न्यायमं० पृ० 304 / (6) तुलना-'नचापि वासनाभेदाद् भेदः सद्रूपतापि वा / अपोहानां प्रकल्प्येत न ह्य वस्तुनि वासना // स्मृति मुक्त्वा नचास्त्यस्याः शक्तियोगः क्रियान्तरे। तस्मान्नान्यादृशे साऽर्थे करोत्यन्यादृशीं मतिम् // भवद्भिः शब्दभेदोऽपि तन्निमित्तो न लभ्यते।"-मी० श्लो० अपोह० श्लो० 100-2 / प्रमेयक० पृ० 439 / (7) वासनाभेदस्य / (8) अभावरूपतया तुच्छैकस्वभावत्वे / (9) अपोहस्य / (10) अपोहो न कुतश्चित्प्रादुर्भवति कल्पितरूपत्वात् / (11) सौगतमते / (12) कारणसामग्रीतः अपोहोत्पत्तौ / (13) अपोहो न कल्पितः कारणादुत्पद्यमानत्वात् / __1'विभिन्नसामग्रीप्रभवत्वात्' नास्ति श्र०। 2-भेदे वान्यो-ब०, श्र०। 3 तद्भवस्याप्यनु भव -आ० / 4-स्वावपोहभेदस्य कल्पि-ब० / 6 प्रादुर्भावानुप-श्र०।।