________________ प्रमाणप्र० का० 26 ] अन्यापोहवादः 561 करणश्च किं तेनैव ज्ञानेन, ज्ञानान्तरेण वा ? न तावत्तेनैव स्वाकारं दृश्यश्च पृथक् प्रतिपद्यैक्यं प्रतीयते ; तथा प्रतीत्यभावात् , क्षणिकत्वाच्च / नापि ज्ञानान्तरेण ; तद्धि एकम् , अनेकं वा ? यद्यनेकम् ; कथमैक्यं प्रतिपद्येत ? स्वसंवेदनेन हि ज्ञानस्वरूपं प्रतीयते दर्शनेन तु दृश्यम् / एकं तु यदि द्वयं प्रत्येति; कथमैक्यम् ? अथैक्यं प्रत्येति; कथं द्वयं विरोधात् ? किञ्च, अयमपोहो भावे भावस्य प्रतीयते, केवलो वा ? प्रथमपक्षे भावयोः / प्रतीतिः किं शब्दादेव, प्रमाणान्तराद्वा ? न तावत् शब्दादेव ; अस्य अपोहादन्यत्र प्रवृत्त्यनभ्युपगमात् / अभ्युपगमे वा किं भावौ प्रतीत्य अतोऽपोहः प्रतीयते, अपोहं वा प्रतीत्य भावाविति ? तत्राद्यविकल्पे नान्यापोहः शब्दार्थः, मुख्यतो भावयोरेव तदर्थत्वात् , प्रतीत्युत्तरकालं सामर्थ्यादेव वा अन्यव्यावृत्तेः प्रतीतेः / नीलश्च प्रतीत्य अनीलव्यावृत्तिप्रतीत्यभ्युपगमे स्खलन्ती तत्प्रतीतिः स्यात् / अतो नीलस्य अनीलव्यावृत्त्यात्मकस्यैव 10 प्रत्यक्षादिव शब्दात्प्रतीतिरभ्युपगन्तव्या। द्वितीयविकल्पे तु प्रतीतिविरोधः, न खलु केवलोऽपोहः प्रथमं शब्दात् प्रतीयते पश्चाद् भावाविति कस्यचित्स्वप्नेऽपि प्रतीतिरस्तीति / एतेन प्रमाणान्तरादपि तत्प्रतीतिः प्रत्याख्याता; ततोऽपि भावयोः प्रतीतौ उक्तदोषानुषङ्गाविशेषात् / अस्तु वा कुतश्चिदस्य प्रतीतिः; तथापि-भावाभ्यां भिन्नस्यापोहस्य प्रतीतौ कथमस्य भावसम्बन्धिता स्यात् , भावाभावयोस्तादात्म्यतदुत्पत्तिलक्षणसम्बन्धासम्भवात् ? 15 _ 'केवलोऽपोहः प्रतीयते' इत्ययमपि पक्षोऽनेनैव प्रतिव्यूढः; यदि च केवलोऽपोहः शब्दाल्लिङ्गाद्वा प्रतीयेत ; तर्हि सर्वशैब्दानां पर्यायता स्याद् अपोहमात्रस्याऽविशिष्टस्याशेषशब्दैः प्रतिपादनात् / एवञ्च विशेषणविशेष्यभेदः अतीतादिकालभेदः स्त्रीपुंनपुंसक (1) तुलना-"नेतद् दृश्यविकल्प्याथैकीकरणेन भेदतः / एकप्रमात्रभावाच्च तयोस्तत्त्वाप्रसिद्धितः।"-शास्त्रवा० 11110 / “अतीते तदात्मकतया अभावसमारोपानुपपत्तेः ।"-प्रश० कन्द० पृ० 320 / (2) तुलना-"यश्चायमन्यापोहः अगौर्न भवतीति गोशब्दस्यार्थः स कि भावोऽथ अभाव इति ?"-न्यायवा० पृ० 329 / इति प्रसज्य:-आ० टि०। (3) शब्दस्य अपोहादतिरिक्ते भावे प्रवृत्तौ / (4) शब्दार्थत्वात्-आ० टि०। (5) भावस्य प्रतिनियतमसाधारणं स्वरूपं हि अन्यव्यावृत्त्यात्मकं भवत्येव / (6) सापेक्षत्वात्-आ० टि०। (7) अनीलव्यावृत्तिप्रतीतिः। (8) व्यवहारिणः पुरुषस्य / (1) भावयोः प्रतीतिः। (10) अपोहस्य। (11) अपोहस्य / (12) तुलना-"भिन्नसामान्यवचना विशेषवचनाश्च ये। सर्वे भवेयुः पर्याया यद्यपोहस्य वाच्यता॥"-मी० श्लो० अपोह० श्लो० 42 / न्यायमं० पृ०३०४। "अपि च ये विभिन्नसामान्यशब्दा गवादयो ये च विशेषशब्दाः शाबलेयादयस्ते भवदभिप्रायेण पर्यायाःप्राप्नुवन्ति अर्थभेदाभावात् वृक्षपादपादिशब्दवत् ।"-प्रमेयक० पू०४३३ / प्रमेयर०३।१०१। (13) तुलना-"अपोहमात्रवाच्यत्वं यदि चाभ्युपगम्यते। नीलोत्पलादिशब्देषु शबला'र्थाभिधायिषु / / विशेषणविशेष्यत्वसामानाधिकरण्ययोः। न सिद्धिर्न ह्यनीलत्वव्युदासेऽनुत्पलच्युति: // " -मी० श्लो० अपोह० इलो० 115-16 / प्रमेयक० 10 436 / (14) तुलना-"लिङ्गसंख्यादिसम्बन्धो न वाऽपोहस्य विद्यते / व्यक्तेरव्यपदेश्यत्वात्तद्द्वारेणापि नास्त्यसौ ॥"-मी०श्लो॰अपोह०श्लो० 135 / 1 प्रमित्यभा-ब० ॥2'क्षणिकत्वाच्च' नास्ति ब० / मुख्यतया भा-श्र० / 4 अन्यव्यावृत्तिप्रती -आ०।। प्रतीतिरिति ब०, प्रतीतिरस्ति श्र०। 6-तिः कि प्रत्या-ब०।-नुषङ्गाविरोधात् ब० / 8 एवं विशे-ब०, श्र०॥ 21