________________ 560 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [4. श्रागमपरि० तद्धर्मान बहुभारोद्वहनादीन वाहीके निश्चित्य गोत्वमारोपयति 'गौर्वाहीकः' इति / अथोभयग्रहणे सति आरोप: स्यात् ; नर्नु उभयोर्ग्रहणं विकल्पेन, निर्विकल्पेन वा स्यात् ? न तावनिर्विकल्पेन; अस्य स्वलक्षणगोचरतया अन्यापोहस्वरूपविकल्पाकारे प्रवृत्त्यनुपपत्तेः / नापि विकल्पेन; अस्य बाह्यार्थपैरोमर्शपराङ्मुखत्वात् , अतः कथमसौ स्वाकारे बाह्यं तत्रं वा स्वाकारमारोपयेत् ? ___ अस्तु वाऽस्योभयग्रहणम् ; तथापि-पूर्व स्वप्रतिभासमनर्थमनुभूय पश्चादर्थमारोपयति, युगपदेव वा स्वप्रतिभासञ्चानुभवति अर्थश्च समारोपयति, किं वा यावदेवोक्तं भवति-स्वाकारमनुभवतीति तावदेवोक्तं भवति अर्थमध्यवस्यतीति ? न तावत्स्वरूपानुभवः पूर्व पश्चादर्थसमारोपः; क्षणद्वयावस्थानविकलत्वाज्ज्ञानानाम् , 10 अन्यथा क्षणभंङ्गभङ्गप्रसङ्गः। अथ युगपदेव स्वप्रतिभासमनुभवति अर्थश्च समारो पयति; तर्हि ग्राह्यग्राहकाकारात्मके विकल्पस्वरूपे संवेद्यमाने स्वानुभवसमानकाल एवार्थः समारोप्यमाणो विकल्पस्वरूपाद् बेहिरेवाऽवतिष्ठते तत्कथमात्मानमनर्थम् अर्थ- .. मारोपयेदसौ ? अथ स्वाकारानुभव एव अर्थसमारोपः; तदप्यसुन्दरम् ; अनुभवितव्य विकल्पयितव्ययोर्भेदात् / शब्दसंसृष्टं हि स्वरूपं विकल्पयितव्यम् , अशब्दसंसृष्टं तु 15 स्वसंवेदनेनानुभवितव्यम् , तत्कथमनयोरेकत्वम् ? एतेन 'दृश्यविकल्प्यावेकीकृत्य बहीरूपतयाऽध्यस्तः' इत्यादि प्रत्युक्तम् ; तदेकी (1) “जर्तिका नाम वाहीकास्तेषां वृत्तं सुनिन्दितम् ।"-महाभार० कर्णपर्व अ० 200 / 'जाट' इति भाषायाम् / “यथा गोशब्दस्य जाड्यादिगुणनिमित्तोऽर्थो वाहीकः।"-महाभा०प्र० 1111 15 / (2) तुलना-"कः खलु विकल्पमेव दृश्यमित्यध्यवस्यति / विकल्प एवेति चेत् ; न; तत्र सामा न्यावभासात् अन्यथा विकल्पत्वायोगात् / अन्य इति चेत् ; न; आत्मवादापत्तेः तत्तथाध्यवसायनिमित्ताभावाच्च।"-अनेकान्तजय० पृ० 35 B. / "नैकत्वाध्यवसायोऽपि दृश्यं स्पृशति जातुचित् / विकल्पस्यान्यथा सिद्धयेत् दृश्यस्पर्शित्वमञ्जसा।"-तत्त्वार्थश्लो० पृ० 109 / "तदेकत्वं हि दर्शनमध्यवस्यति तत्पृष्ठजो व्यवसायो ज्ञानान्तरं वा।"-प्रमाणप०१० 53 / प्रमेयक० पृ० 31 / सन्मति० टी० पृ० 500 / स्या०र० पृ०८२ / (3) निर्विकल्पस्य / (4) अवस्तुविषयत्वात्-आ० टि०। (5) विकल्पः / (6) बाह्येऽर्थे / (7) तुलना-'न च स्वाकारमनर्थमर्थ आरोपयति / न तावदगृहीतः स्वाकारः शक्य आरोपयितुमिति तद्ग्रहमेषितव्यम् / तत्कि गृहीत्वा आरोपयति, अथ यदैव गृह्णाति तदैवारोपयति। न तावत्पूर्वः पक्षः, न हि विकल्पज्ञानं क्षणिक क्रमवन्तौ ग्रहणसमारोपौ कर्तुमर्हति / उत्तरस्मिंस्तु पक्षे विकल्पस्वसंवेदनप्रत्यक्षाद्विकल्पाकारादहङ्कारास्पदाद् अनहङ्कारास्पदं समारोप्यमाणो विकल्पो नास्वगोचरोन शक्योऽभिन्नः प्रतिपत्तुम् / नापि बाह्यस्वलक्षणकत्वेन शक्यः प्रतिपत्तुं विकल्पज्ञानेन स्वलक्षणस्य बाह्यस्याप्रतिभासनात् ।"-न्यायवा० ता० पृ० 485 / (8) स्वाकारानुभवनमेव अर्थाध्यवसायः इति भावः। (9) यदि यदैव विकल्पाकारः स्वप्रतिभासमनर्थमनुभवति तदैवार्थे समारोपयति; तदा विकल्पस्य स्वानुभवव्यापृतत्वादर्थोऽवकाशमलभमानः तत्स्वरूपाद् बहिरेवास्ते विकल्पे न सङक्रामति, तत्कथमात्मनि अनर्थभूते अर्थ विकल्पाकार आरोपयतीति तात्पर्यम् ।-आ० टि०। (10) आत्मनि अनर्थे इत्यर्थः / (11) पृ० 555505 / 1-परामर्शप्राङमुखत्वात् श्र०। 2 पूर्व प्रतिभासमानार्थमन-श्र०। -भासं वानुभ-ब० / 4-भंगभंगताप्रसंग: ब०।