________________ प्रमाणप्र० का 0 26 ] अन्यापोहवादः 556 दयाभावानुषङ्गात् / अर्थक्रियायाश्च कादाचित्कत्वात् तदुदयोऽपि कदाचिदेव स्यात् / किञ्च, एकार्थक्रियाकारित्वं स्वलक्षणे यद्येकमभ्युपगम्यते तदा बाह्यावभासितयोपलभ्यमानप्रतिभासबलात् तदेव प्रतिभास्यमस्तु किं प्रतिबिम्बाग्रहग्रहेण ? ... किञ्च, यदि स्वप्रतिबिम्बमात्राध्यवसायित्वं शाब्दविकल्पस्य स्यात् तर्हि अंतः कुतो बहिरर्थे प्रवृत्तिः स्यात् ? स्वप्रतिभासेऽनर्थे अर्थाध्यवसायाचेत् ; ननु कोऽयमर्थाध्य- 5 वसायो नाम-बाह्यस्यार्थस्य ग्रहणम् , करणम् , योजनम् , समारोपो वा ? प्रथमपक्षे पैरमतसिद्धिः; शाक्यैः शाब्दप्रत्ययानां बहिरर्थग्रहणानभ्युपगमात् / द्वितीयपक्षोप्यनुपपन्नः; नहि बाह्यार्थकरणे ज्ञानानां सामर्थ्यम्, स्वसामग्रीतस्तेामाविर्भावात्, अन्यथा अप्रतिहता सर्वस्य सर्वार्थसिद्धिः स्यात् / __ अथ स्वांकारं विकल्पो बाह्येनार्थेन योजयति; तदसत्; तथाप्रतीतेरसंभवात् / नह्येवं 10 कस्यचित् प्रतीति: योऽयमाकारो मदीयः स बाह्यार्थविशिष्टः' इति, बाह्यार्थेन सह स्वाकारस्य सम्बन्धाभावतो विशेषणविशेष्यभावानुपपत्तेः। न च परम्परया तदुत्पत्तिसम्बन्धोऽस्यास्तीत्यभिधातव्यम् ; व्योवृत्ताकारार्थस्य अनुवृत्ताकारप्रतिबिम्बनहेतुत्वप्रतिषेधात् / अथ बाह्यमर्थं विकल्पः स्वाकारे समारोपयति; तदप्यसाम्प्रतम् ; समारोपो हि उभयग्रहणे सति स्यात् , असति वा ? न तावदसति; उभयग्रहणपुरस्सरत्वात्तस्य / य: 15 समारोपः स उभयग्रहणपुरस्सरः यथा गोर्वाहीके समारोपः, समारोपश्च विकल्पाकारे बाह्यार्थस्येति / न चेदं निदर्शनं साध्यविकलम् ; येनैव हि गौरनुभूतः वाहीकश्च, स (1) “तथापि विकल्पाद्वाह्याभिमुखप्रवृत्तिस्तदर्थिनां न स्यात् ।"-न्यायवा० पृ० 485 / "इत्थमपि ततो वस्तुनि प्रवृत्त्यनुपपत्तेः ।"-अनेकान्तजय० 40 35 B. / “अन्यापोहे प्रतीते च कथमर्थे प्रवर्तनम् / शब्दात्सिद्धयेज्जनस्यास्य सर्वथाऽतिप्रसङ्गतः॥"-तत्त्वार्थश्लो० पृ० 101 / प्रमेयक० पृ० 431 / रत्नाकराव० 4 / 11 / (2) तुलना-"न; तदेकीकरणासिद्धेः, दृश्यविकल्प्ययोरत्यन्तभिनत्वात्, साधायोगात्, एकस्योभयानुभवितुरभावात् तदा द्वयदर्शनादर्शनविकल्पानुपपत्तेः ।"-अनेकान्तजय० पृ० 35 B. / “स्वाकारमबाह्यं बाह्यमध्यवस्यन् विकल्पः स्वाकारबाह्यविषय इति चेत्; यथाह-स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तिरिति / अथ कोऽयमध्यवसाय:-किं ग्रहणमाहोस्वित् करणम् उत योजना अथ समारोपः ? तत्र स्वप्रतिभासमनर्थमर्थं कथं गृह्णीयात् कुर्याद्वा विकल्पः / न हि पीतं नीलं शक्यं ग्रहीतु वा शिल्पिशतेनापि / नप्यगृहीतेन स्वलक्षणेन स्वाकारं योजयितुमर्हति विकल्पः / न च स्वलक्षणं विकल्पगोचर इति चोपपादितम् ।"-न्यायवा० ता० पृ० 485 / ( जैनमत / (4) अर्थानाम्-आ० टि० / (5) ज्ञानमात्रेणैव यद्यर्थस्य समुत्पत्तिः स्यात्तदा असङ्ख्यरूप्यकपरिज्ञानादेव असंख्यरूप्यकोत्पत्तौ विश्वमदरिद्रं स्यात् / (6) विकल्पाकारस्य-आ० टि०। (7) स्वाकार-बाह्यार्थयोः। (8) स्वलक्षणरूपो बाह्योर्थः ततो निर्विकल्पकमिति ( ततो निर्विकल्पक तस्माच्च सविकल्पकमिति ) पारम्पर्येण विकल्पार्थयोस्तदुत्पत्तिसम्बन्ध:-आ.टि०। (9) न हि व्यावृत्ताकारादनुवृत्ताकारं जायते-आ० टि० / (10) एकस्य अन्यत्र समारोपस्य / (11) विकल्पाकारे बाह्यार्थसमारोपः उभयग्रहणपूर्वकः समारोपत्वात् / 1 धारणम् ब०। 2 स्वाकारविक-श्र०।-रभावात् ब०,श्र०। 'समारोपः' नास्ति श्र।